वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
विहिता राजधर्माः १३५
अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत् ।
शङ्केषु शङ्कितो नित्यं रक्षेच्छक्त्या सदोत्थितः ॥
पापानां निग्रहं कुर्यात्साधूनां परिपालनम् ।
यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥ इति ।
शङ्केषु, पूर्वकृतापकारादिना शङ्कास्पदेषु ।
नारदः,
सतामनुग्रहो नित्यमसतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति ।
राज्ञः कर्त्तव्यमित्यनुवृत्तौ-
शङ्खलिखितौ,
स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः ।
स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः ॥ इति ।
स्वपक्षे स्थानवृद्धिः, परपक्षे स्थानक्षयः, तयोराश्रयणम् ।
स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशादीनां च । विभागः,
उचिताधिकारिभ्यस्तसमर्पणम् । काले यथोचितकाले । द्रव्यस्य,
वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सङ्ग्रहः । राजधर्मानुवृत्तौ-
मार्कण्डेयपुराणे,
अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥ इति ।
अत्र तितिक्षादानयोः सर्वसाधारणधर्मत्वेऽपि राज्ञोऽवश्य-
कर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मेषु विशिष्यो-
पादानम् ।
१३६ वीरमित्रोदयस्य राजनीतिप्रकाशे
यमः,
याचितो नेति न ब्रूयादीक्षितो नानृतं वदेत् ।
सङ्ग्रामे न निवर्त्तेत तं देवाः क्षत्रियं विदुः ॥
दाता यज्वा च शूरश्च देवद्विजपरायणः ।
समः सर्वेषु भूतेषु चिरं पालयते महीम् ॥
तथा,
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ।
भृत्या यमुपजीवन्ति स राजा शक्रलोकभाक् ॥ इति
कात्यायनः,
शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः
सदा चित्तं नरेन्द्राणां मोहमायाति कारणात् ॥
तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः ।
पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥ इति ।
द्विजैः, करणभूतैः, राज्ञा स्वचित्तं राजधर्मे प्रबोद्धव्यम् ।
गौतमः, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयः-
शीलसम्पन्नं न्यायवृत्तं तपस्विनं, तत्प्रसूतः कर्माणि कुर्वीत,
ब्रह्मप्रसूतं हि क्षत्रमृद्ध्यते न व्यथत इति च विज्ञायते, यानि च
दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत, तदधीनमप्येके योगक्षेमं
प्रतिजानते, शान्तिपुण्याहस्वस्त्ययनायुष्मङ्गलसंयुक्तान्याभ्युद-
यिकानि विद्वेषणसंव्रननाभिचारद्विपद्वृद्धियुक्तानि च शालाग्नौ
कुर्याद्यथोक्तमृत्विजोऽन्यानि । इति ।
पुरोदधीत, पुरोहितं कुर्यात् । सर्वेषु कर्मसु पुरो धीयत
इति पुरोहितः । तत्प्रसूतः तदनुज्ञातः । तत्प्रसूत इत्यत्र त-
च्छब्दानुकर्षणीयत्वेन ब्राह्मणं निर्दिशति — ब्रह्मप्रसूतमिति ।
ब्रह्म, ब्राह्मणस्तेन प्रसूतं तदनुज्ञातम्। ऋद्ध्यते समृद्धो भवति ।
... ऋद्ध्यभावः"
Look at Gautama:
"द्विषद्-ऋद्धि..." or "द्विषद्राद्धि..."!
In Gautama Dharmasutra:
"द्विषद्राद्ध्यनायुष्याणि" or "द्विषदृद्धि..."!
Wait, Haradatta or Maskarin's commentary on Gautama Dharmasutra:
"द्विषद्राद्धिः द्विषतां शत्रूणाम् ऋद्ध्यभावः" OR "द्विषदृद्धिः" OR "द्विषद्राद्दिः"?
WAIT! LOOK AT THE WORD IN THE IMAGE:
"द्विषदन्नाद्दिः" -> WAIT! Look at the characters again:
Is it "द्विषद्राद्दिः,"???
