सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

२२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
पूषाथ वितथश्चैव गृहक्षतयमावुभौ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणे संस्थितान् पूजयेद्बुधः ।
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥
मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः ।
सर्वानेकान्तरान् विद्यात्पूर्वाद्यान् नामतः शृणु ॥
अर्यमा सविता चैव विवस्वान् विबुधाधिपः ।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥
अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः ।
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥
पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः ।
तन्मध्ये तु वहिर्वत्स द्विपदास्ते तु सर्वतः ॥
अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥
अंशानिदानीं वक्ष्यामि रज्जूनपि पृथक् पृथक् ।
वायुं यावत्तथा रोगान् पितृभ्यः शिखिनं पुनः ॥
मुख्याद्भृगुं तथा शेषाद्वितथं यावदेव तु ।
सुग्रीवाददितिं यावत् भृङ्गात्पर्जन्यमेव च ॥
एते वंशाः समाख्याताः कचिद्रज्जव एव तु ।
एतेषां यस्तु सम्पातः पदं मध्यं समं तथा ॥
मर्म चैतत्समाख्यातं त्रिशूलं कोणगं च यत् ।

वास्तुकर्मविधिः । २२३
स्तम्भन्यासेषु वर्ज्यानि तुलां देवेषु सर्वदा ॥
कीलकुड्योपघातादि वर्जयेद्यत्नतो नरः ।
सर्वस्तु वास्तुर्निर्दिष्टः पितृवंशान्तरायतः ॥
पितृवंशान्तरायत इति । पितृगणादारभ्य वह्निं यावद्यो
वंशः प्रसारितस्तदान्तराऽऽयतो वास्तुर्वास्तुपुरुषः ।
मूर्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः ।
पृथ्वीधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ ॥
वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः ।
नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितिजयान्तकौ ॥
सर्पेन्द्रावंशसंस्थौ तु पूजनीयौ प्रयत्नतः ।
सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्ते समाश्रितौ ।
सावित्रः सविता तद्वद्धस्तं दक्षिणमास्थितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।
पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ।
तथैवासुरशोषौ तु वामपार्श्वं समाश्रितौ ॥
पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ।
ऊर्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकौ ॥
यमाम्बुपौ यमवरुणौ । पुष्पकः पुष्पदन्तः ।
जङ्घयोर्भृगुसुग्रीवौ स्फिक्थौ दौवारिको मृगः ॥
जयः शक्रस्तथा मेढे पादयोः पितरस्तथा ।
मध्ये नवपदे ब्रह्मा हृदये स तु पूज्यते ॥
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ।
ब्रह्मा चतुष्पदस्तद्वत्कोणेष्वेकपदास्ततः ॥
१ स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा । इति मा० पा० ।

२२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्थिताः ।
तद्वत्कोणेष्वेकपदा इति । तद्वत् एकाशीतिपदवास्तुवत् ।
एकाशीतिपदे वास्तौ याः कोणेष्वेकपदा देवता इहापि तास्त-
थैव बोद्धव्याः । बहिःकोणेषु, वेद्यादिप्रान्तकोणेषु चतुर्षु ये
उभयपार्श्वे कोष्ठकाः तेष्वष्टौ देवताः सार्द्धा भवन्ति, देवताच-
तुष्टयसहिता भवन्तीत्यर्थः ।
विंशतिर्द्विपदास्तेषां चतुःषष्टिपदास्तथा ॥
गृहारम्भे तु कण्डूतिः स्वस्याङ्गे यत्र जायते ।
शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥
सशल्यं भयदं यस्मादशल्यं भयनाशनम् ।
हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत् ॥
नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत् ।
चतुःशालं त्रिशालं च द्विशालं चैकशालकम् ।
सूतउ वाच ॥
चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा ।
चतुःशालं चतुर्द्वारैरालिन्दैः सर्वतोमुखम् ॥
नाम्ना तत्सर्वतोभद्रं शुभं देवनृपालये ।
पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते ॥
दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् ।
पूर्वद्वारविहीनं तु स्वस्तिकं नाम विश्रुतम् ॥
रुचकं चोत्तरद्वारविहीनं तु प्रचक्षते ।
सौम्यशालाविहीनं यत्रिशालं धन्यकं च तत् ॥
क्षेमवृद्धिकरं नृणां बहुपुत्रफलप्रदम् ।
शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥

राज्ञो भवनपरिमाणादिकम् । २२५
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ।
चुल्ली तु याम्यया हीनं त्रिशालं शालया तु यत् ॥
कुलक्षयकरं नृणां सर्वव्याधिभयावहम् ।
हीनं पश्चिमया यत्तु पक्षघ्नं नाम तद्विदुः ॥
पितृबन्धुसुतान् हन्ति तथा सर्पभयावहम् ॥
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ।
क्षेमवृद्धिकरं नृणां तथा पुत्रफलप्रदम् ॥
यमसूर्ये च विज्ञेयं पश्चिमोत्तरशालकम् ।
राजाग्निभयदं नृणां कुलक्षयकरं च तत् ॥
पूर्वपश्चिमशाले द्वे दण्डाख्यं तत्र तद्भवेत् ।
अकालमृत्युभयदं परचक्रभयावहम् ॥
वायव्यं याम्यपूर्वाभ्यां शालाभ्यां यद्द्विशालकम् ।
विषशस्त्राग्निभयदं पराभवभयावहम् ॥
चुल्ली पूर्वापराभ्यां च सा भवेन्मृत्युसूचनी ।
वैधवत्वाय च स्त्रीणामनेकभयकारिका ॥
कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् ।
सिद्धार्थवर्जं वर्ज्यानि द्विशालानि सदा बुधैः ॥
अलिन्दं द्वारचतुरस्रिका । सौम्यशाला उत्तरद्वारशाला ।
सिद्धार्थवर्जं, याम्यापराभ्यां शालाभ्यां युक्तं यद्द्विशालं तद्विहाय।
अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः ।
पञ्चप्रकारं तत्प्रोक्तमुत्तरादिविभेदतः ॥
अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः ।
चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥
१ शालया याम्यया हीनं यद्द्विशालं तु शालया। इति मा०पा० ।
२ धनाख्यमिति मा० पा० ।
२९

चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ।
युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥
षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्तरात् ।
त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ।
चतुःषष्टिस्तु विस्तारः षड्भिः षड्भिः प्रहीयते ॥
पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥
चतुश्चतुर्विहीना स्यात्करषष्टिः प्रविस्तरे ।
अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।
चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते ।
शिल्पिनां कञ्चुकिनां च वेश्यानां गृहपञ्चकम् ॥
अष्टाविंशत्कराणां तद्द्विहीनं विस्तरात्क्रमात् ।
द्विगुणं दैर्घ्यमेवोक्तमध्यक्षेष्वेवमेव तु ॥
दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।
चतुर्थांशाधिकं दैर्घ्यं विस्तराद्द्वादशैव तु ॥
अर्धार्धकरहानिः स्याद्विस्तरात्पञ्चसु क्रमात् ।
दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥
तेषामपि प्रवक्ष्यामि क्रमाद्भवनपञ्चकम् ।
चत्वारिंशत्प्रविस्ताराच्चतुर्भिर्हीयते क्रमात् ॥
पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम् ॥
द्वात्रिंशद्वै कराणां तु चतुर्भिर्हीयते क्रमात् ।

सेनापत्यादिभवनपरिमाणादिकम् । २२७
आषोडशादिति परं न्यूनमन्त्यावसायिनाम् ॥
दशांशेनाष्टभागेन त्रिभागेनाथ भोगिकम् ।
अधिकं दैर्ध्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥
सेनापतेर्नृपस्यापि सप्तत्या सहिते कृते ।
चतुर्दशहृते व्यासे शालान्यासः प्रकीर्तितः ॥
पञ्चत्रिंशद्धृते तस्मिन्नलिन्दः समुदाहृतः ।
सेनापतेरिति । सेनापतेर्नृपस्य गृहे यावान् विस्तार उक्तस्तं
करसप्तत्या सहितं कृत्वा तदर्द्धं गृहीत्वा तस्यार्द्धस्य चतुर्दशवि-
भागं कृत्वा यावदवशिष्टं भवति तावद्विस्तारां शालां कुर्यादित्य-
र्थः । तेनाष्टोत्तरशतहस्तविस्तारे राजवेश्मनि पञ्चहस्तप्रमाणा
शाला भवति । पञ्चत्रिंशद्धृत इति । तस्मिन्नेव नवाशीतिविस्तारे
राजवेश्मनि पञ्चत्रिंशता भागहारे कृते ये एकोनविंशतिहस्ता
अवशिष्यन्ते तावानलिन्दः कर्त्तव्यः ।
तथा षट्त्रिंशद्धस्तात्र सप्ताङ्गुलसमन्विता ।
विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ॥
दशाङ्गुलाधिका तद्वत्क्षत्रियस्य विधीयते ॥
पञ्चत्रिंशत्करा वैश्ये अङ्गुलानि त्रयोदश ।
तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः ॥
शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत् ।
१ पादिकम् इति मा० पा० ।
२ अत्र-'सेनापतेर्नृपस्यापि गृहयोरन्तरेण तु । नृपवासगृहं कार्यं
भाण्डागारं तथैव च ॥ सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य चान्तरे
वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ॥ अन्तरप्रभवाणां च स्व-
पितुर्गृहमिष्यते । तथा हस्तशतादर्धं गदितं वनवासिनाम्' ॥ इत्य-
धिकं मात्स्ये वर्तते ।

