वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 132, कुल 490 में से
संदर्भ में पढ़ेंनित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरैः ॥
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥
अमाययैव वर्त्तेत न कथञ्चन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥
तथा,
तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ इति ।
उद्यतदण्डः, दण्डो हस्त्यश्वादियुद्धादिशिक्षाभ्यासः, स उ-
द्यतस्संव्यापारो यस्य स तादृशः । अथ वा दण्डो दण्ड्यानां
दण्डनं तदुद्यतं यस्य स तादृशः । विवृतपौरुषः, विवृतं प्रकाशी-
कृतं पौरुषम् अस्त्रविद्याप्रकर्षादिकं यस्य स तथा । संवृतसंवा-
र्यः, संवृतं परैरज्ञायमानं संवार्यं संवरणार्हं मन्त्राकारचेष्टितादि
यस्य स तथा । उद्विजते बिभेति । तेन च प्रतापख्यातिर्भवती-
त्यर्थः । अमायया अच्छद्मना । वर्तेत, अमात्यादिष्विति शेषः ।
अहितेषु तु क्वचिच्छद्मापि विहितमेव ।
शङ्खलिखितौ, राजा स्वाधीनवृत्तिरात्मप्रत्ययकोशः स्वयं
कृत्यानुदर्शी विप्रस्वनिवृत्तश्चिरं भद्राणि पश्यति । इति ।
आत्मप्रत्ययकोशः, आत्मनः स्वस्य प्रत्ययो विज्ञानं यस्य
तादृशकोशवान् ।
यमः,
समः सर्वेषु भूतेषु नयानयविशारदः ।
नैकः कार्याणि यः कुर्यात्सोऽत्यन्तं पाति मेदिनीम् ॥
अत्यन्तं चिरकालम् ।
तथा,