LOOK AT IT:
द् [d]
वि [vi]
ष [ṣa]
द [da]
रा [rā] -> WAIT! Is that 'रा'???
A vertical line with a top bar, but wait: is it 'रा' or 'न्ना'?
Wait, look at 'रा' in 'राजा' (line 11): 'रा'!
In line 10, between 'द' and 'द्दिः', what is there?
There is: 'रा' or 'द्वा' or 'न्ना'?
Wait, if it's "द्विषद्राद्दिः":
Wait, Gautama Dharmasutra text:
"द्विषद्राद्ध्यनायुष्याणि" (dvī
१३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ इति ।
महाभारते,
पुरोहितप्रधानो हि राजा हितमवाप्नुयात् ।
सदाऽऽचरति यो धर्मं नृपो ब्राह्मणदेशितम् ॥
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति ।
तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः ॥ इति ।
ब्रह्मपुराणे,
द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति ।
एकं च कोटिहोमं च यत्नात्सर्वाभयप्रदम् ॥
अथर्ववेदविहितं समन्त्री सपुरोहितः ।
नित्यान्याहार्यकाम्यानि तथा नैमित्तिकानि च ॥
ग्रहणे सूर्यशशिनोर्भूकम्पोत्पातदर्शने ।
तत्क्षणे च महाशान्तिः कर्त्तव्याऽनिष्टनाशिनी ॥ इति ।
याज्ञवल्क्यः,
श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृर्त्विजस्तथा ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥
भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ इति ।
राजेत्यनुवृत्तौ-
शङ्खलिखितौ,
दद्याद्दानमर्चयित्वा ब्राह्मणाय, निमित्तपूर्वं शेषेभ्यः,
कृपणातुरानाथव्यङ्गविधवावालवृद्धानौषधावसथाशनाच्छादनै-
र्बिभृयात् । इति ।
शेषेभ्यः क्षत्रियादिभ्यः । निमित्तपूर्वं सेवाद्युपाधिना ।
राजधर्मेषु-
विहिता राजधर्माः । १३९
आपस्तम्बः, भृत्यानामनुरोधेन क्षेत्रं वित्तं च द-
दद्ब्राह्मणेभ्यो यथार्हमनन्तान् लोकान् जयति । इति ।
भृत्यानां, राजरक्षणोपयुक्तानाममात्यानुजीविप्रभृतीनाम् ।
अनुरोधेन तद्दृश्यपीडनेन । यथार्हं, वृत्तशीलविद्याकुटुम्बादिकं
विचार्य ।
कात्यायनः,
वेदध्वनिप्रभावेन देवाः स्वर्गनिवासिनः ।
तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ॥
तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः ।
तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥ इति ।
सत्कर्मणा शक्रत्वं प्राप्य पुण्यक्षये पुनर्नरेन्द्रत्वं, प्राप्नुया-
दितिशेषः । अत एवोक्तम् —
अनेनैव,
सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति ।
कर्त्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ॥ इति ।
तत्त्वं सुरेशत्वम् । यस्य राज्ञो राज्यं स्वयं प्राप्तं तत्प्रेतकृ-
त्यं राजा कुर्यात्तन्मातापित्रादींश्चावश्यं बिभृयात् । तदाह-
वासिष्ठः, राजनि च दद्यात्प्रेते प्रासङ्गिकम् । अनेन माता-
पितृवृत्तिर्व्याख्याता, राजमहिषीपितृवृत्तिर्व्याख्याता । राजम-
हिषीपितृव्यमातुलान् राजा बिभृयात्, तद्वधूश्च । अन्याश्च राज-
पत्न्यो ग्रासाच्छादनं लभेरन् । अनिच्छन्त्यो वा व्रजेयुः ।
क्लीबोन्मत्तान् राजा बिभृयात्तद्गामित्वादृक्थस्य । इति ।
अस्यार्थः । राजनि प्रेते मृते यः पुत्रातिरिक्तोऽपि राजा
भवति, स प्रासाङ्गिकं, मरणप्रसङ्गेनावश्यकं तच्छ्राद्धादि, कुर्यादि-
त्यर्थः । यस्तु पितृमरणोत्तरं राजा भवति तं प्रति श्राद्धादिविधा-
