सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २४७ )
भाषा
और उस राजा न प्रसन्न चित्त से अपरिमित सुवर्ण के ढेरो का दान
महा भाग्यशाली लोग कष्ट आन पर भी दानानुष्ठान से विमुख नही हैं
प्रविश्य कण्ठदध्नेऽथ सरित्तोये जगाम सः।
कल्लोलतूर्यनिर्घोषै—श्चन्द्रचूडामणेः पुरीम् ॥६८
अन्वय.
अथ सः कण्ठदध्ने सरित्तोये प्रविश्य कल्लोलतूर्यनिर्घोषैः चन्द्रचूडाम[णेः]
पुरीं जगाम ।
व्याख्या
अथानन्तरं स राजा कण्ठदध्ने गलप्रमाणे कण्ठदघ्नमित्यत्र कण्ठ प्रमाणं
मस्येति विग्रहे 'प्रमाणे द्वयसज्दघ्नञ्मात्रच' इति सूत्रेण दघ्नच् प्रत्यय
सरितस्तुङ्गभद्रानद्यास्तोये जले प्रविश्य गत्वा कल्लोला उल्लोला 'महत्सूल्लोल-
कल्लोलौ' इत्यमरः । एव तूर्याणि वाद्यविशेषा "तुरही" इति भाषायां
प्रसिद्धा । तेषां निर्घोषैश्शब्दैस्सह चन्द्र एव हिमांशुरेव 'हिमांशुश्चन्द्रमाश्चन्द्र
इन्दु कुमुदबान्धव' इत्यमरः । चूडामणिशिरोभूषणं यस्य तस्य शिवस्य पुरीं
कैलास जगाम प्राप्तवान् ।
भाषा
अनन्तर तुङ्ग भद्रा नदी म गल तक पानी में खड़े होकर लहरा के ऊंचे २
शब्द रूपी तुरही की ध्वनि के साथ वह राजा शवर की कैलास नगरी में
चला गया ।
पद्ययुग्मेन राजकुमारभावस्थां वर्णयति कविः—
इत्युक्त्या गिरते तत्र क्षुतनेत्राम्बुदुर्द्दिनः ।
हतासिधेनुः पार्श्वस्थैः साक्रन्दगलकन्दलः ॥६६॥
स्वभागादार्द्रभावेन पितृस्नेहाच्च तादृशः ।
तथा रुरोद वपुषा भृशंलुलुठितेन सः ॥७०॥

( २४८ )
अन्वयः
इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्द्दिनः पार्श्वस्थैः हृतासिधेनुः
सान्द्रन्दद्गलकन्दलः सः स्वभावात् आर्द्रभावेन तादृशः पितृस्नेहात् च
भूपृष्ठलुठितेन वपुषा तथा रुरोद ।
व्याख्या
इति पूर्वोक्तमुक्त्वा कथयित्वा तत्र दूते विरते विश्राममुपगतवति सति कृतं
सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दुर्द्दिनं मेघावृतदिवसो येन सः 'मेघच्छन्नेऽह्नि
दुर्द्दिनम्' इत्यमरः । अश्रुवृष्टिं कुर्वन्नित्यर्थः । पार्श्वे तिष्ठन्तीतो पार्श्वस्थास्तैः
समीपचरैर्जनै हृता गृहीता असिधेनुश्छुरिका यस्य स 'छुरिका चासिधेनुका'
इत्यमरः । आक्रन्देनाऽर्त्तनादेन सहितो गल एव कन्दलो नालो यस्य सः
राजकुमारः स्वभावात्प्रकृत्यैवाऽऽर्द्रभावेन स्निग्धभावेन 'भावः सत्तास्वभावा-
भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृक्स्तथाभूतादनिर्वचनीयात्पितृस्नेहाच्च
पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुषा
शरीरेण 'गात्रं वपु संहननं शरीरं वर्त्म विग्रहः' इत्यमरः । तथावं वक्ष्यमाण-
प्रकारेण रुरोद रोदनं कृतवान् ।
भाषा
इस प्रकार कह कर दूत के चुप होने पर अपने आंखो के आंसुओ से मेघ के
ऐसी वृष्टि करने वाला, पास के लोगो ने कही दुख से वह अपना प्राणान्त न
करले इस भय से जिसकी छुरी छीन ली है ऐसा फुक्काफाड कर रोने वाला,
वह राजकुमार, स्वभाव से ही कोमल हृदय होने से तथा वैसे पितृस्नेह से
जमीन पर लोट २ कर इस प्रकार विलाप करने लगा ।
एवंविधदुराचार—गृहीतनियमं यमम् ।
मन्यते स्म यथा वंशे तिग्मांशुराप कण्टकम् ।।७१।।
यथा तिग्मांशुः अपि एवंविधदुराचारगृहीतनियमं यमं वंशे कण्टकं
मन्यते स्म ।
व्याख्या
स तथा रुरोवेति पूर्वपद्योक्तेन तथाशब्देन सहाऽन्वस्थो यथा शब्दः साकाङ्क्षः।
स तथा रुरोद यथा येन कारणेन तिग्मांशुः सूर्यो यमपिताऽप्येवंविधदुराचाराय

