सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

सप्ताङ्गेषु राष्ट्रम् । २५१
यानि राज्ञे प्रदेयानि अन्नादीनि तानि वृत्त्यर्थं ग्रामाधिप-
तिर्गृह्णीयात्, न त्वाब्दिकं करम् । आब्दिकं तु करमाप्तद्वारा
राजैव गृह्णीयात् । तदुक्तम्—
विष्णुधर्मोत्तरे,
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । इति ।
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥
कुलं, ग्रामैकदेशः, पादुकाख्य इति कल्पतरुः। अन्ये तु कुलं
हलद्वयकृष्टा भूः “कुलं तु द्विगुणं हलम्” इति स्मरणात् । हलो-
ऽपि षड्गव एव ।
अष्टागवं धर्म्यहलं षड्गवं जीवितार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥
इति हारीतस्मरणात् । तद्दशग्रामाधिपतिर्जीवितार्थे षड्-
वहलद्वयकृष्टां भुवं भुञ्जीत । विंशी, विंशतिग्रामाधिपतिः पञ्च-
कुलानि भुञ्जीत । विशेषान्तरमाह—
विष्णुः, ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात्, अ-
थाशक्तो दशग्रामाध्यक्षाय निवेदयेत्, सोऽप्यशक्तः शताध्यक्षाय,
सोऽप्यशक्तो देशाध्यक्षाय, देशाध्यक्षोऽपि सर्वात्मना दोषमु-
च्छिन्द्यात् । इति ।
सर्वात्मनेति । स्वशक्त्यतिक्रमेणाप्येतदर्थं, न तु स्वयमेव
दोषमुच्छिन्द्यान्न वा राज्ञे निवेदयेदित्येवमर्थम् ।
शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत्—
इति विष्णुधर्मोत्तरोक्तवचनविरोधात् ।
मनुः,
राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।

२५२ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः ॥
पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाऽऽच्छादो धान्यद्रोणस्तु मासिकः । इति ।
अवकृष्टस्य, गृहकर्मकरस्य । वेतनं, भक्तकम् । आच्छादः,
आच्छादनवस्त्रद्वयम् । द्रोण, आढकचतुष्टयम् । तदुक्तम्—
अष्टमुष्टि भवेत्किञ्चित्१किञ्चित्चत्वारि पुष्कलम् ।
पुष्कलानि च चत्वारि आढकः परिकीर्तितः ॥
चतुराढको भवेद्द्रोण इति ।
शङ्खलिखितौ,
वाहनयोधानां सततमन्वीक्षणं, प्रतिमासं द्विसौवर्णिकी
वृत्तिः, षाण्मास्यं स्मरणं, चातुर्मास्यं वा, स्वर्ग्यातेषु दानमनु-
क्रोशो, विदितेष्वनुप्रदानं, कुलचारित्रशीलविद्यालक्षणगुणा-
धिकेषु सम्मानं प्रयुञ्जीत । इति ।
षाण्मास्यं स्मरणं, षड्भिर्मासैश्चतुर्भिर्वा मासैरतिक्रान्तैः स-
द्भिः स्मृत्वा वेतनं देयमित्यर्थः । स्वर्ग्यातेषु, मृतेषु । मृतेषु योधे-
षु दानदययोरसम्भवात्तत्पुत्रादिषु दानदये विधेये । विदितेषु,
युद्धादौ कृतकार्यतया प्रसिद्धेषु । अनुप्रदानं, वेतनादधिकं व-
स्त्रादि देयमित्यर्थः । निर्दोषस्य वृत्तिं न परिहरेदित्याह—
बृहस्पतिः,
गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि ।
कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥
तस्मात्प्रभृत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।
अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ॥ इति ।
उपग्रहः, परिग्रहः । दुर्गादिनिवेशानन्तरं कर्त्तव्यानन्तरमाह—
१ किञ्चिदष्टौ च पुष्कलमिति क्वचित्पाठः ।