१४० वीरमित्रोदयस्य राजनीतिप्रकाशे
नस्याप्यवयवप्रसङ्गात, सामान्यत एव प्राप्तेः । अनेन, तच्छ्राद्धादि-
विधानेन । मातापितृवृत्तिः, मृतराज्ञो मातापित्रोर्भरणादिरूपा ।
व्याख्याता, अवश्यं कर्त्तव्येत्यर्थः । अन्याश्च राजपत्न्यः, तद-
वरोधवासिन्योऽविवाहिता अपि, एता ग्रासाच्छादनं लभेरन्निति,
अनेन पूर्वोक्तं नां भरणविधानं पूर्वराजकृततद्वृत्यनुच्छेदपर-
म् । तत्रापि मातापित्रोर्यावती पूर्वराजकृता वृत्तिः सा सर्व्वापि
दातव्या, राजमहिषीपितृव्यमातुलानां तु भरणं मानपुर-
सरम् । अवश्यं तद्धरणीयजनपोषणं यथा भवति तथा विधे-
यम् । तदवरोधवासिनीनामन्यासां विवाहितानामविवाहितानां
च ग्रासाच्छादनमात्रं दद्यात्, पृथक्पृथङ्निर्देशात् । अत एव
सर्वशेषे "तद्गामित्वादृक्थस्य" इति हेतूपन्यासः । रिक्थस्य
तत्तदायस्य । तद्गामित्वात् नूतनराजगामित्वात् । क्लीवोन्मत्तान् ।
पूर्वराजान्तःपुरादावधिकृतान् क्लीवान्, उन्मादोऽसावधानता सा
च रोगवयःप्रभृतिदोषकृता तद्युक्ततया पूर्वराजेनावश्यभृतान् ।
आपस्तम्बः, आवसथे सवेशंश्रोत्रियानतिथीन् वासये-
त्तेषां यथागुणमावसथाः शय्याऽन्नपानं च देयं गुरुनमात्यांश्च
नातिजीवेत् । इति ।
देयं, राज्ञेतिशेषः । नातिजीवेत्, अतिक्रम्य न जीवेत् ।
गुरूणाममात्यानां च जीविकां कृत्वैव स्वजीविकां कुर्य्यादित्यर्थः।
मनुः,
श्रोत्रियं व्याधितार्त्तौ च बालवृद्धावकिञ्चनौ ।
महाकुलीनमार्य्यं च राजा सम्पूजयेत्सदा ॥ इति ।
राजेत्यनुवृत्तौ गौतमः,
विभृयाद्ब्राह्मणांश्छ्रोत्रियान्निरुत्साहांश्चाब्राह्मणानकरांश्च-
विहिता राजधर्माः । १४१
पकुर्वाणांश्च । इति ।
निरुत्साहान्, कर्त्तव्यार्थे स्थिरः प्रयत्न उत्साहस्तद्रहितान्,
अलसानितियावत् । अब्राह्मणान्, ब्राह्मणातिरिक्तान् क्षत्रिया-
दीन् । अथ वा अब्राह्मणान् श्रोत्रियत्वादिगुणरहितान् ब्राह्म-
णान् । अकरान्, येभ्यः करो न गृह्यते, किन्तु मासि मास्येकै-
कदिनं कर्म कार्यते तादृशान् शिल्प्यादीन् । अत एव-
मनुः,
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ इति ।
अत्र हि मनुवाक्ये-“ब्राह्मणः सीदति क्षुधा” इति प्रथम-
मुपक्रम्य, “श्रुतवृत्ते विदित्वास्य” इत्यनेन श्रोत्रियस्यैवाव-
श्यभरणीयत्वमुपसंहृतम् । तदेकमूलकतया गौतमवाक्येऽपि
श्रोत्रियस्यावश्यभरणीयत्वमुक्त्वा तदतिरिक्तस्य जातिमा-
त्रब्राह्मणस्य भरणे निरुत्साहत्वं हेतुत्वेनोपन्यस्तं वेदितव्यम् ।
शङ्खलिखितौ, राजन्यवैश्यावप्यजीवन्तौ राजानमुपति-
ष्ठेयातां तावुभौ शक्तितः संविभक्तावुपकुर्यातां स्वस्वधर्मानुष्ठा-
नेन शिल्पिनः कारवश्च शूद्राः । इति ।
अजीवन्तौ, स्वस्ववृत्त्या जीविकामलभमानौ । एतद्वाक्ये-
ऽपि- संविभक्तौ कृतजीविकौ, तावुभौ राजन्यवैश्यौ, राज्ञः
शक्तितो यथासामर्थ्यमुपकुर्याताम्, अपिशब्दात् शिल्प्यादयः
शूद्रा अपि जीविकामलभमाना राज्ञा कृतसंविभागाः, स्वस्वध-
१४२ वीरमित्रोदयस्य राजनीतिप्रकाशे
र्मानुष्ठानेन राज उपकुर्युरित्युक्तम् । तथा चोपकुर्वतामेव क्षत्रि-
यादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्व-
ताम् । पूर्वोदाहृतगौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेना-
नुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं
हेतुरुपन्यस्तः । अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां
सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽश-
क्यानुष्ठानता च स्यात् ।
हरदत्तस्तु पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान् ।
बिभृयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः
तान्, ब्राह्मणानन्नादिदानेन बिभृयात् । निरुत्साहांश्चाब्रा-
ह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान्
क्षत्रियादीनपि बिभृयात्, किं पुनर्ब्राह्मणान् । पूर्वसूत्रे तु अ-
र्जने समर्थानपि श्रोत्रियान् स्वयमाहूय बिभृयादिति । अकरांश्च,
येभ्यः पूर्वैः करो न गृहीतस्तान् अकरान्, बिभृयात्, तेभ्यः
स्वयं करं नोत्पादयेत् । उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण
उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयंजी-
वनवतश्च करादिव्यावर्त्तनेन । उपकुर्वाणा, लोकोपकारिणो
वैद्यादय इति केचित् ।
यमः,
अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये ।
महीपतिस्तानभिपूज्य वै द्विजान् भवेदजेयो दिवि देवराडिव ॥
पुराणं निधिं, वेदरूपम् ।
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ।
अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ इति ।
तथा,
२. द्वितीय प्रकाश: प्रजा-पालन, कर-व्यवस्था (राजस्व), सीमा-रक्षा एवं दुर्ग-निर्माण
विहिता राजधर्माः। १४३
पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्यधीयते ।
स राजा सह राष्ट्रेण वर्द्धते ब्रह्मतेजसा ॥
राजा यत्कुरुते पापं प्रमादात्सह तेन च ।
वसन्तो ब्राह्मणा राष्ट्रे जप्येन शमयन्ति तत् ॥
ब्राह्मणान् पूजयेन्नित्यं प्रातरुत्थाय भूमिपः ।
ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः ॥
यदरुच्या हरन्त्येते शुभं वा यदि वाऽशुभम् ।
तत्तथा नान्यथा कुर्याद्ब्राह्मणा ह्यत्र कारणम् ॥ इति ।
मनुः,
नाब्रह्म क्षत्रमृध्नोति१ नाक्षत्रं ब्रह्म वर्द्धते ।
ब्रह्म क्षत्रेण संयुक्तमिह चामुत्र वर्द्धते ॥ इति ।
यमः,
राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः।
तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥
आसन्नं हि दहत्यग्निर्दूराद्दहति ब्राह्मणः ।
प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥
ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ।
समुद्रश्चाप्यपेयश्च विफलस्तु पुरन्दरः ॥
विफलः वृषणरहितः ।
चन्द्रमा राजयक्ष्मी च पृथिव्यामूषराणि च ।
वनस्पतीनां निर्यासो दानवानां पराजयः ॥
अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम् ।
तस्माद्विप्रेषु नृपतिः प्रणमेन्नियमेन च ॥ इति ।
महाभारते,
१ वर्धते इत्यर्थः ।
१४४ वीरमित्रोदयस्य राजनीतिप्रकाशे
अष्टौ पूर्वनिमित्तानि नरस्य विरमिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणांश्च विरुद्ध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥
तथा तत्रैव भीष्मवाक्यम्—
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानामनुज्ञातमत्यन्तं सुखमिच्छता ॥
कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ ।
श्रोत्रियान् स्नातकान् वृद्धान्नित्यमेवाभिपूजयेत् ।
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सान्त्वेन भोगदानेन नमस्कारैस्तथैज्यया ॥