तस्य पितृमारणरूपाय्याचाराय धर्मपरायणानां मृत्यव इत्यर्थः । गृहीतः स्वीकृतो
नियमो निश्चयो येन तं यमं कृतान्तं वंशे सूर्यवंशे कण्टकं कुलकलङ्कं मन्यतेस्म
ज्ञातवान् ।
भाषा
राजकुमार विक्रमाङ्कदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसके
पिता के सदृश धर्मात्माओं को जान से मार डालने का दुराचार का काम
करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे ।
एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः ।
दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ॥७२॥
अन्वयः
यथा एतद्दुःखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि
आत्मानं मन्दभाग्यम् अमन्यत ।
व्याख्या
यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तथा शब्देनान्वेति । स तथा
रुरोद यथा येन कारणेनेताद्दुःखान्याहवमल्लमृत्युजन्यराजकुमारविलापादि-
दुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहुः पुनःपुनः
स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलापदिवसोऽप्यात्मानं स्वं मन्दभाग्यं
हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरित्थं महद्दुःखं नानु-
भूतमिति चिन्तयति स्मेति भावः ।
भाषा
राजकुमार विक्रमाङ्कदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ
अन्य दिवसों के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए
अपने को हतभाग्य समझने लगा ।
“विशेषकम्” त्रिभिः पद्यैरथ वाक्यसमाप्तिर्भवति तद्विशेषकं
संदानितकं तिलकं वा ।
अथ कालकलाः स्थित्वा कियतीरप्यसौ तथा ।
अचिन्तयदविश्रान्त-बाष्पसंतानदुर्दिनः ॥७३॥

( २५० )
अन्वयः
अथ अविश्रान्तबाष्पसन्तानदुर्दिनः असौ कियतीः अपि कालकलाः
तथा स्थित्वा अचिन्तयत् ।
व्याख्या
अथ पितृमरणदुर्घटनावश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्पसंतानस्याऽ-
श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि
कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ-
चिन्तयत् चिन्तयामास ।
भाषा
बाद में लगातार आंसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल
तक उसी दशा में रहने के बाद विचार किया ।
तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् ।
प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥
अन्वयः
हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात्
, अस्थिपञ्जरशेषतां प्रयाहि ।
व्याख्या
हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थितिं
सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू-
भारधारणेन भूवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष ।
नागराज ! निष्पेषाद्वाशोऽभावादूभूभारस्याऽधिक्यात्तस्य धारणेन तवाऽङ्गाना-
मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर-
शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसांशपेणाऽस्थिमात्रावशिष्टस्वरूपं
प्रयाहि प्राप्नुहि ।
भाषा
हे आदिकूर्म ! हे विष्णु के अवतार रूप । दुर्भाग्य से तुम को अब
चैन से रहने को नहीं मिल सकता । क्योंकि राजा आहवमल्लदेव के

( २५१ )
रहने से पृथ्वी का बोझ कम होकर, तुम्हारा भूभार कम होने से तुम्हें जो
मिलता था यह अब उस राजा के मर जाने से तुम्हें प्राप्त न हो सकेगा
शेष ! हे नागराज ! राजा आहवमल्लदेव के मर जाने से पृथ्वी का
अधिक होकर उससे पीसे जाने के कष्ट से तुम्हारा मांस सूख कर हड्डिय
अवशिष्ट रह जाएंगी ।
दिग्गजास्त्यजत स्वैर-क्रीडाविहरखादरम् ।
संभूय भूयः सर्वेऽपि धारयन्तु धरामिमाम् ॥७५॥
अन्वयः
हे दिग्गजाः स्वैरक्रीडाविहरखादरं त्यजत सर्वे अपि भूयः संभूय
इमां धरां धारयन्तु ।
व्याख्या
हे दिग्गजाः ! हे दिक्कुञ्जराः ! स्वैरं स्वच्छन्दं यथास्यात्तथा यत्क्रीडासु
विहरणं विहारार्थं संचलनं तस्मिन्नादरं स्नेहं त्यजत मुञ्चत । सर्वेऽपि भवन्त-
स्सकला भूयः पुनरपि शत उत्पत्तिकालात्प्रागिव संभूय मिलित्वेमां धरां पृथ्वीं
धारयन्तु वहन्तु । इदानीं युष्माकं पृथ्वीभारवहनकर्मणि सहायको राजाऽऽहव-
मल्लदेवो भुवं परित्यज्य परलोकं गत इति भावः ।
भाषा
हे दिग्गजो ! राजा आहवमल्लदेव के रहने से पृथ्वी स्थिर थी इसलिये
तुम लोग आनन्द से स्वच्छन्द क्रीडा में घूमते थे । किन्तु अब राजा आहव-
मल्लदेव पृथ्वी छोड़ कर परलोक को सिधार गये हैं, इसलिये अपना स्वच्छन्द
क्रीड़ा प्रेम छोड़ो और सब मिलकर इस पृथ्वी को सम्हालो ।
बाहुराहवमल्लस्य सुवर्णस्तम्भविभ्रमः ।
पुरन्दरधुरां धर्तुं धात्रा व्यवहितः कृतः ॥७६॥
अन्वयः
धात्रा सुवर्णस्तम्भविभ्रमः आहवमल्लस्य बाहुः पुरन्दरधुरां धर्तुं व्यव-
हितः कृतः ।

