सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 278, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 278

( २६२ )
व्याख्या
अथ पुरीदर्शनानन्तरमग्रे पुरः समागतेन सभाजनार्थं समुपस्थितेनाऽग्रजन्मना
ज्येष्ठभ्रात्रा सोमदेवेन मानितस्समादृतस्स विक्रमाङ्कदेवस्तेनैव सोमदेवेनैव सह
नृपमन्दिरं राजसदनं क्लेशेन दुःखेन सहितं सबलेशं सदुःखं शोकमनुभवन्नित्यर्थः ।
विवेश प्रविष्टः ।
भाषा
कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित
विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुख से गया ।
अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः ।
बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥
अन्वयः
तत्र तयोः अन्योन्यकण्ठाश्लेषेण पीडितस्य इव बाष्पाम्भसः अति-
मांसलाः धाराः चिरं निर्ययुः ।
व्याख्या
तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा-
श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्पीडितस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ-
श्रुजलं तस्योऽतिमांसला अतिबलयत्य अतिविशाला इत्यर्थः । 'बल्यान्मां-
सलोत्सलः' इत्यमरः । धाराः प्रवाहाश्चिर बहुकालपर्यन्त निर्ययुर्निस्स्रुताः ।
तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।
भाषा
राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानो दबने से आंसुओं
की विशाल धाराएँ चिरकाल तक निकलती रहीं ।
क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः ।
केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥
अन्वयः
— क्रमात् अदुःखाभ्यां ताभ्यां कैतवबाह्याभिः अन्योन्यस्नेहवृत्तिभिः के
अपि वासराः अत्यवाह्यन्त ।