एतत्कृत्यतमं राज्ञां नित्यमेवाभिलक्षयेत् ।
यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत् ॥
ये चाप्येषां पूज्यतमास्तान्नृपः प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ इति ।
राज्ञां खड्गादिषु देवीपूजनमावश्यकं सर्वदा कर्तव्य-
त्वेनोक्तम्—
देवीपुराणे,
नामभेदेन सा भिन्ना अभिन्ना परमार्थतः ।
शिवा नारायणी गौरी चर्चिका विमला उमा ॥
सा वन्द्या पूजनीया च सततं तत्तद्भावितैः ।
विजयार्थं नृपैः खड्गे छुरिकापादुके पटे ॥
चामुण्डां चित्ररूपां च लिखितां चाथ पुस्तके ।
विहिता राजधर्माः । १४५
ध्वजे वा कारयच्छत्रे स नृपो विजयेद्रिपून् । इति ।
कार्त्तिकेयपूजापि सर्वदा कर्त्तव्यत्वेन, विशेषतश्च रणे प्र-
स्थितस्य राज्ञ आवश्यकत्वेनोक्ता भविष्यपुराणे—
राज्ञां पूज्यः सदा प्रोक्तः कार्त्तिकेयो महीपते ।
कार्त्तिकेयादृते राज्ञां नान्यं पूज्यं प्रचक्षते ॥
सङ्ग्रामे गच्छमानो यः पूजयेत्कृत्तिकासुतम् ।
स शत्रूञ्जयते वीरो यथेन्द्रो दानवान् रणे ॥
तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्करात्मजम् ।
पूजयानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप ॥
मुच्यते सर्वपापेभ्यः सद्यो गच्छेच्छिवालयम् ।
नान्यं पूज्यमित्यनेन कार्त्तिकेयपूजाविधानस्यावश्यकत्वम्,
न त्वन्यदेवतापूजानिषेधः । उदाहृतदेवीपुराणवचनेन देवीपू-
जायाः, कूर्मपुराणादौ शिवविष्ण्वादिदेवतापूजाया अपि राज-
कर्तृकत्वेन विशिष्ट्याभिधानात् ।
राजेत्यनुवृत्तौ अन्यदपि कर्त्तव्यत्वेनोक्तं ब्रह्मपुराणे—
नित्यं सन्निहितान् देवान्मुनीन् नागांश्च पूजयेत् ।
पिशाचेभ्यो बलिं दद्यात्सन्ध्याकाले च नित्यशः ॥ इति ।
उक्तवृत्तस्य राज्ञः फलमाह मनुः—
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तार्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ इति ।
कात्यायनोऽपि—
आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥
ये तु व्यपेताचारिणः त्यक्तवर्णाश्रमधर्मास्ते सदा बहु-
कालपर्यन्तमवीचिनामकनरकवासिनः ।
१९
१४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत्स नरके घोरे कल्पान्तं तु न संशयः ॥
सम्यगविज्ञाय, स्वक्रोधनिमित्तं परापराधमनिर्णीय ।
कर्त्तव्यान्तरमप्युक्तं गरुडपुराणे—
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा सुखदुःखसमो भवेत् ॥
वीराः कष्टमनुप्राप्ता न भवन्ति विषादिताः ।
प्रविश्य वदनं राहोर्विनोदति पुनः शशी ॥
तथा,
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पेण दंशितः ॥
तथा,
लीलां करोति यो राजा भृत्ये सज्जनगर्विते ।
स वादे विग्रहे क्षिप्रं रिपुभिः परिभूयते ॥
लीलां क्रीडाम् । वादे, वाक्कलहे । विग्रहे, शस्त्रसाध्ये
सङ्ग्रामे ।
तथा,
तुल्यार्थं तुल्यसम्बन्धं मर्मज्ञं व्यवसायिनम् ॥
अर्द्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते । इति
इति राज्ञो विहितधर्माः ।
अथ राज्ञः प्रतिषिद्धा धर्माः,
मत्स्यपुराणविष्णुधर्मोत्तरयोः,
मृगयां पानमक्षांश्च वर्जयेत्पृथिवीपतिः ।
एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
प्रतिषिद्धा राजधर्माः । १४७
बहवो नृपशार्दूल सङ्गया येषां न विद्यते ।
दिवास्वप्नं वृथाऽट्यां च विशेषेण विवर्जयेत् ॥
