वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
तदतिक्रामतो द्रव्यं राजगामि विधीयते । इति ।
तत्, शुल्कस्थानं हट्टघट्टादि ।
विष्णुनापि,
शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् । इति ।
इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम् । राजप्रतिषि-
द्धम्-'दुर्भिक्षे ऽन्नं देशान्तरे न नेयम्'इत्येतद्विषयं वा । यथोक्तम्-
मनुना,
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ इति ।
तथाऽन्यत्र,
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ इति ।
शिल्प्यादिविषये मासिककरमाह-
विष्णुः, शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः ।
शिल्पिनो, लोहकारादयः । कर्मोपजीविनः, कारवो बर्द्ध-
क्यादयः । चकारादन्योपजीविनः ।
मनुरपि,
कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।
एकैकं कारयेत्कर्म प्रतिमासं महीपतिः ॥ इति ।
एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः । विशेषा-
न्तरमाह-
वसिष्ठः,
नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो
वा दद्युः प्रतिमासम् । इति ।
वनदाहो. दग्धं वनं तदुपजीविनः । तानेव ये उपजीवन्ति
शिल्प्यादिकरः, करादेरग्रहणेऽन्यायेन ग्रहणे च दोषः।२७५
सैव तेषां वृत्तिः । विशेषान्तरमाह--
गौतमः, एतेनात्मोपजीविनो व्याख्याता, नौचक्रिव-
न्तश्च, भक्तं तेभ्योऽपि दद्यात् । इति ।
एतेन, प्रतिमासमेकाहकर्मकरणेन । आत्मोपजीविनः, भा-
रवाहनटनर्त्तकादयः । नौचक्रिवन्तो, नौशकटव्यवहारिणः ।
भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम् ।
विष्णुधर्मोत्तरेऽपि,
कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः ।
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति ।
करस्याग्रहणे दोषमाह-
मनुः,
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन्नात्मनो मूलमात्मानं तांश्च नाशयेत् ॥ इति ।
करशुल्कादेरग्रहणमात्ममूलोच्छेदः । यथोचितादधिकग्र-
हणं परमूलोच्छेदः ।
तथा,
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
अनादेयस्य चादानादादेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥
स्वादानाद्वर्णसंसर्गाद्दुर्बलानां च रक्षणात् ।
बलं सञ्जायते राज्ञः स प्रेत्येह विवर्द्धते ॥ इति ।
स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात् । वर्णसं-
सर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संस-
र्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह-
याज्ञवल्क्यः,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति ।
कात्यायनोऽपि,
अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति ।
धर्म्यकरग्रहणे फलमुक्तम्—
महाभारते,
धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः ।
सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति ।
कात्यायनोऽप्याह,
एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति ।
इति कोशः ।
अथ दण्डः ।
दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव-
चनः । तत्र-
महाभारते,
प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥
रथा नागा हयाश्चैव पादाताश्चैव भारत ।
विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥
अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
सप्ताङ्गेषु दण्डमित्रे । २७७
स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति ।
विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः
पुरुषाः ।
इति दण्डः ।
अथ मित्रम् ।
याज्ञवल्क्यः,
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति ।
मनुः,
हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति ।
अस्य त्रैविध्यमुक्तम्-
मत्स्यपुराणे,
पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः ।
कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥
तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः ।
सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु-
धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ-
त्रिमः । इममेव प्रशंसति-
व्यासः,
न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति ।
महाभारते,
२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।
एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥
यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति ।
स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥
नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् ।
अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।
शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति ।
याज्ञवल्क्यः,
स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति ।
मनुः,
स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा ।
सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥
व्यसनं, व्यसनकारणम् । दोषवदिति शेषः ।
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ।
तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥
येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति ।
इति मित्रम् ।
अथोपायाः ।
तत्र याज्ञवल्क्यः,
उपायाः साम दानं च भेदो दण्डस्तथैव च ।
उपायेषु साम । २७९
सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ इति ।
तत्र द्वयोर्मुख्यत्वमाह-
मनुः,
सामादीनामुपायानां चतुर्णामपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥ इति ।
तत्र साम ।
तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारा-
दिस्मरणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वा-
पराधक्षमापणम् । तदुक्तम्-
मत्स्यपुराणे,
मनुरुवाच ।
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ।
लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥
मत्स्य उवाच ।
साम भेदस्तथा दानं दण्डश्च मनुजेश्वर ।
उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ।
द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
तत्र साधुः प्रयत्नेन सामसाध्यो मरोत्तम ॥
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥
तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम् ।
तथा तदुपकाराणां कृतानां चैव वर्णनम् ॥
अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
२८० वीरमित्रोदयस्य राजनीतिप्रकाशे
एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः ॥
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥
गृह्णन्ति, वशीकुर्वन्ति ।
अतिशङ्कमित्येवं पुरुषं सामवादिनम् ।
असाधवोऽवजानन्ति तस्मान्नत्तेषु वर्जयेत् ॥
अतिशङ्कम्, अतिशयिता शङ्का यस्मिन् तादृशम् । सा-
मवादिनं, सामप्रयोक्तारम् ।
ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः।
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन् ॥इति।
अग्निपुराणे,
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम् ।
मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम् ॥
आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम् । इति ।
इति साम ।
अथ भेदः ।
स च शत्रुवर्गे परस्परं वैमत्योत्पादनम् । तदुक्तम्—
मत्स्यपुराणे,
मत्स्य उवाच ।
परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः ।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥
ये तु येनैव दोषेण परस्मात्नाम बिभ्यति ।
ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥
आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् ।
१ आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।
उपायेषु भेदः । २८१
एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ॥
संहता हि विना भेदं शक्रेणापि सुदुःसहाः ।
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥
स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च ।
परीक्ष्य साधुं मन्येत भेदं परमुखाच्छ्रुतम् ॥
सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ।
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥
अन्तःकोपोबहिःकोपौ यत्र स्यातां महीक्षिताम् ।
अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः ।
महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ॥
अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च ।
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥
बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ।
शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत् ॥
शुद्धान्तः, अन्तःप्रकोपरहितः ।
अपि शक्रसमो राजा अन्तःकोपेन नश्यति ।
सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता ॥
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ।
ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः ।
ज्ञातयः परितप्यन्ते सततं परितापिताः ॥
तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा ।
ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥
न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च ।
३६
२८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ।
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ।
सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति।
स्वपक्षभेदनिषेधस्तूक्तो—
ब्रह्मपुराणे,
स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन ।
दुर्गं कोशश्च दण्डश्च परराष्ट्रभयं विना ॥
स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः ।
स्वभेदेन, स्वपक्षभेदेन, परराष्ट्रभयं विनापि दुर्गादिकं
नश्यतीत्यर्थः ।
इति भेदः ।
अथ दानम् ।
तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापा-
रः। तस्य दानस्य पञ्चविधत्वमुक्तम्— .