सप्ताङ्गेषु राष्ट्रम् । २७३
स एव,
सम्यङ्गनिविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः ।
कण्टकोद्धरणे नित्यमातिष्ठेद्बलमुत्तमम् ॥ इति ।
कण्टकाः, दुष्टसामन्तादयः ।
मनुरपि,
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥
निर्दाता, प्ररूढक्षेत्रमध्यस्थिततृणादिलविता । कक्षं, तृणम् ।
राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ इति ।
याज्ञवल्क्योऽपि,
चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥
अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः ।
तस्माच्च नृपतेरर्द्धं यस्माद्गृह्णात्यसौ करान् ॥ इति ।
मत्स्यपुराणेऽपि,
यथा न स्यात्कृशीभावः प्रजानामनवेक्षया ।
तथा राज्ञा विधातव्यं स्वराज्यं परिरक्षता ॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥
यो राष्ट्रमनुगृह्णाति राष्ट्रं स्वं परिरक्षति ।
सञ्जातमुपजीवेत्तु विन्दते स महत्फलम् ॥
१ राज्ञो हि इति मुद्रितमनुपुस्तके पाठः ।

२५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
दुह्याद्धिरण्यं धान्यं च महीं राजा सुरक्षिता । इति ।
मनुरपि,
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते स्वाम्याज्जीविताच्च सबान्धवः ॥
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ इति ।
याज्ञवल्क्योऽपि,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिरक्षति ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञां श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति ।
कात्यायनोऽपि,
यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः ।
तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥ इति ।
मनुः,
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥
यदधीते यद्यजते यज्जुहोति यदर्च्चति ।
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ इति ।
कात्यायनः,
प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् ।
द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ॥ इति ।
वृहस्पतिः,
तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।
परचक्राच्चौरभयाद्बलिनोऽन्यायवर्त्तिनः ॥

सप्ताङ्गेषु राष्ट्रम् । २५६
परानीकस्तेनभयमुपायैः शमयेन्नृप ।
बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥ इति ।
मनुः,
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥
योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः ।
प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ॥
अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥
अनवेक्षितमर्यादं नास्तिकं विप्रलोपकम् ।
अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥
यो¹ हत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाद्राजा भवति तस्करः ॥
विप्रलोपकं, विप्रवृत्त्युच्छेदकर्तारम् । अत्तारं, भोक्तारम् ।
शङ्खः,
न व्रतैर्नोपवासेन न च यज्ञैः पृथग्विधैः ।
राजा स्वर्गमवाप्नोति प्राप्नोति परिपालनात् ॥ इति ।
यमः,
वानप्रस्थाः परिव्राजः श्रोत्रियाश्चाहिताग्नयः ।
षड्भागस्य प्रदातारो नैते राज्ञो हिरण्यदाः ॥ इति ।
षड्भागस्य, स्वकृतस्य श्रेयस इतिशेषः ।
विष्णुधर्मोत्तरे,
प्रजासुखं तु कर्त्तव्यं सुखमुद्दिश्य चात्मनः ।
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिता ॥
१ अयं श्लोको मुद्रितमनौ नोपलभ्यते ।

२५६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सुरक्षिता प्रजा यस्य स्वर्गस्तस्य गृहोपमः ।
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥
राम षड्भागमादत्ते सुकृताद्दुष्कृतादपि ।
धर्मभागं महाभाग सम्यग्रक्षणतत्परः ॥
अरक्षिता तथा सर्वं पापमाप्नोति भार्गव ।
न वै किञ्चिदवाप्नोति पुण्यभाक् पृथिवीपतिः ॥
आपन्नमपि धर्मिष्ठं प्रजा रक्षन्त्यथाऽऽपदि ।
तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीभृता ॥
सुभगाचाटदुर्वृत्तराजवल्लभतस्करैः ।
भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश्च विशेषतः ॥
सुभगा, अतिप्रिया स्त्री, वेश्या वा । चाटाः, बहुभाषिणः
रक्षिता तद्भयेभ्यस्तु राज्ञा भवति सा प्रजा ।
अरक्षिता सा भवति तेषामेव हि भाजनम् ॥
साधुसंरक्षणार्थाय राजा दुष्टनिबर्हणम् ॥
तृणानामपि निर्माता सदा कुर्याज्जितेन्द्रियः ।
शास्त्रोक्तं बलिमादद्याद्धर्म्यं तत्तस्य जीवितम् ॥ इति ।
विष्णुः,
प्रजासुखैः सुखी राजा तद्दुःखैश्च दुःखितः ।
स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥ इति
स्वराष्ट्रसंरक्षणवत्परराष्ट्रग्रहणे फलमाह—
याज्ञवल्क्यः,
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति ।
वशीकृतपरराष्ट्रविषये—
स एव विशेषमाह,

