विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १७७ )
व्याख्या
ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राप्त्या मलिनं
मुखं वदनं यस्य तं विधाय कृत्वाहं लक्ष्म्या प्रणय स्नेहस्तस्मिन्प्रमुख मुख प्रवण
परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकार्ये परायणो लग्नरतेन मया
विक्रमाङ्कदेवेनैष गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः ।
किमन्यदन्यायकार्यम् ? अन्यस्यान्यापकार्यस्याऽन्वेषणप्रयासो व्यर्थ एवेति भावः ।
भाषा
यदि मैं अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने
से उदास बनाकर स्वयं लक्ष्मी के प्रेम में तत्पर हो जाऊँ, तो अन्याय युक्त
कार्य करने में तत्पर, मैंने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया । और
क्या अन्याय का कार्य हो सकता है ?
तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् ।
सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातिव्रतमुद्वहामि ॥३६॥
अन्वयः
तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं
सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि ।
व्याख्या
तातः पिता चिरं चिराय 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः'
इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो
यौवराज्यं युवराजपदम आरोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं
यथास्यात्तथाऽऽक्रान्तानि समधिष्ठितानि दिगन्तराणि येन स आक्रान्तदिगन्त-
रस्सन् द्वयोस्तातस्य भ्रातुश्च पश्चातेः पत्तेः 'पदातिपत्तिपदगपादातिक पदाजयः'
इत्यमरः । व्रतं नियममुद्वहामि धारयामि । अहं तव ज्येष्ठभ्रातुश्च पादातको
भूत्वोभयोः सेवां करिष्यामीति भावः ।
भाषा
आप चिरकाल तक राज्य को शोभित करते रहें । बड़े भाई युवराज पद
पर आरूढ हो । मैं, बात की बात में समग्र दिशाओं में आक्रमण करता हुआ,
आप दोनों का प्यादा बनकर रहूँगा ।
१२
( १७८ )
रामस्य पित्रा भरतोऽभिषिक्तः क्रमं समुल्लङ्घ्य यदात्मराज्ये ।
तेनोत्थिता स्त्रीजित इत्यकीर्त्ति-रद्यापि तस्यास्ति दिगन्तरेषु ॥४०॥
अन्वयः
यत् रामस्य पित्रा आत्मराज्ये क्रमं समुल्लङ्घ्य भरतः अभिषिक्तः तेन
उत्थिता स्त्रीजितः इति तस्य अकीर्तिः अद्य अपि दिगन्तरेषु अस्ति ।
व्याख्या
यत् रामस्य पित्रा दशरथेनाऽऽत्मनः स्वस्य राज्ये क्रमं निय्मोचितपरिपाटी-
क्रमं समुल्लङ्घ्याऽतिक्रम्य भरतः स्वकनीयान्पुत्रोऽभिषिक्तोऽभिषेकतिलकाञ्चितः
कृतस्तेनाऽनूचितकार्येणोत्थिता समुत्पन्ना स्त्रिया भार्यया जितो वशीकृत इति
तस्याऽकीर्तिरपयशोऽद्याप्यद्यापि दिगन्तरेषु सर्वदिक्ष्वस्ति विद्यते ।
भाषा
चूंकि रामजी के पिता दशरथ राजा ने कुलपरम्परागत क्रम का उल्लङ्घन
कर बडे भाई के रहते हुए छोटे भाई, भरत का राज्याभिषेक किया, इस अनु-
चित कार्य से उत्पन्न, स्त्री का वशीभूत, ऐसी उसकी अपकीर्ति अभी भी सब
दिशाओ में अर्थात् सर्वत्र फैली हुई है ।
तदेष विश्राम्यतु कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः ।
न किं समालोचयति क्षितीन्दु-रायासशून्यं मम राज्यसौख्यम् ॥४१॥
अन्वयः
हे कुन्तलेन्द्र ! तत् एषः मयि यशोविरोधी पक्षपातः विश्राम्यतु ।