२३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
सोष्णीषं नाम तद्वास्तु पश्चात्तापोश्रयं भवेत् ॥
• पार्श्वयोर्वीथिका यत्र सावष्टम्भं तदुच्यते ।
समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥
शुभदं सर्वमेतत्स्याच्चातुर्वर्ण्ये चतुर्विधम् ।
विस्तारात्षोडशो भागस्तथा हस्तचतुष्टयम् ॥
प्रथमो भूमिकोच्छ्राय उपरिष्टात्प्रहीयते ।
द्वादशांशेन सर्वासु भूमिकासु तथोच्छ्रयः ॥
पश्वेष्टका भवेद्भित्तिः षडंशांशेन विस्तरात् ।
दारवैरपि कल्प्या स्यात्तथा मृन्मयभित्तिका ॥
गर्भमानेन मानं तु सर्ववास्तुषु शस्यते ।
गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥
संयुतो द्वारविष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् ।
द्वारशाखासु बाहुल्यमुच्छ्रायकरसम्मितैः ॥
अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः ।
उदुम्बरोत्तमाङ्गं च तदर्धार्धप्रविस्तरात् ॥
उदुम्बरो देहली ।
अथातः सम्प्रवक्ष्यामि स्तम्भमानाविनिर्णयम् ।
तद्वास्तुभवनोच्छ्रायं सदा सप्तगुणं विदुः ॥
अशीत्यंशं पृथुत्वं स्यादग्रे नवगुणैः सह ।
चरुकश्चतुरस्रः स्यादष्टास्रो वज्र उच्यते ॥
द्विवज्रः षोडशास्रस्तु द्वात्रिंशास्रः प्रलीनकः ।
मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥
१ पश्चाच्छ्रेयोच्छ्रयम् इति मा० पा० ।
२ पक्केष्टका भवेद्भित्तिः षोडशांशेन विस्तरात् । इति मा० प० ।

एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु ।
पद्मवल्लीलताकुम्भपत्रदर्पणभूषिताः ॥
स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु ।
स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ॥
त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः ।
हीनं हीनं चतुर्थांशात्तथा सर्वासु भूमिषु ॥
सावरोहाणि सर्वेषां प्रवेशे दक्षिणेन तु ।
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु ॥
पूर्वेणेन्द्रं जयन्तं च द्वारं सर्वत्र शस्यते ।
याम्यं च वितथं चैव दक्षिणेन विदुर्बुधाः ॥
पश्चिमे पुष्पदन्तं तु वारुणं च प्रशस्यते ।
उत्तरेण तु भल्लाटं सौम्यं तु सुखदं भवेत् ॥
तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत् ।
द्वारे तु रथ्यया विद्धे भवेत्सर्वकुलक्षयः ॥
रथ्या मार्गः । वेधोऽत्राभिमुख्येनावस्थानम् ।
तरुणा द्वेषबाहुल्यं शोकः पङ्केन जायते ।
अपस्मारो भवेन्नूनं कूपवेधेन सर्वदा ॥
व्यथा प्रस्रवणेन स्यात्कीलेनाग्निभयं भवेत् ।
विनाशो देवताविद्धस्तम्भेन स्त्रीकृतो भवेत् ॥
गृहभर्तुर्विनाशः स्याद्गूहेण च गृहे कृते ।
अमेध्यावस्करैर्विद्धे गृहिणी बन्धकी भवेत् ॥
तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु ।
उच्छ्रायाद्द्विगुणां भूमिं त्यक्त्वा वेधो न जायते ॥
उच्छ्रायाद्द्विगुणामिति । यावान् द्वारोच्छ्रायो दैर्ध्य,
तद्द्विगुणद्वाराग्रभूमेः परतो यद्येते रथ्यादयो भवन्ति तदा न