सप्ताङ्गेषु कोशः । २५७
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति ।
इति राष्ट्रम् ।
अथ कोशः ।
तत्र विष्णुधर्मोत्तरे,
रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः ।
परचक्रमर्देषु वित्तवान्नैव मुह्यति ॥
वित्तवानेव सहते सुदीर्घमपि विग्रहम् ।
बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिकः ॥
बहुदण्डान्, बहु दण्डयन्ति ते तथाविधास्तान्, दण्डार्जितब-
हुतरकोशान् । अत्र दण्डस्य बहुत्वं स्मृत्युक्तदण्डापेक्षया आ-
धिक्यं, तेनान्यायार्जितधनान् जयतीतिव्याख्येयम् । तेन धना-
धिको बहुतरधनवान् न्यूनधनान् जयतीत्येतदर्थकं वचनमनर्थ-
कं न भवति । वस्तुतस्तु दण्डो बलमिति यथाश्रुतमेव सम्यक् ।
अन्नप्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् ।
धनवान् धर्ममाप्नोति धनवान् काममश्नुते ॥
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।
यस्यार्थः स पुमांल्लोके यस्यार्थः स च पण्डितः ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥
विशेषो नास्ति लोकेषु पतितस्याधनस्य च ।
पतिता न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥
इत्यतो नानुगृह्णन्ति दरिद्रं पतितं जनाः ।
धनहीनस्य भार्यापि नैव स्याद्वशवर्त्तिनी ॥
३३

२५८ वीरमित्रोदयस्य राजनीतिप्रकाशे
गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत् ।
बान्धवा विनिवर्त्तन्ते धनहीनात्तथा नरात् ॥
यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ॥
द्विजेति रामसम्बोधनम् ।
दारिद्र्यमरणे चोभे केषां चित्सदृशे मते ।
सत्यं हासाददरिद्रश्च मृतः श्रेयान्मतो मम ॥
कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने ।
धर्मेणैव ततः कुर्यान्नाधर्मेण कथञ्चन ॥
धनैरधर्मसम्प्राप्तैर्यद्राष्ट्रमपिधीयते ।
तदेव याति विस्तारं विनाशाय दुरात्मनाम् ॥
सुकृतस्य पुराणस्य बलेन बलिनां वर ।
यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः ॥
पुराणस्य, जन्मान्तरकृतस्य ।
तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा ।
विनश्यन्ति सभूतास्ते सपुत्रपशुबान्धवाः ॥
नरकेषु तथा तेषां यातना विविधाः स्मृताः ।
बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ॥
नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा ।
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् ॥
गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा ।
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ॥
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः ।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥
“प्रजा स्यात्सन्ततौ जने” इत्युभयत्र कोषः ।
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥

ससाङ्गेषु कोशः । २५९

इत्यादिना प्रबन्धेन धनहीनस्य निन्दां विधाय धनार्जन-
स्यावश्यकतां ब्रुवता तद्धनार्जनं धर्मेणैव विधेयमित्यादि प्र-
पादितम् ।
महाभारतेऽपि,
अधनं दुर्बलं प्राहुर्धनेन बलवान् भवेत् ।
सर्वं बलवतः पथ्यं सर्वं तरति कोशवान् ॥
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
प्राणयात्रा च लोकस्य विनार्थेन न सिद्ध्यति ॥
नाधनो धर्मकार्याणि यथावदनुतिष्ठति ।
धनाद्धि धर्मः स्रवति शैलादिव महाभरः ॥
अधनेनार्थकामेन चेतुं धर्मो न शक्यते ।
अर्थैरर्थानि बध्यन्ते गजैरेव महागजाः ॥
चेतुं सञ्चेतुम् ।
अर्थेभ्यो हि प्रवृद्धेभ्यः सम्भृतेभ्य इतस्ततः ।
क्रियाः सर्वाः प्रवर्त्तन्ते पर्वतेभ्य इवापगाः ॥
कोशाक्षपटलं यस्य कोशवृद्धिकरैर्नरैः ।
पात्रभूतैश्च सततं धार्यते स नृपोत्तमः ॥
यो राजकोशं नश्यन्तमाचक्षीत नराधिपे ।
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् ॥ इति ।
एवं धनार्जनस्यावश्यकत्वे तद्धनार्जनं राज्ञा केन प्रकारेण
कर्त्तव्यमित्यपेक्षिते—
मनुः,
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत्करान् ॥
कियता मूल्येन क्रीतमिदं पण्यवस्त्रलवणादिद्रव्यं, विक्री-