( २५२ )
व्याख्या
धाता विरञ्चिना 'धाताब्जयोनिर्द्रुहिणो विरञ्चि कमलासन' इत्यमरः।
सुवर्णस्यस्तम्भ सुवर्णस्तम्भ काञ्चनस्तम्भस्तस्य विश्रमो विलासो भ्रान्तिर्वा
यस्मिन् स काञ्चनस्तम्भसदृश आहवमल्लस्याऽऽहवमल्लदेवनृपस्य बाहुर्भुज
पुरन्दरस्य पुरुहूतस्य 'वृद्धश्रवाःशुनासीरः पुरुहूत पुरन्दर' इत्यमरः। धुरा
राज्यकार्यभार स्वर्गराज्यकार्यभारमित्यर्थः। धर्तुं वोढु व्यवहित कृतोऽस्मा-
द्भूलोकान्महददूरे स्थापितः। नृपस्य पुण्यातिशयेन देवत्वप्राप्त्या पुरन्दरस्य
राज्यकार्ये साहाय्यप्रदानार्थं ब्रह्मणा स व्यवहित इति भावः। काव्यलिङ्गालङ्कारः।
भाषा
ब्रह्मान्, सोने के खम्भ की शोभा वाले राजा आहवमल्लदेव के बाहु को
स्वर्ग के राज्य कार्य में इन्द्र की सहायता करने के लिय इस पृथ्वी पर से दूर
हटा दिया है। अर्थात राजा को इस पृथ्वी पर से स्वर्ग में हटा दिया है।
निजासु राजधानीषु स्थितिं दधतु पार्थिवाः।
तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥७७॥
अन्वयः
पार्थिवाः निजासु राजधानीषु स्थितिं दधतु ! कुतः पुनः वीरसिंहासने
तादृशः उत्साहः।
व्याख्या
पृथिव्या ईश्वरा पार्थिवा नृपा निजासु स्वीयासु राजधानीषु प्रधाननगरेषु
स्थिति सुखेन निवास दधतु कुर्वन्तु । कुत कस्माद्धेतो पुन भूयो वीराणा
सिंहासन सङ्ग्रामभूमिस्तस्मिन् तादृश पूर्वानुभूत उत्साहश्चित्तस्योन्नति । सम्प्रति
नृपस्याऽऽहवमल्लदेवस्य युद्धप्रियस्याऽभावात्सर्वै राजानो युद्धभय त्यक्त्वा सुखेन
निवसन्त्विति भाव ।
भाषा
राजा लोग अब सुख से अपनी अपनी राजधानियो में रहें। आहवमल्लदेव
राजा के न रहन से अब युद्ध भूमियो में वैसा उत्साह कहाँ। अर्थात् युद्धप्रिय
राजा आहवमल्लदेव के न रहने से युद्ध का भय छोडकर सब राजा निश्चिन्त
हो कर अपनी अपनी राजधानी में सुख से रहें।

( २५३ )
तद्बाहुदण्डविश्लेषे किं पौरुष करिष्यसि ।
प्रतिपालकवैधुर्यात् प्रताप परितप्स्यसे ॥७८॥
अन्वयः
हे पौरुष ! तद्बाहुदण्डविश्लेषे किं करिष्यसि । हे प्रताप
प्रतिपालकवैधुर्यात् परितप्स्यसे ।
व्याख्या
हे पौरुष ! हे पुरुषार्थ ! "पुंभावे तत्क्रियायां च पौरुषम्' इत्यमरः ।
तस्याऽऽहवमल्लदेवनृपस्य बाहुदण्डो भुजदण्डस्तस्य विश्लेषे वियोगे किं करिष्यसि
न किमपीत्यर्थं । तद्बाहुदण्डाभावे पुरुषार्थस्य सत्त्वं नास्तीति भावः । हे
प्रताप ! हे तेजः । 'स प्रतापः प्रभावश्च यत्तेजः कोपदण्डजम्' इत्यमरः ।
प्रतिपालकस्य संरक्षकस्याऽऽश्रयदातुस्तदित्यर्थः । राज्ञ आहवमल्लदेवस्य वैधुर्या-
द्राहित्यात् परितप्स्यसे दुःखजन्यसंतापं प्राप्तोऽसि । आहवमल्लदेवे नृपे गते सति
पौरुषप्रतापयोराश्रयाभावात्परिताप इति भावः । अत्र विनोक्तिनामाऽलङ्कारः ।
भाषा
हे पुरुषार्थ ! आहवल्लदेव राजा के वियोग में अब तू क्या करेगा । हे
प्रताप ! आश्रय के अभाव में तू दुःखी हो रहा है। अर्थात् आहवमल्लदेव
राजा के न रहने से पौरुष और प्रताप दोनों ही निराधार हो गये ।
पद्मे पद्माकरानैव पुनः सद्मत्वमानय ।
अयं त्वया पतिभ्रंश-संतापोऽन्यत्र दुःसहः ॥७६॥
अन्वयः
हे पद्मे ! पुनः पद्माकरान् एव सद्मत्वम् आनय । त्वया अयं पति-
भ्रंश-संतापः अन्यत्र दुःसहः ।
व्याख्या
हे पद्मे ! हे लक्ष्मि ! 'लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया'
इत्यमरः । पुन भूयोऽपि पद्मानां कमलानामाकरास्तत्समूहास्तानेव सद्मत्वं गृहत्व
नवासस्थानत्वमानय प्रापय । त्वया भवत्याऽयमनुभूयमान पत्युर्नृपस्य भ्रंशो