२३० वीरमित्रोदयस्य राजनीतिप्रकाशे
वंधा न वास्तुवध इत्यर्थः ।
स्वयमुद्घाटिते द्वारे उन्मादो गृहवासिनाम् ।
स्वयं च पिहिते विद्यात्कुलनाशं विचक्षणः ॥
मानाधिके राजभयं न्यूने तस्करतो भयम् ।
द्वारोपरि च यद्वारं तदन्तकमुखं स्मृतम् ॥
अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः ।
वज्रं तु सङ्कटं मध्ये सद्यो भर्तृविनाशनम् ॥
तथान्यपीडितं द्वारं बहुदोषकरं भवेत् ।
मूलद्वारात्तथात्यन्तं नाधिकं शोभनावहम् ॥
कुम्भश्रीपर्णिबल्लीभिर्मूलद्वारं तु शोभयेत् ।
पूजयेद्वापि तन्नित्यं बलिना चाक्षतोदकैः ॥
भवनस्य वटः पूर्वे दिग्भागे सार्वकामिकः ।
उदुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥
प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये ।
कण्टकी क्षीरवृक्षश्च आसन्नः सफलद्रुमः ॥
भार्याहानिः प्रजाहानिर्भवेतां क्रमशः सदा ।
न छिन्द्याद्धितानन्यानन्तरे स्थापयेच्छुभान् ॥
पुन्नागाशोकतिलकशमीवकुलचम्पकान् ।
दाडिमीं पिप्पलीं द्राक्षां तथा कुसुममण्डपान् ॥
जम्बीरपूगपनसद्रुमकेतकीभि-
र्जातीसरोजशतपत्रिकमल्लिकाभिः ।
यन्नारिकेलकदलीदलपाटलाभि-
र्युक्तं तदत्र भवनं श्रियमातनोति ॥
उदगादिप्लवं वास्तोः समानस्य शिरस्तथा ।
समानस्य, मानसाहितस्य । वास्तोः, वास्तुपुरुषस्य ।

शिलान्यासादिकम् । २३१
परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः । १
ने देवपूर्त्तसविधे चत्वराणां समीपतः ॥
कारयेद्भवनं प्राज्ञो दुःखशोकसमन्वितम् ।
तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ॥
पृष्ठतः पृष्ठतो गन्तुं सव्यावर्त्त प्रशस्यते ।
अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा ॥
सर्वकामफलो नृणां सम्पूर्णो नाम दामतः ।
एवं प्रवेशमालोच्य यत्नेन गृहमारभेत् ॥
अथ सांवत्सरोक्ते मुहूर्ते शुभलक्षणे ।
रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम् ॥
चतुर्भिर्ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम् ।
शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ॥
स्नपितं तं न्यसेत्तद्वत्सर्वौषधिसमन्वितम् ।
नानाक्षतसमोपेतं वस्त्राभरणसंयुक्तम् ॥
ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः ।
प्रदोषे भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ॥
वास्तोष्पते प्रतिजानीतिमन्त्रेणानेन सर्वदा ।
सूत्रपाते तथा कार्यमेवं स्तम्भोच्छ्रये पुनः ॥
द्वारवंशोच्छ्रये तद्वत्प्रवेशसमये तथा ।
वास्तूपशमने तद्वद्वास्तुयज्ञस्तु पञ्चधा ॥
ईशाने सूत्रपातः स्यादाग्नेये स्तम्भारोपणम् ।
प्रदक्षिणं च कुर्वीत वास्तोः पदविलेखनम् ।


१ न देवधूर्त्तसचिवचत्वराणां समन्ततः । इति. मा० पा० ।
२ पृष्ठभागस्तु इति. मा० पा० ।
३ पायसम् इति मा० पा० ।