२६० वीरमित्रोदयस्य राजनीतिप्रकाशे
यमाणे वात्र कियलभ्यते, कियद्दूरादानीतं, किमस्य चानयतो
भक्तव्ययेन शाकसूपादिना च व्ययेन लग्नं, किमस्यार-
ण्यादौ चौरादिभ्यो रक्षारूपेण क्षेमप्रतिविधानेन गतं, कोऽस्ये-
दानीं लाभो योगक्षेमं वैतदवेक्ष्य वणिजः करान् दापयेत् ।
वणिग्भिरिति वा पाठः ।
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ।
तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥
यथा राजा कर्मणां रक्षणादिरूपाणां फलेन, कर्त्ता, कर्षणो
वणिगादिश्च, कर्मणां कृषिवाणिज्यादीनां, फलेन युज्येत सम्ब-
ध्येत, तथा निरूप्य करान् गृह्णीयात् । अत्र दृष्टान्तमाह—
यथल्पल्पमदन्त्याद्यं वार्यौकोवत्सषट्पदाः ।
तथाल्पल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाऽऽब्दिकः करः ॥
अदन्ति, भक्षयन्ति। आद्यम्, अदनाय भक्षणार्हं रक्तक्षी-
रमध्वादि । वार्यौकोवत्सषट्पदाः, जलौकोवत्सभ्रमराः । तथा
राज्ञा मूलधनमनुच्छिन्दता अल्पल्पो राष्ट्रादाब्दिकः करो
ग्राह्यः । वस्तुविशेषविषये वाचनिकान् करान्—
स एवाह,
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
ये पशुभिर्जीवन्ति, ये च हिरण्यस्य प्रयोगेण वार्धुषिकाः
तेभ्यः पञ्चाशद्भागो वृद्धेर्ग्राह्यः ।
गौतमोऽपि, पशुहिरण्योरप्येके पञ्चाशद्भागमिति ।
अयं च पञ्चाशद्भागो वस्त्राणामपि । तथा च—
विष्णुः, द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्चेति ।
द्विकं शतं, शते द्वौ भागावित्यर्थः । अर्थात्पञ्चाशद्भाग
एवं । मांसादावाह—

सप्ताङ्गेषु कोशः । २६१

स एव,
मांसमधुघृतौषधिगन्धपुष्पमूलफलरसशाकपत्राजिनमृद्भा-
ण्डाश्मवैदलेभ्यः षाष्ठभागम् । इति ।
रसदारुपत्रेति क्वचित्पाठः । वैदलानि, विदलीकृतवंशानि-
र्मितानि शूर्पादीनि । दारूणि, काष्ठानि । षष्ठ एव षाष्ठस्तम् ।
अयं च भागः संवत्सरे संवत्सरे ग्राह्यः । तथा च-
विष्णुधर्मोत्तरे,
गन्धौषधिरसानां च पुष्पमूलफलस्य च ।
पत्रशाकतृणानां च वत्सरेण च चर्मणाम् ॥
बैणवानां च भाण्डानां सर्वस्याश्ममयस्य च ॥
षड्भागमेव चादद्यादिति ।
अयं तु विना द्रव्यव्ययेन कायक्लेशादिना निष्पादितानां
मांसादीनामेकप्रकरणपठितानां, कर्षकैस्तुल्यन्यायत्वात् । द्रव्य-
व्ययेन क्रीतानां तु षष्टितमो भागो ग्राह्यः । तथा च-
गौतमः, पण्य इत्यनुवर्त्तमाने । मूलफलपुष्पौषधमधु-
मांसतृणेन्धनादीनां षाष्ठमिति ।
अत्र हरदत्तः । षाष्ठः, षष्टितमो भागो विक्रेत्रा राज्ञे देय
इति । यदि पण्यशब्दो द्रव्यव्ययेनार्जितेऽन्यथा वार्जिते रूढ
इत्याग्रहस्तथापि विरोधादित्थमेव व्यवस्था युक्ता । यत्तु मनु-
नोक्तम्-
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥
पत्रशाकतृणानां च चर्मणां वैणवस्य च ।
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ इति ।
द्रुः, वृक्षः । मांसं, छागादेः । मधु, क्षौद्रम्। सर्पिः, घृतम्। गन्धा-