वृथाऽट्या, वृथाऽटनम् ।
वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च ।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥
अर्थस्य दूषणं राजा द्विपकारं विवर्जयेत् ।
अर्थानां दूषणं चैकं तथाऽर्थेन च दूषणम् ॥
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया ।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥
अदेशकाले यद्दानमपात्रे दानमेव च ।
अर्थेन दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनम् ॥
तथा,
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।
न भाव्यं दारुणेना तितीक्ष्णादुद्विजते जनः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
राजा लोकं दयाऽपेक्षी तस्य लोकद्वयं भवेत् ॥
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षुकसङ्कथम् ॥
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ।
लोकसङ्ग्रहणार्थाय भृतकव्यसनी भवेत् ॥
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ।
जना विरागमायान्ति सदा दुःसेव्यभाविताः ॥
व्यसनानि, पुरुषार्थविक्षेपकाणि मृगयादीनि ।
तान्याह मनुः—
मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः ।
१४८ वीरमित्रोदयस्य राजनीतिप्रकाशे
तौर्यत्रिकं वृथाऽट्या च कामजो दशको गणः ॥
तौर्यत्रिकं नृत्यगीतवाद्यानि । एतत्त्रिकमादाय दश काम-
जानि व्यसनानि ।
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥
वाक्पारुष्यं दण्डजं च पारुष्यमादायाष्टविधत्वं द्रष्टव्यम् ।
द्वयोरप्येतयोर्मूलं यं पूर्व कवयो विदुः ।
तं यत्नेन जयेल्लोभं तज्जये तावुभौ गणौ ॥
दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥
आत्मनैव वियुज्यते, मरणमापद्यत इत्यर्थः ।
तत्र सप्त कष्टतमानि ।
यथाऽऽह मनुः—
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वपूर्वं गुरुतरं विद्याद्व्यसनमात्मनः ॥
परिवादः, परदोषकथनम् । वृथाऽट्या, वृथाऽटनम्। पैशुन्यम्,
अनभिव्यक्तदोषाविष्करणम् । साहसम्, साथोर्बन्धनादिनिग्रहः ।
द्रोहः, ब्रह्मवधः । ईर्ष्या, परगुणासहिष्णुता । परगुणेषु दोषावि-
ष्करणमसूया । अर्थदूषणम्, अर्थापहारो देयानामदानं च । वा-
प्रतिषिद्धा राजधर्माः । १४९
क्पारुष्यम्, आक्रोशादि। दण्डपारुष्यम्, अल्पापराधेऽपि बहुला-
र्थग्रहणं, शारीरदण्डो वा ।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥
अधोऽधो व्रजति, नरकं प्रतिपद्यत इत्यर्थः । नरकाणां पा-
ताल एव वर्णितत्वात् ।
विष्णुधर्मोत्तरे—
न गाहेज्जनसम्बाधं न चाज्ञातं जलाशयम् ।
नापरीक्षितपूर्वं तु पुरुषैराप्तकारिभिः ॥
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ।
व्यालम्, दुष्टम् ।
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुष्कवाससम् ।
अशुष्कवाससम्, आर्द्रवाससं, रजस्वलामित्यर्थः ।
तथा,
नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ।
तथा,
देवतासु न वोच्छिन्द्यात्पूर्वदायान् कथञ्चन ।
प्राक्स्थितं च न चोच्छिन्द्यान्न चोच्छिन्द्यात्तथा जनात् ॥
उच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ।
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥
देवद्रव्यापहरणान्नरकं प्रतिपद्यते ।
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भारत ॥