२३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे ।
प्रवालरत्नकनकं फलेमृष्टाक्षतोदकम् ॥
सर्ववास्तुविभागेषु शस्तं पदविलेखने ।
न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्मभिः ॥
न शृङ्गास्थिकपालैश्च क्वचिद्वास्तु विलेखयेत् ।
एभिर्विलिखितं कुर्यात् दुःखशोकभयादिकम् ॥
यदा गृहप्रवेशः स्याच्छिल्पी तत्राभिलक्षयेत् ।
स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलोदयम् ॥
आदित्याभिमुखं रौति शकुनिः परुषं यदि ।
तुल्यकालं स्पृशेदङ्गं गृहभर्त्ता यदात्मनः ॥
वास्त्वङ्गे तद्विजानीयान्नरः शल्यं भयप्रदम् ।
अङ्गनानन्तरं यत्र हस्त्यश्वश्वापदं भवेत् ॥
तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः ।
प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ॥
तत्र शल्यं विजानीयात्खरशब्दे च भैरवे ।
यदि शाक्रे तु दिग्भागे मधुरं रौति वायसः ॥
धनं तत्र विजानीयात् भागे वा स्वाम्यधिष्ठिते ।
सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले ह्यधोमुखे ॥
अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् ।
कण्ठशल्येषु जानीयात्पौंश्चल्यं स्त्रीषु शास्त्रवित् ॥
गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे ।
स्तम्भस्कन्धच्युते कुम्भे शिरोरोगान् विनिर्दिशेत् ॥
कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् ।
मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः ॥
१ फलंपेष्टा कृतोदकम् इति मा० पा० ।

दिग्भेदेन वास्तुवृद्धिफलं देवगृहादि च । २३३
करसङ्ख्याविनाशे तु नाशं गृहपतेर्विदुः ।
बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ॥
प्राग्दक्षिणेन विन्यस्य स्तम्भं छत्रे निवेशयेत् ।
ततः प्रदक्षिणेनान्यान्यसेत् स्तम्भान् विचक्षणः ॥
यस्माद्भयकरो नॄणां योजितस्त्वप्रदक्षिणः ।
रक्षां कुर्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् ॥
तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् ।
प्रागुदक्प्रवणं कुर्याद्दिङ्गूढं तु न कारयेत् ॥
स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा ।
दग्धोहे कुलनाशः स्यान्न च संवर्द्धते गृहम् ॥
यदि संवर्द्धयेद्गेहं सर्वमेव विवर्धयेत् ।
पूर्वेण वर्द्धते वास्तु कुर्याद्वैराणि सर्वदा ॥
दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संशयः ।
पश्चाद्विवृद्धं यद्वास्तु तदर्थक्षयकारकम् ॥
वर्द्धापितं तथा सौम्ये बहुसन्तापकारकम् ।
आग्नेये तस्य वृद्धिः स्यात्तदातिभयदं भवेत् ॥
वर्द्धितं राक्षसे कोणे वित्तक्षयकरं भवेत् ।
वर्द्धापितं तु वायव्ये वातव्याधिप्रकोपकृत् ॥
ईशाने सस्यहानिः स्याद्वास्तौ संवर्द्धिते सदा ।
ईशाने देवतागारं तथा शान्तिगृहं भवेत् ॥
महानसं तथाऽग्नेये तत्पार्श्वे चोत्तरे जलम् ।
गृहस्योपस्करं सर्वं नैर्ऋते स्थापयेद्बुधः ॥
धर्मस्थानं बहिः कुर्यात्स्नानमण्डपमेव च ।
१ सर्वदिक्षु विवर्धयेत् इति मा० पा० ।
२ वध्रस्थानमिति मा० पा० ।
३०

२३४ वीरमित्रोदयस्य राजनीतिप्रकाशे
धनधान्यं च वायव्ये कर्मशालां ततो बहिः ॥
एवं वास्तुविशेषः स्याद्गृहभर्तुः शुभावहः ।
अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम् ॥
धनिष्ठापञ्चकं मुक्त्वा विष्ट्यादिकमतः परम् ।
ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः ॥
प्रथमं बलिपूजां च कुर्याद्वृक्षाय सर्वथा ।
पूर्वोत्त्तरेण पतितं गृहदारु प्रशस्यते ॥
अन्यथा न शुभं विद्याद्याम्यापरनिपातने ।
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ॥
कृताधिवासं विहगैरनलानिलपीडितम् ।
गजावभग्नं च तथा विद्युन्निर्घातपीडितम् ॥
ऊर्ध्वं शुष्कं तथा दारु भग्नं वक्रं तथैव च ।
चैत्यदेवालयोत्पन्नं नदीसङ्गमजं तथा ॥
श्मशानकूपनिलयं तडागादिसमुद्भवम् ।
वर्जयेत्सर्वदा दारु यदिच्छेद्विपुलां श्रियम् ॥
तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् ।
श्लेष्मातकानाम्नतरून् वर्जयेत् गृहकर्मणि ॥ इति ।
बह्वृचगृह्येऽपि,
अथातो वास्तुपरीक्षा । अनूपरमंविवदिष्णु भूमौषधिवनस्प-
तिवत् । यस्मिन् कुशवीरणं प्रभूतम् । कण्टकिक्षीरिणस्तु समू-
लान् परिखायोद्वासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति
चैतानि । यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं प-
रीत्य प्राच्यः स्यन्देरन्ननवदत्यस्तत्सर्वसमृद्धम् । समवस्रवे भक्त-
शरणं कारयेत् । बह्वन्नं हि भवति । दक्षिणाप्रवणे सभां मापये-
१ अर्धशुष्कम् इति मा० पा० ।