श्चन्दनादयः । ओषध्यो, गुडूच्यादयः । रसा, लवणादयः । पु-
ष्पाणि, चम्पकादीनि । मूलानि, हरिद्रादीनि । पत्राणि, ताडीप-
त्रादीनि । तत्तु पूर्वोक्तोदाहृतविष्णुधर्मोत्तरोक्तसमानार्थम्। क्वचित्तु
गौतमवाक्ये षाष्ठमितिपदं षष्ट एव षाष्ठ इति व्याख्याय मनुवा-
क्यविरोधेन हरदत्तव्याख्यां दूषयन्ति । तत्तु पूर्वोक्तव्यवस्था-
सम्भवेनाभियुक्तव्याख्यादूषणस्य कर्तुमशक्यत्वादयुक्तम् । धा-
न्यविषये-
मनुराह,
धान्यानामष्टमो भागः षष्ठो द्वादश एव च ।
अष्टमः षष्ठो द्वादश इति विकल्पो भूम्युत्कर्षापकर्षक्लेशला-
घवगौरवापेक्षया द्रष्टव्यः । धान्यानां, व्रीहियवादीनाम् । अयं
च भागः कर्षकेभ्य एव ग्राह्यः । तथा च-
गौतमः, राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । इति ।
विष्णुस्तु षष्ठांशमेवाह-
प्रजाभ्योबल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यादिति ।
इदं तूत्कृष्टभूमिविषयम् । अत्र धान्यपदं व्रीहिपरम् । सर्वसस्ये-
भ्यश्चेति पृथगन्यसस्यग्रहणात् । सस्यं व्रीह्यतिरिक्तमन्नजातम् ।
इयं भूम्युत्कर्षादिना व्यवस्था जीर्णानाम् । वस्तुतस्तु धान्यवि-
शेषेणेयं व्यवस्था । तथा च-
विष्णुधर्मोत्तरे,
शूकधान्येषु षड्भागं शिम्बीधान्येष्वथाष्टमम् ।
राजा बल्यर्थमादद्याद्देशकालानुरूपतः ॥ इति ।
शूकशिम्ब्यतिरिक्ते धान्ये मनुगौतमोक्तो द्वादशो दशमो
वा भागः । तथा च-

सप्ताङ्गेषु कोशः । २६३
बृहस्पतिः,
दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् ।
खिलाद्वर्षावसन्ताच कृष्यमाणाद्यथाक्रमम् ॥ इति ।
अस्यार्थः । खिलात्, चिरकालमकर्षणेनानुत्पन्नसस्यात् । वर्षा-
वसन्तात्, वर्षाकाले उत्पन्नात्, वसन्तकाले चोत्पन्नात् । कृष्यमा-
णात्, प्रतिवर्षं कृष्यमाणात् । इदं च वर्षावसन्तादित्यनेनान्वितम् ।
अयमर्थः । खिलाद्यदुत्पन्नं तत्र दशममंशं, वर्षाकालोत्पन्नादष्टमं,
वसन्तकालोत्पन्नात्षष्ठमंशमादद्यादिति । बृहस्पतिविष्णुधर्मो-
त्तरयोरेकवाक्यतया शूकधान्यं यवगोधूमादि वसन्तोत्पन्नं तत्र
षष्ठमंशमादद्यादित्यादि सिद्धम् । अत्र विशेषम्—
स एवाह,
देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् ।
एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥
भूतं, देशमर्यादया व्यवस्थापितम् । कीनाशानां, कर्षका-
णाम् । आपदि एतदतिक्रमेऽपि न दोष इत्युक्तम्—
मनुना,
चतुर्थमाददानो हि क्षत्रियो भागमापदि ।
प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते ॥ इति ।
विशेषान्तरमप्याह—
स एव,
स्वधर्मो विजये तस्य नाहवे स्यात्पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद्बलिम् ॥
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
धर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥

२६४ वीरमित्रोदयस्य राजनीतिप्रकाशे
दद्युरितिशेषः ।
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ।
तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥
इति पूर्वोदाहृतमनुवाक्ये करान् कल्पयेत्, लाभक्षती दृष्ट्वा
न्यूनाधिकभावमपि कुर्यादित्युकम् । तत्र कचित्कचिद्गौतमेन
वचनेनैव सा प्रतिपादितास्ति ।
सा यथा, विंशतिभागः शुल्कः पण्ये । इति ।
अस्यार्थः । वणिग्भिर्यच्चन्दनादि विक्रीयते तत्पण्यं, तस्य
मूलाधिक्याया वृद्धेर्विंशतितमो भागो राज्ञे देयः । तस्य दीयमा-
नस्य शुल्कसंज्ञा । अयं च विंशतितमो भागः परदेशपण्ये, स्व-
देशण्ये तु दशमोंऽशः । तथा च-
विष्णुः, स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् । इति ।
यत्स्वदेशे क्रीत्वा स्वदेश एव विक्रीयते, तस्मात् लाभ-
द्रव्यदशांशम्, परदेशपण्याच्च विंशतितमम् । यत्पण्यं देशा-
न्तरे क्रीत्वा देशान्तरे विक्रीयते तस्माद्विंशतितमम् । अत्रापि
लाभस्यैव । यत्तु,
मनौ-
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥
इति मूलसहितस्य विंशांशः प्रतीयते । तथाप्यर्थे कृते
मूलाधिकस्यैव विंशांशो ग्राह्यः । मूलद्रव्यांशग्रहणे तु वाणिजां
लाभो न स्यात्, तदभावे च वाणिजां व्यवहारोच्छेद एव
स्यात् । विष्णुधर्मोत्तरे तु-
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ।
इति स्वदेशपण्येऽपि विंशतितमो भाग उक्तः, स तु क्लेश-

३. तृतीय प्रकाश: दूत-कर्म, गुप्तचर, सन्धिविग्रह, मित्र-अरि मण्डल एवं युद्ध-धर्म

परदेशपण्ये शुल्कं, प्रनष्टाधिगते विशेषश्च । २६५
बाहुल्यविषयः, तेषामापद्विषयो वा । अस्मिन्नेव विषये पर-
देशपण्येऽपि-
तत्रैवोक्तम्,
शुल्कांशं परदेशाच्च निबोध गदतो मम ।
क्षयव्ययप्रवासांश्च यथाऽऽयासं द्विजोत्तम ॥
व्ययशुल्कप्रवासादि लङ्घयित्वा तथा द्विज ।
विंशांशं भागमादद्युर्दण्डनीया अतोऽन्यथा ॥ इति ।
सामुद्रपण्यशुल्के तु विशेष उक्तः-
सामुद्रः शुल्को वरं रूपमुद्धृत्य दशपणं स्मृतमन्येषामपि
सारानुरूपमुद्धृत्य धर्म्यं प्रकल्पयेदिति ।
वरं, बहुमूल्यं मुक्तादिष्वेकमुद्धृत्य धनस्वामिने दत्त्वा-
ऽवशिष्टस्य दशांशं गृह्णीयात् । अन्येषां सांयात्रिकातिरिक्ताना-
मपि सारभूतमेकमुद्धृत्य धर्म्यं यथोचितं शुल्कं प्रकल्पयेत् ।
प्रनष्टाधिगते तु विशेषमाह—
मनुः,
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः ।
दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥ इति ।
प्रनष्टं, स्वामिसकाशात् भ्रष्टं, यत् शौल्किकस्थानपाला-
दिभिरधिगतं राज्ञे समर्पितं, तस्मान्नृपः प्रथमवर्षे स्वामिने सर्वं
दद्यात्, द्वितीयवर्षे च तस्माद्द्वादशं, तृतीयवर्षे दशमं, चतुर्थवर्ष-
प्रभृति षष्ठं भागमादद्यात् । तदुक्तम्—
याज्ञवल्क्येन,
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥ इति ।
अत्र च “अर्वाक्संवत्सरात्स्वामी हरेत” इत्यनेन प्रथमवर्षे
३४