( २५४ )
विनाशस्तस्य सन्तापो परयभावजन्यपरितापोज्यत्र कमलेभ्योऽन्यस्थाने दुस्सहो
दुःखेन सोढुं शक्यः । कमलानां संयोग एव विरहावसरे वियोगाग्निसन्तापं निरस्य
शरीरे शैत्यमापादयतीत्यतः पुनस्त्वया पूर्वनिवासस्थानं कमलमेवाऽऽश्रयणीयमिति
भावः । अत्रोत्तरार्धेन पूर्वोक्तकमलसमाश्रयसमर्थनादर्थान्तरन्यासः ।
भाषा
हे लक्ष्मी ! अब कमलो को ही फिर से अपना निवासस्थान बना !
स्वामी के नाश का यह दुःख कमलों के अतिरिक्त अन्य स्थान में रह कर सहन
करना अत्यन्त कठिन है । अर्थात् पति विरह जनित सन्ताप को शान्त करने
के लिये कमल जनित शैत्य ही लाभदायक हो सकता है ।
श्लाघ्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः ।
अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥८०॥
अन्वयः
भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाघ्यम् । अथवा मृत्पिण्डस्य
ईदृशं स्नेहपाण्डित्यं कुतः (सम्भवति) ।
व्याख्या
भुवः पृथिव्याः पतिविनाशे शेषस्याऽनन्तसर्पराजस्य 'शेषोऽनन्तो वासुकिस्तु'
इत्यमरः । फणानां स्फटानां 'स्फटायां तु फणा द्वयोः' इत्यमरः । चक्रं समूह
एव विटङ्कमुच्चशिखरं 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः ।
तस्मात्पतनं पतनेन मरणं श्लाघ्यं वरम् । अथवा पक्षान्तरे मृत्पिण्डस्य मृत्तिका-
शरीरस्य 'पिण्डो बोले बले सान्द्रे देहागारंकदेशयोः । देहमात्रे निवापे च गोल-
सिल्हकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचार-
प्राचुर्यं कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः ।
भाषा
पृथ्वी को तो पृथ्वी पति के मर जाने पर शेष राज अनन्त के फनों के समूह
रूपी उच्चशिखर से गिर कर मर जाना ही उचित है । परन्तु मिट्टी का शरीर
रखने वाली पृथ्वी में इस प्रकार का प्रेम या सद्विचार कैसे सम्भव है । अर्थात्
अचेतन पृथ्वी में इस प्रकार का उच्च प्रेमभाव उत्पन्न होना ही असम्भव है ।

( २५५ )
अपूर्वः कोपि दुर्मेधाः शङ्के वेधाः समुत्थितः ।
पुराणः क्लेशनिष्पन्नां स्वकृतिं नाशयेत्कथम् ॥८१॥
अन्वयः
कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पु
(वेधाः) क्लेशनिष्पन्नां स्वकृतिं कथं नाशयेत् ।
व्याख्या
कोऽपि कश्चिन्न पूर्वं प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मे
बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधि
इत्यमर । समुत्थित संभूत (इति) शङ्के तर्कयामि । पुराण प्राचीनौ वेध
ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्ना सम्पादिता स्वकृति राजाऽऽहवमल्लदेवोत्पाद
नकार्यं कथं नाशयेत् समुन्मूलयेत् । अत्रोत्प्रेक्षालङ्कार ।
भाषा
मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यो कि
यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी
अपनी वस्तु को कैसे नष्ट करता ।
अहो शौर्यमहो धैर्यं चित्रं गाम्भीर्यविभ्रमाः ।
यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥
अन्वयः
शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् ! यत् क्वचित्
एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सत्यम् ।
व्याख्या
शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्वमहो आश्चर्यकारि । धैर्यं नृपाहवमल्लदेव-
निष्ठं धीरत्वमहो अद्भुतम् । गाम्भीर्यस्य मर्यादाया विभ्रमा विलासाश्चित्रमा-
श्चर्यावलम्बिन । यत् तदिति क्वचिदित्यादिवाक्यपरामर्शकम् । क्वचित्
कस्मिंश्चिदेकत्रैकस्मिन् स्थाने आधारे वा पुनस्ते पूर्वोक्तास्सर्वे गुणा शौर्यादयो
दुर्लभा दुष्प्रापास्तत् सत्यमवितथम् । आहवमल्लदेवे राज्ञि पञ्चत्व गते सति

( २५६ )
समेषां पूर्वोक्तानां गुणानां समवायः पुनः कस्मिंश्चिदेकस्मिन् मनुष्ये दुर्लभ
इति सत्यमिति भावः ।
भाषा
अरे वह शौर्य ! अरे वह धैर्य ! अरे वे मर्यादा के कार्य ! यह सत्य है कि
ये सब गुण एकही मनुष्य में फिर से नही मिल सकते जो आहवमल्ल देव में थे ।
कुण्ठी कृतारिशस्त्रस्य तस्य वज्रोपमाकृतेः ।
भाग्यानामेव मे दोषा-देष जातः परिक्षयः ॥८३॥
अन्वयः
मे भाग्यानाम् एव दोषात् कुण्ठीकृतारिशस्त्रस्य वज्रोपमाकृतेः तस्य एषः
परिक्षयः जातः ।
व्याख्या
मे मम भाग्यानामेवदुर्भाग्यानामेवदोषादपराधात् कुण्ठीकृतानि व्यर्थीकृतान्य-
रीणां शत्रूणां शस्त्राणि प्रहरणानि येन स तस्य व्यर्थीकृतशत्रुप्रहरणस्य वज्रस्य
कुलिशस्य 'ह्रादिनीवज्रमस्त्रीस्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शंबो
दम्भोलिरशनिर्द्वयोः' इत्यमरः । उपमा सादृश्यं यस्यां सा वज्रोपमाकृतिकठि-
नाऽऽकृतिर्देहो यस्य स तस्य वज्रोपमाकृतेर्वज्रवदतिकठोरशरीरस्य तस्याऽऽहवम-
ल्लदेवस्य एष उपस्थितः परिक्षयो विनाशो जातः ।
भाषा
मेरे ही दुर्भाग्य से शत्रुओं के शस्त्रों को कुण्ठित कर देने वाले और वज्र
के समान अति कठोर शरीर वाले मेरे पिता आहवमल्लदेव राजा की मृत्यु
हुई है ।
पाठान्तरम् । तदेव पूर्वोक्तश्लोकार्थं प्रकारान्तरेण वर्णयति
कविः ।
मद्भाग्यदोषादेवैष जाने जातः परिक्षयः ।
अन्वयः
एषः परिक्षयः मद्भाग्यदोषात् एव जातः (इति) जाने ।