आश्वलायनगृह्योक्तवास्तुविधिः । २३५
त्साद्युता ह भवति । युवानस्तस्यां कितवाः कलहिनः प्र-
मायुका भवन्ति । यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्यय-
न्यनूता च ( आ० गृ० अ० २ खं० ७ ) ।
अथैतैर्वास्तु परीक्षेत । जानुमात्रं गर्तं खात्वा तैरेव
पांसुभिः प्रतिपूरयेत् । अधिके प्रशस्तं, समे वार्त्तं, न्यूने गर्हि-
तम् । अस्तमिते पांसुपूर्णं परिवासयेत् । सोदके प्रशस्तम्, आर्दे
वार्तं, शुष्के गर्हितं, श्वेतं मधुरास्वादम् । सिकतोत्तरं ब्राह्मण-
स्य, लोहितं क्षत्रियस्य, पीतं वैश्यस्य । तत्सहस्रसीतं कृत्वा
यथादिशं समचतुरस्रं मापयेत् आयतचतुरस्रं वा । तच्छमीशा-
खयोदुम्बरशाखया वा शन्तातीयेन त्रिःप्रदक्षिणं परित्रजन्प्रोक्ष-
ति-अविच्छिन्नया चोदकधारया “आपोहिष्ठामयो भुव” इति
तृचेन । वंशान्तरेषु शरणानि कारयेत् । गर्त्तेष्ववकां
शीपालमित्यवधापयेन्नास्याग्निर्दाहुको भवतीति विज्ञायते । म-
ध्यमस्थूणाया गर्त्तेऽवधाय प्रागग्रोदगग्रान् कुशानास्तीर्य व्री-
हियवमतीरप आसेचयेद् “अच्युताय भौमाय स्वाहा” इति ।
अथैनामुच्छ्रीयमाणामनुमन्त्रयेत “इहैव तिष्ठ निर्मिता तिल्वि-
लास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम् । आ त्वा प्रापन्नघायव
आ त्वा कुमारस्तरुण आवत्सो जायतां सह । आ त्वा परि-
श्रितः कुम्भ आदन्नः कलशैरयन”इति । (आ०गृ०अ०२खं०८)
वंशमाधीयमानम् । “ऋतेन स्थूणामधिरोह वंश द्रा-
घीय आयुः प्रतरं दधाना” इति । सदूर्वासु चतसृषु
शिलासु मणिकं प्रतिष्ठापयेत् “पृथिव्या अधि सम्भव” इति ।
“अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया । इरामु ह प्रशं-
सत्यनिरामपबाधताम्” इति वा । अथास्मिन्नप आसेचयेत्
“ऐतु राजा वरुणो रेवतीभिरस्मिंस्थाने तिष्ठतु मोदमानः ।

२३६ वीरमित्रोदयस्य राजनीतिप्रकाशे
इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्तु” इति ।
अथैनञ्छमयति व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शान्ता-
तीयेन त्रिः प्रदक्षिणं परित्रजन्प्रोक्षति अविच्छिन्नया चोदकधा-
रया “आपोहिष्ठामयो भुव” इति तृचेन । मध्येऽगारस्य स्थाली-
पाकं श्रपयित्वा “वास्तोष्पते प्रतिजानी ह्यस्मान्” इति चतसृभिः
प्रत्यृचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा 'शिवं वास्तु
शिवं वास्तु' इति वाचयीत । इति । (आ. गृ. अ. २ खं. ९) ।
अविवादिष्णु, यत्र विवादिष्णुर्विवादिता न विद्यते तत् । अ-
विवादीति तु पाठे विवादरहितमित्यर्थः । भूमौषधिवनस्पति-
वत्, बहुतरौषधिवनस्पत्युत्पत्तियोग्यम् । परिखाय, उत्पाट्य ।
परिव्याधो, राजवृक्षविशेषः । प्रदक्षिणं शयनीयं परीत्य, शयन-
गृहं प्रदक्षिणं यथा भवति तथाकृत्वा । अप्रवदत्यः, अशब्दवत्यः।
छान्दसो नुमभावः। सर्वसमृद्धं, सर्वैः पुत्रादिभिः सम्पूर्णम् । समव-
स्रवे, प्रणालिकादेशे । भक्तशरणं, पाकशाला । सभा, गृहस्थस्य
समाजशाला, सा यदि दक्षिणाप्रवणे देशे क्रियते तदा द्यूतवती
भवत्यतो न तथा कार्येत्यर्थः । प्रमायुकाः, मरणशीलाः । वार्त्तम्,
नात्युत्कृष्टं नापकृष्टमित्यर्थः । सहस्त्रसीतम्, अपरिमितकृष्टम् ।
शान्तातीयैः, शन्न इन्द्राग्नी भवतेतिसूक्तेन । अवकाः शम्बुकाः ।
शीपालाः शैवालाः ।
विष्णुधर्मोत्तरे,
राम उवाच ।
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज ।
हिताय मानवेन्द्राणां तथान्येषां च मानद ॥
पुष्कर उवाच ।
भूमिमादौ परीक्षेत शुभलक्षणसंयुताम् ।