१६० वीरमित्रोदयस्य राजनीतिप्रकाशे
दर्शयन्ति रुषं सौम्याः राज्यभ्रंशादिभिर्नृणाम् ।
अस्मिंल्लोके रुषं क्रूरा नैव कुर्वन्ति देवताः ॥
तासां वित्तापहरणाद्राजा नरकमृच्छति ।
पूर्वैः पितामहैः सार्द्धं प्रागुक्तं कालमेव तु ॥
देवद्रव्यापहरणं नैव जातु भवेद् वृथा ।
सर्वस्वरहितान् कृत्वा देवद्रव्यापहारिणः ॥
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् ।
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ।
तेषां तन्नायकः स्वामी निग्रहानुग्रहे भवेत् ॥
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् ।
तथा तत्रैव,
ब्रह्मस्वं नैव चाऽऽदद्याद्ब्रह्मस्वं पालयेत्तथा ।
ब्रह्मस्वहरणाद्राम नरके पच्यते नरः ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्र पूरुषान् ॥
ब्रह्मस्वं प्रणयाद् भुक्तं हिनस्त्यासप्तमं कुलम् ।
द्रोहाद् भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् ।
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥
अत्र सुवर्णशब्दः परिमाणविशिष्टसुवर्णवचनः ।
दृष्ट्वाऽविद्यं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ।
प्रतिषिद्धा राजधर्माः । १५१
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥
वर्षाणामयुतं राम पच्यते चावगूरिते ।
शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मनाम् ॥
क्षतात्तावन्ति वर्षाणि क्षतकृन्नरके वसेत् ।
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा । इति ।
विष्णुः —
स्वदत्तां परदत्तां च भुवं नापहरेद्ब्राह्मणेभ्यः । इति ।
मनुः —
परामप्यापदं प्राप्तो ब्राह्मणं न प्रकोपयेत् ।
परामपि, कोषक्षयेण बलवद्राजविरोधेन चोत्कृष्टाम्, आपदं
प्राप्तो राजा ब्राह्मणं न प्रकोपयेत् । तदीयधनाऽऽदानेन तदवग-
णनया वा तन्मन्युं नोत्पादयेत् ।
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥
यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः ।
क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥
लोकानलोकान् कुर्युस्ते लोकपालांश्च कोपिताः ।
देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥
यान्समाश्रित्य तिष्ठन्ति देवा लोकाश्च सर्वदा ।
ब्रह्मैव च धनं येषां को हिंस्यात्तान् जिजीविषुः ॥
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ।
एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।
हूयमानश्च यज्ञेषु भूय एवाभिपूज्यते ॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।
१५२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वथा ब्राह्मणः पूज्यो दैवतं परमं हि तत् ॥
क्षत्रस्यापि प्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः ।
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम् ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥
“परामप्यापदं प्राप्त” इत्यस्य निषेधस्य “ते ह्येनं कुपिता
हन्युः”इत्यारभ्य “स्वासु योनिषु शाम्यति”इत्यन्तः सर्वोऽयमर्थ-
वादः । ब्रह्मैव च धनं येषामिति । ब्रह्मैव वेद एव येषां ब्राह्मणा-
नाम् अभ्युदयसाधनतया याजनाध्यापनादिना धनार्जनोपाय-
त्वेन धनम् अवश्यापेक्षितमवश्यरक्षणीयं च, तान् ब्राह्मणान्