२६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्वामिना सर्वमेव ग्राह्यम्, “हरेत परतो नृप” इत्यनेनाविशेषो-
क्तावपि राजा द्वितीयवर्षादौ संरक्षणनिमित्तं किञ्चिद्गृह्णीयात् ।
तत्र चौचित्येन द्वितीयवर्षे द्वादशं, तृतीये दशमं, चतुर्थप्रभृति
षष्ठं भागं गृह्णीयात् । अत एव-
मनुना,
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥
इति त्र्यब्दपर्यन्तं रक्षणं,स्वामिने दानं चोक्तम् । तदेव याज्ञ-
वल्क्यैकवाक्यतया अर्वाक्संवत्सरात्स्वामिने दानं किमप्यगृ-
हीत्वैव, परतस्तु कश्चिद्भागं गृहीत्वैवेति सिद्धम् । त्र्यब्दप-
र्यन्तावस्थापनं तु यथास्थितद्रव्यस्यैव, परतो हरणं तु व्य-
यीकरणानुमतिपरम् । स्वामिन्यागते तु तत्समसङ्ख्यं स्वांशं
गृहीत्वा दातव्यम् । तत्रापि स्वांशमध्ये चतुर्थोऽशोऽधिगन्त्रे
देयः । तदुक्तम्—
गौतमेन, प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमू-
र्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम् । इति ।
अत्र संवत्सरमित्युपलक्षणम् । “राजा त्र्यब्दं निधापयेत्”
इति मनुस्मरणात् । निधौ तु विशेषमाह-
याज्ञवल्क्यः,
राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्द्धं द्विजः पुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥
इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ इति ।
भूमौ चिरनिखातं द्रव्यं निधिः, तं राजा लब्ध्वा अर्द्धं
ब्राह्मणेभ्यो दद्यात्, अर्द्धं कोशे स्थापयेत् । तथा च-

निधिविषये विष्णुयाज्ञवल्क्योक्तयोर्व्यवस्थापनम् । २६७
विष्णुः, निधिं लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात्,
द्वितीयमर्धं कोशे प्रवेशयेत् । इति ।
तच्छब्दात् यस्य स्वर्णादेरर्द्धीकरणं सम्भवति तस्यैवार्द्धं
दद्यात्, न रत्नादेः, तस्य तु मूल्यकल्पनया दद्यात् इत्येवम-
र्थः । तदुक्तम्—
मनुना,
निधीनां हि पुराणानां धातूनामेव च क्षितौ ।
अर्द्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ इति ।
“द्वितीयमर्द्धं कोशे प्रवेशयेत्” इति पृथक्सूत्रकरणं कोशे
स्थापनविधानार्थं, स्वामिन्यागते तद्दानावश्यम्भावात् । द्विजो,
ब्राह्मणः क्षत्रियो वैश्यश्च श्रुताध्ययनसम्पन्नः सदाचारो निधिं
लब्ध्वा, तं राज्ञे निवेद्य सर्वं गृह्णीयात्। अविदुषामेतेषां विशेष उक्तो-
विष्णुना,
निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात, क्षत्रियश्चतुर्थमंशं रा-
ज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्द्धमादद्यात्, वैश्यस्तु चतुर्थमंशं
राज्ञे दद्याद्ब्राह्मणेभ्योऽर्द्धं चतुर्थमंशमादद्यादिति ।
अत्र ब्राह्मण इति सामान्यवचनाद्योगीश्वरवाक्ये ब्राह्म-
णांशे विद्वत्त्वमविवक्षितम् । इतरेण, शूद्रेण, लब्धे निधौ राजा
तस्मै षष्ठमंशं दद्याच्छेषं गृह्णीयादिति व्याख्येयम् ।
अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठ-
मंशं प्रदद्यात् —
इति वसिष्ठस्मरणात्,
निध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्य, अब्राह्म-
णोऽप्याख्याता षष्ठमंशं लभेतेत्येके—
इति गौतमस्मरणाच्च । तथा च शूद्राय षष्ठं दत्त्वा शेषं