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २३७
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ॥
न तथा शकटाच्छिन्नां न च तोयपरिप्लुताम् ।
वल्मीकमूषिकावासश्वभ्रकण्टकितद्रुमैः ॥
विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् ।
न तथा यवसंस्थानां नेभवज्रोपमां तथा ॥
न शूर्पकूर्मसंस्थानां स्रक्तिहीनां तथैव च ।
स्रक्तिहीनां, कोणरहिताम् ।
सम्पूर्यमाणां स्वात्खातात्तथा रिक्तमृदं शुभाम् ॥
गर्भे च कुसुमं यस्या न म्लानिमुपगच्छति ।
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ॥
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ।
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥
घृतासृग्गन्धमद्यानां तुल्यगन्धा तथैव च ।
मधुरा च कषाया च अम्लौषणरसा तथा ॥
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च संवृता ।
परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ॥
सम्पूज्य ब्राह्मणान् पूर्वं निःशल्यां तां तु कारयेत् ।
खातपूर्णां तु तां कृत्वा देवभागांश्च कल्पयेत् ॥
चतुःषष्टिपदं कृत्वा वास्तु सर्वं यथाविधि ।
चतुष्षष्टिविभागेन कल्पयित्वा समन्ततः ॥
एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ।
यस्मात्सुरविभागेन द्वारन्यासः प्रकीर्त्तितः ॥
अतः परं प्रवक्ष्यामि देवभागान् यथाविधि ।

२३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥
प्राक् तथाविग्रहः स्वामी कथितश्च तथाऽर्यमा ।
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥
उदक्पृथ्‍वीधरश्चैव विकोणेष्वथ मे शृणु ।
विकोणे शिवदैवत्ये राजयक्ष्माम्बुपौ स्मृतौ ॥
सावित्रस‌वितारौ तु तथाग्नये प्रकीर्तितौ ।
तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥
रुद्रव्याधी तु वायव्ये कथितौ भृगुनन्दन ।
देवतानां तथैतासां भूमौ बाह्ये तु मण्डले ॥
पूर्वादिक्षु यथा दिक्षु देवतास्तन्निबोध मे ।
महेन्द्रश्च रविः सत्यो भृशः प्राग्राम कीर्तितः ॥
गृहक्षतो यमो भृङ्गो गन्धर्वश्चैव याम्यतः ।
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा ॥
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु ।
दितिरीशो मेघजयौ शिवकोणे प्रकीर्तिताः ॥
व्योमाग्नी पूषावितथौ शिखिकोणे च भार्गव ।
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते ॥
रोग आपश्च वायुश्च मुख्यश्चानिलदिक्स्थिताः ।
तथैव बाह्यतश्चाष्टौ शृणुष्व गदतो मम ॥
अष्टावष्टौ विनिर्दिष्टा देवा दिशि दिशि द्विज ।
आद्यन्तौ तु तयोर्देवौ प्रोक्तावन्नग्रहेश्वरौ ॥
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ।
महेन्द्ररविसत्याश्च भृशोऽथ गगनस्ततः ॥
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः ।
पुष्पोऽथ वित्तदश्चैव तथैव च गृहक्षतः ॥