( २५८ )
व्याख्या
प्रधावन्त्योऽतितीव्रवेगेनाऽऽपतन्त्यः समुद्रपक्षे वहन्त्यः सम्मुखा अभिमुखा
अनेका बह्व्यो वाहिन्यः सेना. पक्षे नद्यः 'वाहिनी नर्तकीदूत्यो स्रवन्त्यामपि
वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समर्थस्तथाविधस्तादृशः
सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः 'सत्त्वं द्रव्ये
गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावान्यभावे बले प्राणेषु जन्तुषु' इति
हेमचन्द्रः । निधिरम्भोधिरेव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं
समागच्छन्तीनां नदीनां गाहने समर्थः, जलजन्तूनां निधिसमुद्र इव तीव्रवेगेन
सम्मुखं समागच्छन्तीनां सेनाना विलोडने समर्थ बलवान् सत्त्वगुणयुक्तो
राजाऽऽहवमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमालङ्कारः।
भाषा
वेग से सम्मुख आने वाली नदियो को अपने में मिला लेने में समर्थ,
जलजन्तुओ के निधि समुद्र के समान, वेग से सम्मुख आने वाली सेनाओं को
मथ डालने में समर्थ, सत्यगुण या बल का निधि राजा आहवमल्लदेव के ऐसा
पुरुष दुर्लभ है ।
आर्येण सौकुमार्यैक-भाजनेन हहा कथम् ।
अयं विषादवज्राग्निरसहात मया विना ॥८६॥
अन्वयः
सौकुमार्यैकभाजनेन आर्येण अयं विषादवज्राग्निः मया विना कथम्
असहात, हहा ।
व्याख्या
सौकुमार्यं कोमलता मार्दवं वा तस्यैकं भाजनं पात्रं तेन सोकुमार्यैकभाजनेन
स्नेहार्द्रपरममृदुस्वभावेनाऽऽर्येण पूज्येन ज्येष्ठभ्रात्रा सोमदेवेनाऽयमनुभूयमानो
विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषहदुःखदहनो मया विना
ममानुपस्थितौ कथं केन प्रकारेणाऽसहात सोढः । हहा इति खेदे । अहमेव ज्येष्ठ-
भ्रातुरतिप्रियोऽस्मि । दुःखकाले चाऽतिप्रियवस्तुनिरीक्षणेन मानसे शान्तिस्स-
ञ्जायते, दु खसहनस्य क्षमताऽपि संपद्यते । ममानुपस्थितौ कथं मे भ्राता तद्दुःखं
सहने समर्थो जातः स्यादिति भावः ।

( २५९ )
भाषा

  • हाय ! अत्यन्त कोमल हृदय, मेरे बड़े भाई सोमदेव ने इस शो
    काग्नि को मेरे वहाँ न रहने पर कैसे सहन किया होगा। अर्थात् दु
    प्रियवस्तु के पास रहने से दुख का वेग कम हो जाता है। मैं उसका अ
    प्रिय हूँ। अतः मेरी अनुपस्थिति में उसने इस दुख को कैसे सहन किया होग
    साक्रन्दमिति चान्यच्च स संचिन्त्य पुनः पुनः।
    शनैर्विवेकदीपेन पंन्थानं प्रत्यपद्यत ॥८७॥
    अन्वयः
    सः इति अन्यत् च पुनः पुनः साक्रन्दं संचिन्त्य विवेकदीपेन शनैः
    पन्थानं प्रत्यपद्यत ।
    व्याख्या
    स विक्रमाङ्कदेव इति च पूर्वोक्तं विषयञ्चान्यञ्च किञ्चिन्मनोगतञ्च पुनः
    पुनर्भूयोभूयस्साक्रन्दं सविलापं यथास्यात्तथा संचिन्त्य विचार्य विवेक एव सदस-
    द्विचार एव दीपः प्रकाशकारकस्तेन सदसद्विचारप्रकाशेन शनैः क्रमशः पन्थानं
    मार्गं स्वस्थतां प्रत्यपद्यत प्राप्तवान्। विवेकप्रकाशेन शोकतमो निरस्य शनैः
    यथाकथञ्चित् स्वस्थो बभूवेति भावः।
    भाषा
    वह विक्रमाङ्कदेव पूर्वोक्त तथा अन्य भी कुछ मानसिक बातों का रोते
    हुए बार बार विचार कर धीरे धीरे विवेक रूपी दीप के प्रकाश से (शोक रूपी
    अन्धकार को दूर कर) रास्ते पर आया। अर्थात् कुछ स्वस्थ हुआ।
    यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् ।
    अग्रजालोकनोत्कण्ठा-प्रेरितः सोऽचलत्पुरः ॥८८॥
    अन्वयः
    अथ सः संस्थितस्य पितुः क्रियां यथाविधि विधाय अग्रजालोकनो-
    त्कण्ठाप्रेरितः (सन्) पुरः अचलत्।