२६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्राह्यमिति सिद्धम् । स्वयंगृहीतादर्द्धं ब्राह्मणेभ्यो दद्यादित्याह-
विष्णुः, शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे द-
द्यात्पञ्चांशान् ब्राह्मणेभ्यो दत्त्वाऽवशिष्टमंशद्वयमादद्यादिति ।
इति विष्णुयाज्ञवल्क्यवाक्ययोर्व्यवस्थां केचिदाहुः । परे तु
द्विजशब्दो ब्राह्मणवचनः, सामान्यशब्दस्य विशेषपरत्वात् । तच्च
शक्त्या लक्षणया वेत्यन्यदेतत् । विष्णुवाक्यानुरोधाच्चात्र वि-
द्वत्त्वमविवक्षितम् । एवमितरपदमपि शूद्रपरमेव । भवतामपि
वासिष्ठवाक्ये यत्पदस्य गौतमवाक्ये चाब्राह्मणपदस्य विशेषपर-
त्वावश्यकत्वात् । इत्थं च क्षत्रियवैश्ययोः साधारण्येन वि-
ष्णूक्ता व्यवस्थेत्याहुः ।
यत्तु विज्ञानेश्वरेण द्विजपदं ब्राह्मणपरम्, इतरपदं चा-
विद्वद्ब्राह्मणक्षत्रियादिपरमित्युक्तम् । तच्च विष्णुस्मृत्यदर्श-
ननिबन्धनम् । विज्ञानेश्वरानुयायिनस्तु विज्ञानेश्वरव्याख्या-
तत्तात्पर्यकयोगीश्वरविष्णुस्मृत्योर्विकल्पमाहुः, ते श्रद्धामन्द-
धिय उपेक्ष्याः । अपरार्कस्तु इतरपदमविद्वद्ब्राह्मणपरमिति प्राह ।
तस्यायमाशयः । अविद्वद्ब्राह्मणपरं गोरक्षकादिब्राह्मणपरम्,
तथा चैते षष्ठांशभागिन इत्यर्थः ।
गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥
इति स्मरणात् । अत्र विप्रपदं नीचकर्मकर्तृक्षत्रियवैश्ययो-
रप्युपलक्षकम् । इत्थं च विद्वत्क्षत्रियवैश्ययोर्विष्णूक्ता व्यवस्थे-
ति । विज्ञानेश्वरोक्तमप्येवमर्थकत्वे साधु सङ्गच्छते इति दिक् ।
अनिवेदित इति कर्त्तरि निष्ठा । तथा चायमर्थः-यो निधिं
लब्ध्वा राज्ञे न निवेदितवान्, राज्ञा च निध्यधिगन्तृत्वेन
विज्ञातः, स तं निधिं दाप्यः शक्त्यपेक्षया दण्डं चेति । तथा च-

स्वामिना स्वत्वे विभाविते निधिः परावर्त्यः । २६९
विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति ।
अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो
मातृसमानधर्मत्वात् । प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्म-
त्वादिति । यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वत्वं
विभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा
गृह्णीयात् । यथाऽऽह—
मनुः,
ममायमिति यो ब्रूयान्निधिं सत्येन मानवः
तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति ।
षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनि-
र्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः । इदं च भागग्रहणं
ब्राह्मणभिन्नादेव । यथाऽऽह—
विष्णुः, स्वनिहितात् ब्राह्मणवर्जं द्वादशमंशं दद्युरिति ।
केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादशं, ब्राह्मणः षष्ठं
दद्यादित्याहुः । तच्चिन्त्यम् । यदा राजा निधिस्वामिन्यागते
निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दत्तं निध्यर्द्धं परावृत्य
गृह्णीयात् । यथाऽऽह—
बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति।
परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनी-
य इत्युक्तम्—
विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति ।
ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः । आकरेषु विशेषमाह—
विष्णुः, आकरेभ्यः सर्वमादद्यात् । इति ।
आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि ।
विष्णुधर्मोत्तरे,

२७० वीरमित्रोदयस्य राजनीतिप्रकाशे
धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः ।
निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥
अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः । इति ।
नदीतीरसमुद्रयोः शुल्कग्रहणमाह —
मनुः,
पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे ।
पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति ।
“भाण्डपूर्णानि”इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लो-
कस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पु-
रुषवाह्यो भारोऽर्द्धपणं दाप्यः । पशोः, गवादेः, योषितश्च
पणचतुर्थांशः । भाररहितो मनुष्यः पणाष्टमभागं दाप्यः ।
तथा,
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किञ्चित्पुमांश्चापरिच्छदाः ॥ इति ।
भाण्डपूर्णानि, पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमू-
ल्योत्कर्षापकर्षेण तार्यं दाप्यानि । रिक्तभाण्डानि, अपरिच्छदा
दरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिद्दाप्याः । एतच्च
पारावारगमने । नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया
कल्पनीयम् । तदुक्तम्—
तेनैव,
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति ।
समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु
तत्र यथाव्यवस्थमेव देयमित्यर्थः । राज्ञा कर्षकवाणिगादिभ्यः
किमिति करो ग्राह्य इत्यपेक्षित आह—