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २३९
यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा ।
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥
दौवारिकश्च सुग्रीवः पुष्पदन्तस्तथासुरः ।
वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥
पश्चिमेन विनिर्दिष्टो देव दानवनाशनः ।
नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥
अदितिश्च कुबेरश्च रोगश्चाथ हुताशनः ।
एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥
एतेषामेव देवानां भागे द्वाराणि कारयेत् ।
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥
महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ ।
गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥
सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज ।
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् ।
द्वात्रिंशच्च बहिर्देवास्तान्तर्द्वादश स्मृताः ॥
मध्ये ब्रह्मा तथा प्रोक्त एवं सम्पिण्डदेवताः ।
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥
विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज ।
तत्र देवविभागेन गृहकर्म विधीयते ॥
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे ।
भागे वासगृहं कुर्याद्यथासंस्थानतो द्विज ॥
सूर्यान्तरिक्षादिकं तत्र तथा कुर्याद्द्विजोत्तम ॥
अथ वा दिग्विभागेन गृहकर्म विधीयते ॥
ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् ।
अग्न्यगारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥

२४० वीरमित्रोदयस्य राजनीतिप्रकाशे
गोष्ठागारायुधागारौ वायव्ये च तथा स्मृतौ ।
कृपादि चोदकं शस्तं दिक्षु चैवोत्तरासु च ॥
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् ।
पुराणनवमिश्रं तु दारु वेश्मनि वर्जयेत् ॥
स्वकुड्यं परकुड्ये च नैव कार्यं विजानता ।
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्त्तनम् ॥
वृद्धिक्षयौ न कर्त्तव्यौ भूयः कर्मणि वेश्मनः ।
प्रागुत्तरे तथा कार्यं ब्राह्मणानुमते तथा ॥
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव ।
न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥
मर्माणि राम जानीयाद्देवतापदसन्धिषु ।
न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥
ये द्रुमा घटसिक्ता वै तथा ये च सकोटराः ।
हस्तिविद्युद्धुता ये च देवतावेश्मजाश्च ये ॥
वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे ।
एकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च ।
मध्वाज्यैरुपदिग्धेन तथा छिन्द्यात्परशुना ॥
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम् ।
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ ।
पुष्पकः शाल्मलिश्चैव पलाशश्च विवर्जयेत् ॥
पलाशश्चेत्यग्रे, एतानिति शेषः ।
विस्तारद्विगुणोत्सेधं द्वारं कार्यं तथा गृहे ॥
निधिप्रमथकौ नागहंससारसचित्रितम् ।

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २४१
द्वारकोणे भ्रमश्वभ्रचतुष्पथसुरालयैः ॥
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत् ।
रथ्या मार्गः । वेधोऽत्राभिमुखेनावस्थानम् ।
द्विगुणात्तु गृहोच्छ्रायात् भूमिं त्यक्त्वा न दोषभाक् ।
वेध इतिशेषः ।
आध्मातं सङ्कटं राम तथाम्बुस्रावि यद्भवेत् ।
द्वारं न तत्प्रशंसन्ति तस्मात्तत्परिवर्जयेत् ॥
मूलद्वाराधिकं श्रीभागेषु च तथा भ्रमम् ।
धनदस्य तथा भागे धनुर्वेश्म विधीयते ॥
इन्द्रादित्येन्द्रसुग्रीवद्वारमन्यत्तु कारयेत् ।
स्तम्भं तु नवधा कृत्वा पीठभागे तु कारयेत् ॥
भागे कुम्भं तथा कार्यं भागे पद्मं निवेशयेत् ।
स्तम्भे भागत्रये कार्यमष्टास्रिमथ वर्त्तुलम् ॥
तस्योपरि तथा भागे भवत्यामलसारकम् ।
भागे दोषतुला कार्या भागे कार्या तथा तुला ॥
एकशालचतुःशालौ कर्त्तव्यौ स्वेच्छया सदा ।
पूर्वोत्तराभिः शालाभिर्हीनौ कार्यों द्विशालकौ ॥
दक्षिणापरशालाभिर्हीनौ मरणदायकौ ।
अन्यथा गर्हितौ राम सुतार्थक्षयदौ मतौ ॥
अष्टहस्तोच्छ्रायादूर्ध्वं भूमिकां तु न कारयेत् ।
वास्तूच्छ्रायो न कर्त्तव्यस्तथा हस्तशताधिकः ॥
आरम्भः सशिलान्यासो द्वारस्तम्भोच्छ्रायावुभौ ।
तथाऽऽरोहणनिष्पत्तिस्तथा वास्तुप्रवेशनम् ॥
आरोहणनिष्पत्तिः, सोपानपङ्क्तिः ।
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते ।
३१