( : २६० :
व्याख्या
अथ किञ्चित्स्वास्थ्यप्राप्त्यनन्तरं स विक्रमाङ्कदेवः संस्थितस्य मृतस्य
'परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः' इत्यमर । पितुर्जन्मकस्य क्रिया तर्पणादि-
कविधिं शास्त्रविधानमनतिक्रम्य वर्तत इति यथाविधि शास्त्रमर्यादानुकूलं
विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठ्योत्कटेच्छया प्रेरितो
नियोजितस्तन् पुरोऽग्रे कल्याणपुरममार्गऽचलत् प्रतस्थे ।
भाषा
कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि
क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा
से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढा ।
कियद्भिरपि सोऽध्वानमुल्लङ्घ्य दिवसैस्ततः ।
निःशब्दसैन्यसंघात-सहितः प्राविशत्पुरीम् ॥८६॥
अन्वयः
ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अध्वानम्
उल्लङ्घ्य पुरीं प्राविशत् ।
व्याख्या
ततः कल्याणनगरं प्रति प्रस्थानानन्तरं निःशब्दाः (कु लेन) स्वनमकुर्वाणाः
सैन्याः सैनिकास्तेषां सघातस्सङ्घस्तेन सहितो युक्तः स विक्रमाङ्कदेवः
कियद्भिरपि कतिपयैरेव दिवसैर्दिनेरध्वानं पन्थानमुल्लङ्घ्य समतिक्रम्य पुरीं
कल्याणनगरं प्राविशत् प्रविष्टः ।
भाषा
इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहित, सेना समूह के
सहित कुछ ही दिनों में रास्ता पार कर वह कल्याणपुर में प्रविष्ट हुआ ।
सरोजिनीव हंसेन नयनेव नरेन्द्रता ।
कविना सुखगोष्ठीव चन्द्रेणेव विभावरी ॥६०॥

२६१ :)
लक्ष्मीरिव प्रदानेन कवित्वेनेव वाग्मिता ।
मेने तेनापवित्रेव पित्रा विरहिता पुरी ॥६१॥
अन्वयः
तेन पित्रा विरहिता पुरी, हंसेन विरहिता सरोजिनी इव, नयेन
विरहिता नरेन्द्रता इव, कविना विरहिता सुरसगोष्ठी इव, चन्द्रेण विरहिता
विभावरी इव, प्रदानेन विरहिता लक्ष्मीः इव, कवित्वेन विरहिता वाग्मिता
इव अपवित्रा मेने ।
व्याख्या
तेन विक्रमाङ्कदेवेन पित्राऽऽहवमल्लदेवेन विरहिता वियुक्ता पुरी कल्याणपुरी
हंसेन मरालेन विरहिता शून्या सरोजिनीव कमलिनीव, नयेन नीत्या विरहिता
विहीना नरेन्द्रतेव राज्यलक्ष्मीरिव राजकर्मवेत्यर्थः । कविना सहृदयेन पण्डितेन
विरहिता रिक्ता सुखस्याऽऽनन्दस्य रसस्य लक्षणया तदनुभवस्य तदनुभवकर्तुर्गोष्ठीव
सभेव, चन्द्रेणेन्दुना विरहिता हीना विभावरीव रात्रिरिव कवित्वेन कविकर्म-
णाऽलौकिकचमत्काराधायककाव्येनेत्यर्थः । विरहिता विना वाग्मितेव वाक्प्रावी-
ण्यमिवाऽपवित्राऽमेध्याऽरमणीयेत्यर्थः । मेने बुद्धा । मालोपमा-विनोक्त्यो-
रङ्गाङ्गितयोः सङ्करः ।
भाषा
उसने पिता से रहित उस कल्याणपुर को, हंस से रहित कमलिनी, नीति
से रहित राज्यकार्य, कवि से रहित रस भरी बातों से रसास्वाद देने वाली
सभा, चन्द्रमा से रहित रात, दान से रहित सम्पत्ति और उत्तम काव्य रचना
से रहित वाक्पटुता के समान, अपवित्र अर्थात् अरमणीय समझा ।
युगुलकम्—युग्मकम् १ ।
अग्रे समागतेनाथ मानितः सोऽग्रजन्मना ।
सह तेनैव सक्लेशं विवेश नृपमन्दिरम् ॥६२॥
अन्वयः
अथ अग्रे समागतेन अग्रजन्मना मानितः सः तेन एव सह नृपमन्दिरं
तं विवेश ।
१ युग्मकलक्षण ४२ श्लोकटिप्पण्या द्रष्टव्यम् ।

( २६२ )
व्याख्या
अथ पुरीदर्शनानन्तरमग्रे पुरः समागतेन सभाजनार्थं समुपस्थितेनाऽग्रजन्मना
ज्येष्ठभ्रात्रा सोमदेवेन मानितस्समादृतस्स विक्रमाङ्कदेवस्तेनैव सोमदेवेनैव सह
नृपमन्दिरं राजसदनं क्लेशेन दुःखेन सहितं सबलेशं सदुःखं शोकमनुभवन्नित्यर्थः ।
विवेश प्रविष्टः ।
भाषा
कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित
विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुख से गया ।
अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः ।
बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥
अन्वयः
तत्र तयोः अन्योन्यकण्ठाश्लेषेण पीडितस्य इव बाष्पाम्भसः अति-
मांसलाः धाराः चिरं निर्ययुः ।
व्याख्या
तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा-
श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्पीडितस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ-
श्रुजलं तस्योऽतिमांसला अतिबलयत्य अतिविशाला इत्यर्थः । 'बल्यान्मां-
सलोत्सलः' इत्यमरः । धाराः प्रवाहाश्चिर बहुकालपर्यन्त निर्ययुर्निस्स्रुताः ।
तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।
भाषा
राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानो दबने से आंसुओं
की विशाल धाराएँ चिरकाल तक निकलती रहीं ।
क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः ।
केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥
अन्वयः
— क्रमात् अदुःखाभ्यां ताभ्यां कैतवबाह्याभिः अन्योन्यस्नेहवृत्तिभिः के
अपि वासराः अत्यवाह्यन्त ।