जिजीविषुर्जीवितुमिच्छन् को हिंस्यात्पीडयेत् । अपराधिनोऽपि
ब्राह्मणस्य दण्डनिवृत्त्यर्थं स्तुतिरियम् ।
मनुः—
द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् ।
राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥
प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान भवेत् ॥
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ।
तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥
कितवान् कुशीलवान् चौरान् पाखण्डस्थांश्च मानवान् ।
विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।
राज्ञो दिनकृत्यम् । १५३
विकर्मक्रियया नित्यं बाधन्ते भाद्रिकाः प्रजाः ।
द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् ॥
तस्मात् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ।
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ॥
तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ।
देवनसमाह्वयावित्यत्र देवनं द्यूतं च पर्यायौ । अप्राणिभिः,
अक्षशलाकादिभिः । प्राणिभिः, मेषकुक्कुटादिभिः । तत्रापि प-
णपूर्वं यत्क्रियते तदेव द्यूतं समाह्वयश्च । अपणपूर्वके तु न
द्यूतसमाह्वयशब्दौ प्रवर्त्तेते । लोके तयोः क्रीडाशब्देनैव व्यव-
हारात् । अत एव तयोर्लोके विगानाभावः । कुर्यात्कारयीत
वेत्यत्र यः कितवो द्यूतसमाह्वयौ कुर्यात्, यश्च सभिकः का-
रयीत, तान् सर्वान् राजा अपराधमपेक्ष्य घातयीत हस्तच्छेदा-
दिना योजयीतेति वाक्यार्थः । द्विजलिङ्गिनः, यज्ञोपवीततिलका-
दिब्राह्मणचिह्नधारिणः । यथेष्टम्, अपराधमपेक्ष्य राज्ञो यथा
इच्छा भवति शारीरे दण्डे, द्रव्यग्रहणरूपे वा दण्डे, तथा स्यात्,
स धर्म इत्यर्थः ।
इति राज्ञो निषिद्धा धर्माः ।
अथाभिषिक्तस्य राज्ञो दिनकृत्यम् ।
विष्णुधर्मोत्तरे—
राम उवाच ।
अजस्रं कर्म मे ब्रूहि राज्ञो राजीवलोचन ।
यच्च कार्यं नरेन्द्राणां तथा च प्रतिवासरम् ॥
२०
१५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
द्विमुहूर्त्तावशेषायां रात्रौ निद्रां त्यजेद् बुधः ।
वेणुवीणामृदङ्गानां पटहानां च निस्वनैः ॥
वन्दिनां निस्वनैश्चैव तथा मङ्गलवादिनाम् । इति ।
तथा च शङ्खलिखितौ-
राज्ञः शङ्खपटहतूर्येण प्रस्वापोत्थानम् । इति ।
तथा याज्ञवल्क्यः-
संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्त्तव्यतां तथा ॥
प्रेषयेत ततश्चारान् स्वेष्वन्येषु च सादरम् । इति ।
तूर्यघोषेण, वेणुवीणामृदङ्गादिशब्देन । संविशेत्, स्वापार्थं
गृहे प्रविशेत् । तथैव ब्राह्मे मुहूर्ते उत्थाय श्रुतिस्मृतिवचांसि
तदर्थावगमोपायांश्च सर्वकार्याणि च चिन्तयेत् । चारान्, वणि-
ग्वैद्यपरिव्राजकबौद्धदिगम्बरादिरूपधारिणो निगूढान् परचेष्टा-
वेदिनः । स्वेषु, स्वसामन्तादिषु । परेषु, मित्रादिमहीपतिषु ।
प्रेषयेत, तच्चिकीर्षितज्ञानाय ।
वृद्धवासिष्ठोऽपि-
त्यक्तनिद्रोदयात्पूर्वं चिन्तयेदात्मनो हितम् ।
गीततूर्यरवैः सार्द्धं निजेच्छातो नृपोत्तमः ॥
त्यक्तनिद्र उदयादिति वक्तव्ये छान्दसः सन्धिः ।
विष्णुधर्मोत्तरे-
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि ।
विज्ञायन्ते न ये लोके तदीया इति केन चित् ॥
निशि, रात्रिशेषे ।
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।