अग्निपुराणे,
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥
द्रव्यदानमपूर्वं च तथैवेष्टप्रवर्तनम् ।
देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ इति ।
तस्य प्रशंसा चोक्ता—
मत्स्यपुराणे,
मत्स्य उवाच ।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ।
सुदृत्तेनेह भवति दानेनोभयलोकजित् ॥
न सोऽस्ति राजन् दानेन वशगो यो न जायते ।
उपायेषु दानम् । .. २८३
दानेन वशगा देवां भवन्तीह सदा, नृणाम् ॥
दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम ।
प्रियो हि दानवांल्लोके सर्वस्यैवोपजायते ॥
दानवानचिरेणैव तथा राजा परान् जयेत् ।
दानवानेव शक्नोति संहतान् भेदितुं परान् ॥
यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः ।
न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः ॥
अन्यत्रापि कृतं दानं करोत्यन्यान् यथा वशे ।
उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥
दानं श्रेयस्करं पुंसां दानं श्रेष्ठतमं परम् ।
दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः ।
जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयो यो विबुधाधिवासः ॥ इति ।
तैत्तिरीयश्रुतिरपि,
दानं यज्ञानां वरूथं दक्षिणा, लोके दातारं सर्वभूतान्यु-
पजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्तो मित्रा भव-
न्ति, दाने सर्वं प्रतिष्ठितं, तस्माद्दानं परमं वदन्तीति ।
इति दानम् ।
अथ दण्डः ।
स च वित्तस्य शरीरस्य वा पीडनम् । दमयतीति दण्ड
इति व्युत्पत्तेः । तत्र—
मनुः,
तदर्थं सर्वभूतां गोप्तारं धर्ममात्मजम् ।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
२८४ वीरमित्रोदयस्य राजनीतिप्रकाशे
तदर्थं, राज्ञः प्रयोजनसिद्धये । प्रजानां रक्षणं राजधर्मः
स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते ।
तस्य स्तुतिर्धर्ममिति ।
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥
तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भय-
हेतुः” इति पञ्चमी युक्ता? उच्यते । सम्बन्धमात्रविवक्षाया भय-
हेतुत्वं नास्तीति षष्ठी । तस्य चरमोपायत्वमुक्तम्—
मत्स्यपुराणे,
मत्स्य उवाच ।
न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु ।
दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम् ॥
सम्यक्प्रणयनं तस्य तथा कार्यं महीक्षिता ।
धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥
तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत् । इति ।
तत्र विशेषमाह
मनुः,
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥
शक्तिं, सहनशक्तिम् ।
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति ।
यथा शूले मत्स्यान् पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-
उपायेषु दण्डः । २८५
बलान् हिंसित्वा तद्धनादिकं भक्षयेयुरित्यर्थः ।
मात्स्येऽपि,
वानप्रस्थांश्च धर्मज्ञान्निर्ममान्निष्परिग्रहान् ॥
स्वदेशे परदेशे वा धर्मशास्त्रविशारदान् ।
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥
आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान् ।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चाप्यदण्डयन् ।
इह राज्यात्परिभ्रष्टो नरकं च प्रपद्यते ॥
तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः ।
दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥
बालवृद्धातुरयतिद्विजस्त्रीविधवाबलाः ।
अबलाः, बलरहिताः ।
मात्स्यन्यायेन भक्षयेरन् यदि दण्डं न पातयेत् ॥
देवदैत्योरगनराः सर्वे भूतपतत्रिणः ॥
उत्क्रामेयुश्च मर्यादां यदि दण्डो न पालयेत् ।
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥
सर्वविक्रमकोषेषु व्यवसाये च तिष्ठति ।
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥
न ब्राह्मणं विधातारं न पूषार्यमणावपि ।
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा ।
विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥ इति ।
२८६ वीरमित्रोदयस्य राजनीतिप्रकाशे
मनुरपि,
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥
स्वभावाच्छुचिर्नरो दुर्लभः, किन्तु दण्डेनैव जितः पथि स्थाप्यते।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥
भोगाय कल्पन्ते, स्वपथप्रवृत्ता भवन्ति । तथा च-
श्रुतिः,
भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः ।
भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ इति ।
मनुः,
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति ।
दुष्येयुरिति । नीचवर्णा उत्तमवर्णस्त्रीगमनेन सङ्करं प्रा-
प्नुयुरित्यर्थः । अत एव शास्त्रोक्तमर्यादा भिद्येरन् ।
मत्स्यपुराणे,
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
राजदण्डभयादेव पापाः पापं न कुर्वते ॥
यमदण्डभयादेके परस्परभयादपि ।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ।
यस्माद्दण्डो दमयति अदण्ड्यान् दण्डयत्यपि ॥
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ।
दण्डस्य भीतैस्त्रिदशैस्समेतै —
उपायेषु दण्डः । २८७
भागो धृतः शूलधरस्य यज्ञे ।
चक्रुः कुमारं ध्वजिनीपतिं च
वरं शिशूनां च भयाद्वलस्थम् ॥ इति ।
शिशूनां वरं,श्रेष्ठम्,अतिशिशुमित्यर्थः। तं कुमारं कार्त्तिकेयं
बलस्थं सैन्यमध्यस्थं सन्तं ध्वजिनीपतिं सेनापतिं चक्रुरित्यर्थः ।
महाभारते अर्जुनवाक्यम्-
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप ।
कामं च रक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥
दण्डेन रक्ष्यते धान्यं धनं दण्डोऽभिरक्षति ।
तथा,
वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।
दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥
असम्मोहाय मर्त्यानामर्थसंरक्षणाय च ।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः ।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥
नाभीतो यजते राजन् नाभीतो दातुमिच्छति ।
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ॥
नाहत्वा मत्स्यघाती च प्राप्नोति महतीं श्रियम् ।
नाघ्नतः कीर्त्तिरस्तीह न वित्तं न पुनः प्रजाः ॥
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ॥
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्व्वरुणो यमः ।
२८८ वीरमित्रोदयस्य राजनीतिप्रकाशे
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ॥
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ।
एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः ॥
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ।
मध्यस्थान् सर्वभूतेषु दान्तान् श्रमपरायणान् ॥
यजन्ते मानवाः केचित्प्रशस्ताः सर्वकर्मसु ।
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया ॥
सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ।
नकुलो मूषकानत्ति बिडालो नकुलं तथा ॥
बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा ।
व्यालमृगो, व्याघ्रः ।
तानत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः ॥
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ।
विधानं वेदविहितं तत्र विद्वान्न मुह्यति ॥
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ।
नावधेन हि कुर्वन्ति तापसाः प्राणयापनम् ॥
उदके बहवः प्राणाः पृथिव्यां पर्वतेषु च ।
न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात् ॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित् ।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥
ग्रामान्निष्क्रम्य मुनयो विनीतक्रोधमत्सराः ।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून् ।
मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥
१ देहविपर्ययः ।
उपायेषु दण्डः । २८९
दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः ।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥
दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान् बलवत्तराः ॥
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः ।
पश्याग्नयश्च प्रतिशाम्यभीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति॥
अन्धन्तम इवेदं स्यान्न प्रज्ञायेत किञ्चन ।
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥
येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ।
दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते ॥
चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च ।
दण्डो विधात्रा विहितो धर्मार्थौ चानुरक्षितुम् ॥
यदि दण्डान्न लभ्येयुर्वयांसि श्वापदानि च ।
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥
अद्युः, भक्षयेयुः ।
न ब्रह्मचर्य्यधीयीत कल्याणीं१ न दुहेत२ गाम् ।
न कन्योद्वहनं गच्छेदयदि दण्डो न पालयेत् ॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥
विष्वग्लोपः प्रवर्त्तेत भिद्येरन्सर्वसेतवः ।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥
१ अपत्यवतीम् । २ लोक इति शेषः ।
३७
२९० वीरमित्रोदयस्य राजनीतिप्रकाशे
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥
न प्रेष्या वचनं कुर्युर्न बाला जातु कस्य चित् ।
न तिष्ठेद्युवती धर्मे यदि दण्डो न पालयेत् ॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः ।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥
न तत्र कूटं पापं वा वञ्चना वापि दृश्यते ।
यत्र दण्डः सुविहितश्चरते रिपुबाधनः ॥
हविः श्वापि लिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् ।
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।
स च दण्डसमायत्तः पश्य दण्डस्य गौरवम् ॥ इति ।
स च दुर्वृत्तेषु निपात्य इत्याह—
याज्ञवल्क्यः,
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसन्धेन कृतिना सुसहायेन धीमता ॥
नेतुं, प्रणेतुम् । न्यायतः, यथाशास्त्रम् । सत्यसन्धेन, सत्य-
प्रतिज्ञेन ।
यथाशास्त्रं प्रयुक्तः सन्न्सदेवासुरमानुषम् ।
जगदानन्दयेत्सर्वमन्यथा तु प्रकोपयेत् ॥
अधर्मदण्डनं स्वर्गकीर्त्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्त्तिजयावहम् ॥
अपि भ्राता सुतोऽर्च्यो वा श्वशुरो मातुलॊऽपि वा ।
उपायेषु दण्डः । २९१
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥
अर्घ्यः, पूज्यः ।
यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्याच्छुतिभिस्तेन समाप्तवरदक्षिणैः ॥
इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥
कुलानि जातीः श्रेणीश्च गणान् जनपदानपि ।
स्वधर्माच्चलितात्राजा विनीय स्थापयेत्पथि ॥ इति ।
कुलानि, कुटुम्बादीनि । जातीः, ब्राह्मणादीन् । श्रेणीः,
सुवर्णकारादेः। गणान्,मठब्राह्मणादीन् । जनपदान्, राष्ट्राणि ।
दण्ड्यश्च द्विविधः-विहिताननुष्ठाता निषिद्धानुष्ठाता च । तदाह-
नारदः,
यो यो वर्णोऽपहीयेत यथोद्रेकमनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ॥
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् ॥ इति ।
अपहीयेत,स्वधर्माच्च्युतो भवेदित्यर्थः। उद्रेको,निषिद्धं कर्म।
मनुरपि,
पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ इति ।
एतच्च मातापित्रादिव्यतिरेकेण । “अदण्ड्यौ मातापितरौ
स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते-
हि धर्माधिकारिण” इति विज्ञानेश्वरलिखितस्मृतेः । मातापितृत्व-
द्वहुश्रुतोऽपि न दण्ड्यः । “स एष बहुश्रुतो भवति” इत्युपक्रम्य-
“षड्भिः परिहार्यो राज्ञा अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहि-
२९२ वीरमित्रोदयस्य राजनीतिप्रकाशे
ष्कार्यश्चापरिवाद्यश्चापरिहार्य्यश्च" इतिगौतमोक्तेः। अन्यः पुनर्ब्रा-
ह्मणो दण्ड्य एव ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्-
इति याज्ञवल्क्योक्तेः ।
मनुः,
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति च ॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्बुधाः ॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान् बलवत्तराः ॥
अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा ।
स्वाम्यं च न स्यात्कस्मिश्चित्प्रवर्त्तेताधरोत्तरम् ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥
उपायेषु दण्डः । २९३
दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति ।
स च दण्डो द्विविधः । तदाह—
नारदः,
शारीरश्चार्थदण्डश्च दण्डश्च द्विविधः स्मृतः ।
शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्त्तितः ।
काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥ इति ।
यत्तु मनुना—
धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥
इति चतुर्विधत्वमुक्तम् । तत्राद्यं द्वयमल्पापराधविषयम् ।
वधदण्डः, शारीरो दण्डः । स च ब्राह्मणव्यतिरिक्तस्य कर्त्तव्य
इति तत्स्थानानि वदतोक्तं मनुना ।
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति ।
एतेषां यन्निमित्तोऽपराधस्तत्रैवोपस्थादौ निग्रहः कार्यः ।
धनदानाशक्तस्य दण्डद्वयमाह—
कात्यायनः,
धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ इति ।
यत्त्वापस्तम्बः, चक्षुर्निरोधो ब्राह्मणस्येति ।
तत् पुरान्निर्वासनकाले वस्त्रादिना चक्षुर्निरोधः कार्य इति
व्याख्येयम् । निरोधपदस्वारस्यात्पूर्वोदाहृतवचनाविरोधाच्च ।