( २६३ )
व्याख्या
क्रमात् क्रमशॊ नास्ति दुःखं ययोस्तौ ताभ्यां दुःखरहिताभ्यां ताभ्यां
सोमदेवविक्रमाङ्कदेवाभ्यां कैतवेन कपटेन 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे'
इत्यमरः । बाह्या बहिर्भूतास्ताभिर्निष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः
प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिताः ।
भाषा
धीरे धीरे दुःख से मुक्त दोनों भाइयों ने परस्पर कपट रहित, प्रेम भरे
व्यवहारों में कुछ दिन बिताये ।
ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः ।
महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥
अन्वयः
सः गुणैः गरिष्ठः अपि ज्येष्ठं पितुः तुल्यम् अमंस्त । महात्मनाम्
अमार्गेण प्रवृत्तयः न भवन्ति ।
व्याख्या
स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि
श्रेष्ठोऽपीतिभावः । ज्येष्ठमग्रजं सोमदेवं पितुराहवमल्लदेवस्य तुल्यं सम्मानेन
समानममंस्त विज्ञातवान् । यतो महात्मनां मनस्विनां महानुभावानाममार्गेणाऽ
नुचिताध्मना प्रवृत्तयोऽध्यवसाया न भवन्ति । 'ज्येष्ठो भ्राता पितुः सम' इति-
स्मरणात् । अत्रार्थान्तरन्यासालङ्कारः ।
भाषा
शौर्यादिगुणों में श्रेष्ठ होने पर भी विक्रमाङ्कदेव अपने बड़े भाई सोमदेव
को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बड़े लोगों के
व्यवहार अनुचित तरीके से नहीं होते ।
स दिग्बलममालोच्य वस्तुजातमुपार्जितम् ।
तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥६६॥

( २६४ )
अन्वयः
सः दिग्वलयम् आलोढ्य उपार्जितं वस्तुजातं तस्मै समर्पयामास।
यशस्विनां लोभः न अस्ति।
व्याख्या
स विक्रमाङ्कदेवो दिग्वलयं दिङ्मण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु-
जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ। यशस्विनां कीर्तिमत्तां
लोभस्सम्पत्तिलोभो नास्ति न भवति। अत्रार्थान्तरन्यासालङ्कारः।
भाषा
विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव
को दे दीं। यशस्वी लोगों में लोभ नहीं होता।
जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः।
एषा भगवती केन भज्यते भवितव्यता ॥६७॥
अन्वयः
ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः। एषा भगवती
भवितव्यता केन भज्यते।
व्याख्या
ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि-
श्चित्काले गते सतीत्यर्थः। सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्तो
जातो बभूव। एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण
भज्यते विनाश्यते दूरीक्रियते इत्यर्थः।
भाषा
इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया।
भगवती भवितव्यता को कौन टाल सकता है।
मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम्।
न विवेद परिक्षुब्धं यदशेषं यशोंऽशुकम् ॥६८॥

( २६५ )
अन्वयः
तस्य नरेन्द्रश्रीः मदिरा इव मदकारणम् अभूत् । यत् (सः) परि-
भ्रष्टम् अशेषं यशोंऽशुकं न विवेद ।
व्याख्या
तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक-
हेतुरभूत् । यद्यस्मात्कारणात् स सोमदेव परिभ्रष्ट गलितमशेषमखिल यशः
कीर्तिरेवांशुक वस्त्र न विवेद न ज्ञातवान् । यथा कश्चिन्मद्योन्मत्तो मदान्धत्वात्
स्वशरीरात् गलित वस्त्र न जानाति तथैवाऽय सोमदेवोऽविवेकित्वादखिल यशो
विनष्टमिति न जानाति स्मेति भाव ।
भाषा
सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण
हुई । इससे उसने पूर्णतया नष्ट होने हुए यश रूपी वस्त्र को नहीं जाना ।
अर्थात् जिस प्रकार किसी शराबी का शरीर पर का पूरा कपड़ा गिर जाता है
तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में
चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नहीं चला ।
बाधिर्यमिव मङ्गल्य-तूर्यध्वनिभिरागतः ।
ईषदप्येष नाश्रौषीद् वचनानि महात्मनाम् ॥४६॥
अन्वयः
एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् आगतः इव महात्मनां वचनानि
ईषद् अपि न अश्रौषीत् ।
व्याख्या
एष सोमदेवो मङ्गलस्य माङ्गलिक तूर्यं वाद्यविशेष तस्य ध्वनिभिर्नादैर्बाधिर्यं
बधिरतामागत प्राप्त इव महात्मनां कुलवृद्धाना महानुभावानां वचनानि
सद्वाक्यान्येषदपि मनागपि नाश्रौषीत् नाशृणोत्कणितवान् । राजलक्ष्म्या मदोन्मत्तो
माङ्गलिकवाद्यविशेषनादेन बधिरतामिवाऽऽपन्न सोमदेव श्रोत्रेन्द्रियाभावात्
महानुभावै समुपदिष्टानि वाक्यानि नाशृणोदिति भाव । उत्प्रेक्षालङ्कारः ।

