सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 133, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 133

विहिता राजधर्माः १३५
अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत् ।
शङ्केषु शङ्कितो नित्यं रक्षेच्छक्त्या सदोत्थितः ॥
पापानां निग्रहं कुर्यात्साधूनां परिपालनम् ।
यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥ इति ।
शङ्केषु, पूर्वकृतापकारादिना शङ्कास्पदेषु ।
नारदः,
सतामनुग्रहो नित्यमसतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति ।
राज्ञः कर्त्तव्यमित्यनुवृत्तौ-
शङ्खलिखितौ,
स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः ।
स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः ॥ इति ।
स्वपक्षे स्थानवृद्धिः, परपक्षे स्थानक्षयः, तयोराश्रयणम् ।
स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशादीनां च । विभागः,
उचिताधिकारिभ्यस्तसमर्पणम् । काले यथोचितकाले । द्रव्यस्य,
वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सङ्ग्रहः । राजधर्मानुवृत्तौ-
मार्कण्डेयपुराणे,
अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥ इति ।
अत्र तितिक्षादानयोः सर्वसाधारणधर्मत्वेऽपि राज्ञोऽवश्य-
कर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मेषु विशिष्यो-
पादानम् ।