विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 272, कुल 493 में से
संदर्भ में पढ़ें( २५५ )
अपूर्वः कोपि दुर्मेधाः शङ्के वेधाः समुत्थितः ।
पुराणः क्लेशनिष्पन्नां स्वकृतिं नाशयेत्कथम् ॥८१॥
अन्वयः
कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पु
(वेधाः) क्लेशनिष्पन्नां स्वकृतिं कथं नाशयेत् ।
व्याख्या
कोऽपि कश्चिन्न पूर्वं प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मे
बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधि
इत्यमर । समुत्थित संभूत (इति) शङ्के तर्कयामि । पुराण प्राचीनौ वेध
ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्ना सम्पादिता स्वकृति राजाऽऽहवमल्लदेवोत्पाद
नकार्यं कथं नाशयेत् समुन्मूलयेत् । अत्रोत्प्रेक्षालङ्कार ।
भाषा
मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यो कि
यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी
अपनी वस्तु को कैसे नष्ट करता ।
अहो शौर्यमहो धैर्यं चित्रं गाम्भीर्यविभ्रमाः ।
यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥
अन्वयः
शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् ! यत् क्वचित्
एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सत्यम् ।
व्याख्या
शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्वमहो आश्चर्यकारि । धैर्यं नृपाहवमल्लदेव-
निष्ठं धीरत्वमहो अद्भुतम् । गाम्भीर्यस्य मर्यादाया विभ्रमा विलासाश्चित्रमा-
श्चर्यावलम्बिन । यत् तदिति क्वचिदित्यादिवाक्यपरामर्शकम् । क्वचित्
कस्मिंश्चिदेकत्रैकस्मिन् स्थाने आधारे वा पुनस्ते पूर्वोक्तास्सर्वे गुणा शौर्यादयो
दुर्लभा दुष्प्रापास्तत् सत्यमवितथम् । आहवमल्लदेवे राज्ञि पञ्चत्व गते सति