( २६६ )
भाषा
वह सोमदेव माङ्गलिक वाद्यविशेषो के शब्दो से मानो बहिरा होकर कुल-
वृद्ध महानुभावो के सदुपदेशो को बिलकुल नही सुनता था ।-
कुर्वन्नङ्गेषु वैक्लव्यमाविष्कृतमदज्वरः ।
स निनाय श्रियं राजा राजयक्ष्मेव संक्षयम् ॥१००॥
अन्वयः
आविष्कृतमदज्वरः सः राजा राजयक्ष्मा इव अङ्गेषु वैक्लव्यं कुर्वन् श्रियं
संक्षयं निनाय ।
व्याख्या
आविष्कृतः प्रकटीकृतो मदः ज्वर इव मदज्वरो येन स राजा नृपस्सोमदेवो
राजयक्ष्मेव क्षयरोग इवाऽङ्गेष्ववयवेषु विक्लवः स्वाङ्गाण्येव धारयितुमशक्तो
विह्वलस्तस्य भावो वैक्लव्यं विह्वलत्वं कुर्वन् राजपक्षेऽमात्याद्यङ्गेषु वैक्लव्यं
राज्ञ्क सम्बन्धराहित्यं वैमनस्यमित्यर्थः कुर्वन् सम्पादयन् श्रियं राजलक्ष्मीं,
राजयक्ष्मापक्षे शोभां संक्षयं विनाशं निनाय नयति स्म । यथा क्षयरोगः पूर्वं ज्वरं
समुत्पाद्य शोषिणोऽवयवेषु विक्लबता जनयित्वा तस्य शरीरशोभा नाशयति
तथैव मदाप्लुतः सोमदेवोऽमात्यादिराज्याङ्गेषु वैमनस्यरूप वैक्लव्यं जनयित्वा
राजलक्ष्मीं नाशयति स्मेति भावः । अत्रोपमालङ्कारः ।
भाषा
अभिमान के समान ज्वर को प्रकट करने वाले क्षयरोग के समान सोमदेव
राजा ने (राजयक्ष्मा के पक्ष में) शारीरिक अवयवो में विकलता उत्पन्न कर
(राजा के पक्ष में) अमात्य आदि राज्य के अङ्गो में वैमनस्य उत्पन्न कर, शोभा
को (पक्ष में) राजलक्ष्मी को नष्ट कर दिया । अर्थात् जिस प्रकार क्षय रोग
पहिले ज्वर प्रकट कर शरीर के अङ्ग प्रत्यङ्ग को विह्वल कर शरीर की शोभा को
नष्ट कर देता है उसी प्रकार राजा ने मद प्रकट कर मन्त्री आदि राज्य के
अङ्गो में वैमनस्य उत्पन्न कर राजलक्ष्मी को नष्ट कर दिया ।
अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा ।
जीवत्येव धवे तस्मिन् विधवेव व्यराजत ॥१०१॥

( २६७ )
अन्वयः
अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा तस्मिन् धवे जीवति एव विधवा
इव व्यराजत ।
व्याख्या
अपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास-
स्तत्समुन्नतिः प्रसाधनं वा यया सा वैराग्यं विरक्ततां दधती धारयन्ती धरा पृथ्वी
तस्मिन् सोमदेवे धवे पत्यौ जीवत्येव विद्यमानेऽपि विगतो भूतो धवः पतिर्यस्याः
सा विधवा सेवं मृतपतिकानार्यिवेव व्यराजत विभाति स्म। कर्णाटदेशरूप-
केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पृथ्वी सत्यपि कर्णाटदेशाधिपे
सोमदेवे विधवेव स्थितेति भावः । विधवेव केशप्रसाधनं न करोतीति दिक् ।
भाषा
अपने कर्णाट देश रूपी केशों का शृङ्गार न करने वाली अर्थात् सोमदेव के
पापाचरण से कर्णाटदेश की अवनति होने से, विरक्त पृथ्वी सोमदेवरूपी पति के
जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी । क्योंकि भारत-
वर्ष में पहिले काल में सधवा स्त्रियाँ ही केशों का शृङ्गार करती थीं ।
चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते ।
अभ्युक्षणमिवोदस्त-हस्तशीकरवारिभिः ॥१०२॥
अन्वयः
स्तम्बेरमाः तदारोहणदूषिते पृष्ठे उदस्तवस्तशीकरवारिभिः अभ्युक्षणम्
इव चक्रुः ।
व्याख्या
स्तम्बेरमा इभाः 'इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः' इत्यमरः । तस्य
पापस्य सोमदेवस्याऽरोहणेन तन्निषद्या गतेन दूषिते कलुषीकृते पृष्ठे, उदस्तान्तूर्ध्वं
क्षिप्तानि हस्तेन शुण्डादण्डेन शीकरवारीणि जलकणान्युदकानि 'शीकरोऽम्बुकणाः
स्मृताः इत्यमरः । तैरुदस्तहस्तशीकरवारिभिरभ्युक्षणं सिञ्चनमिव चक्रुः ।
अपवित्रस्थानं जलेनाभ्युक्ष्य पवित्रीक्रियते तथैव हस्तिनः पापसोमदेवस्थित्याऽ-
पवित्रे पृष्ठे शीकराणि प्रक्षिप्य तत्पवित्रीचक्रुरिति भावः । उत्प्रेक्षालङ्कारः ।