विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 267, कुल 493 में से
संदर्भ में पढ़ें( २५० )
अन्वयः
अथ अविश्रान्तबाष्पसन्तानदुर्दिनः असौ कियतीः अपि कालकलाः
तथा स्थित्वा अचिन्तयत् ।
व्याख्या
अथ पितृमरणदुर्घटनावश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्पसंतानस्याऽ-
श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि
कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ-
चिन्तयत् चिन्तयामास ।
भाषा
बाद में लगातार आंसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल
तक उसी दशा में रहने के बाद विचार किया ।
तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् ।
प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥
अन्वयः
हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात्
, अस्थिपञ्जरशेषतां प्रयाहि ।
व्याख्या
हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थितिं
सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू-
भारधारणेन भूवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष ।
नागराज ! निष्पेषाद्वाशोऽभावादूभूभारस्याऽधिक्यात्तस्य धारणेन तवाऽङ्गाना-
मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर-
शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसांशपेणाऽस्थिमात्रावशिष्टस्वरूपं
प्रयाहि प्राप्नुहि ।
भाषा
हे आदिकूर्म ! हे विष्णु के अवतार रूप । दुर्भाग्य से तुम को अब
चैन से रहने को नहीं मिल सकता । क्योंकि राजा आहवमल्लदेव के