क्षितीन्दुः मम आयासशून्यं राज्यसौख्यं किं न समालोचयति ।
व्याख्या
हे कुन्तलेन्द्र ! कुन्तलदेशाधिप ! तत्तस्मात्कारणादेव मयि मत्सम्वन्धे
यशसः कीर्तेविरोधी प्रतिबन्धको दुष्कीर्तिजनकः पक्षपातो विश्राम्यतु विश्रान्तिमेतु,
न जायतामित्यर्थः । क्षितीन्दुः पृथिवीन्दुर्भवान् ममाऽयासेन परिश्रमेण शून्यं
रहितमनायासप्राप्तमित्यर्थः । राज्यसौख्यं किं न समालोचयति, कथं न पश्यति ।
अहं स्वनायासेनेव राज्यसौख्यमनुभवामीति भवान् जानात्येवेत्यर्थः ।
( १७९ )
भाषा
इसलिए, हे कुन्तलदेशाधिपति ! मेरे प्रति जो आपका अपकीर्तिजनक
पक्षपात है उसे छोड़ दीजिये । क्या राजा साहेब (आप) नहीं देखते हैं कि मैं
अनायास ही सब राज्य का सौख्य पा रहा हूँ ।
पुत्राद्वचः श्रोत्रपवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः ।
इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥
अन्वयः
नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात् । हि
पांसुलानां धुरि (स्थिता) इयं लक्ष्मीः केषां चेतः न कलुषीकरोति ।
व्याख्या
नरेन्द्रो राजाऽऽहवमल्लदेवः पुत्रात्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतं श्रोत्रपवित्रं
कर्णपूतं कर्णसुखदायकमित्यर्थः । वचो वाणीं श्रुत्वा निशम्य चमत्कारमाश्चर्य-
मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांसुलानां स्वैरि-
णीनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां
चेतो मनः 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । न कलुषी-
करोति न मलिनीकरोति । अपि तु लक्ष्मीः सर्वानैव सन्मार्गाच्च्यावयतीति भावः ।
भाषा
इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी
लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । क्यो कि स्वेच्छा-
चारिणियों में अग्रणी लक्ष्मी किनके चित्तो को मलिन नहीं करदेती । अर्थात्
लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषित हो जाता है ।
सस्नेहमङ्के विनिवेश्य चैन-मुवाच रोमाञ्चतरङ्गिताङ्गः ।
क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठे ॥४३॥
अन्वयः
रोमाञ्चतरङ्गिताङ्गः एनम् अङ्के सस्नेहं विनिवेश्य अस्य कण्ठे अत्युज्ज्व-
लदन्तकान्त्या प्रसादमुक्तावलिं क्षिपन् इव च उवाच ।
( १८० )
व्याख्या
रोमाञ्चेन रोमहर्षणेन तरङ्गितानि युक्तान्यङ्गानि यस्य स राजाऽऽहवमल्लदेव
एनं विक्रमाङ्कदेवमङ्क उत्सङ्गे सस्नेहं प्रेमोल्लासपूर्वकं यथास्यात्तथा विनिवेश्य
संस्थाप्याऽस्य पुत्रस्य कण्ठे गलभागेऽत्युज्ज्वलाऽतिविशदा दन्तानां 'रदना दन्ता
रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिच्छद्मना प्रसादरूपा या
मुक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निक्षिपन्निव चोवाच जगाद ।
भाषा
सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र
विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी
श्वेत दन्तकान्ति के मिष से मानो प्रेम से समर्पित मोतियों की माला को
पहनाते हुए, कहा ।
भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः ।
चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ॥४४॥
अन्वयः
असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत्
चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् ।
व्याख्या
असौ भगं विद्यते यस्मिन् स भगवान् 'भगं श्री काममाहात्म्यवीर्ययत्नार्क-
कीर्तिषु' इत्यमरः । 'भगं स्त्री योनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्य-
श्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' । इति मेदिनी । भवान्याः पार्वत्या दयितो
वल्लभः 'अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्' इत्यमरः । शिवो मे
प्रभूतैर्बहुलैर्भाग्यैर्भागधेयैः 'दैवं दिष्ट भागधेय भाग्यं स्त्री नियतिर्विधिः' इत्यमरः ।
सत्यं ध्रुवं प्रसन्नः प्रीतः । यदस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य
विभूषणमलङ्कारभूतं भवन्तं त्वां पुत्रं पुत्रत्वेन प्रसादीकृतवान् दत्तवान् ।
त्वत्सदृशं चालुक्यवंशालङ्कारभूतं पुत्रं प्रसादीकृत्य तेन शिवेन महाननुग्रहः
प्रदर्शित इति भावः । 'भवानीदयितः' इति चिन्त्यम् ।
( १८४ )
व्याख्या
यस्या राजलक्ष्म्या कृते भूमिं बिभ्रति पालयन्तीति भूमिभूतस्तेषां पृथिवी-
पालानां कुमारा पुत्रा राजकुमारों इत्यर्थ । केषां नयस्य नीतेर्विप्लवा विपर्या-
सास्तेषां नयविप्लवानाडनीतीनां पात्रं भाजनं न, न जाता । सा उन्मत्ता
मदान्धा ये मातङ्गा गजा 'गजेऽपि नागमातङ्गौ' इत्यमर । तेषां सहस्रं
तद्वद्गुर्वी भारवती स्पृहणीया च राज्यलक्ष्मीस्ते त्वदर्थं तृणवल्लघुरल्पीयसी
तुच्छा च । अन्येराजकुमारा राज्यलक्ष्मीं सर्वतोऽधिकां मन्यमानास्तदर्थमनीति-
माचरन्ति परन्तु त्वत्कृते सा तुच्छेति भाव ।
भाषा
जिस राज्यलक्ष्मी के लिये अन्य राजाओं के पुत्र गण क्या २ अनीति नही
कर डालते वह सहस्त्रो मदोन्मत्त हाथियों से भी भारी तथा बहुमूल्य राज्यलक्ष्मी
तुम्हारे लिये तृण के समान हलकी है अर्थात् तुच्छ है ।
लङ्कासमीपाम्बुधिनिर्गतेयं रक्तासवैस्तृप्यति राक्षसीव ।
लक्ष्मीरसौ त्वद्भुजदण्डबद्धा पात्रं भवित्री विनयव्रतस्य ॥४७॥
अन्वयः
इयं लङ्कासमीपाम्बुधिनिर्गता लक्ष्मीः राक्षसी इव रक्तासवैः तृप्यति ।
असौ त्वद्भुजदण्डबद्धा सती विनयव्रतस्य पात्रं भवित्री ।
व्याख्या
इय पूर्ववर्णनता लङ्काया रावणनगर्या समीपे योऽम्बुधिस्समुद्रस्तस्मान्निर्गता
जाता लक्ष्मी श्री राक्षसीव रक्तानि रुधिराण्यादासव्या मद्यानि तैस्तृप्यति
तृप्तिमाप्नोति । यथा लङ्काया जाता काचिद्राक्षसी रुधिरपानेनैव तृप्यति
तथैष लङ्कानिकटस्थसमुद्रजा लक्ष्मीरपि रुधिरप्रवाहेण तृप्यतीति भाव । असौ
लक्ष्मीरत्वद्भुजावेव दण्डौ तयोर्बद्धा त्वद्भुजयोर्दण्डेन शासनेन वा बद्धा सती
विनयव्रतस्य विनयरूताशिक्षाया पात्रमास्पदं भवित्री भविष्यति । लोके
दण्डेनैव दुर्विनीतानां शासनं भवति । दुर्विनीता विनीताइव संपाद्यन्ते, क्रूरत्वञ्च
विहन्यते, शुद्धभावश्च संस्थाप्यते इति भाव ।
( १८३ )
भाषा
लङ्का के पास के समुद्र में से उत्पन्न यह लक्ष्मी, राक्षसी के समान रक्त
रूपी सुरा से तृप्त होती है। परन्तु यह तुम्हारे भुजदण्ड से बँध जाने पर
विनम्र हो जाएगी। अर्थात् लङ्का में उत्पन्न राक्षसी जिस प्रकार रक्त पान
कर तृप्त होती है वैसे ही यह लङ्का के समीपवर्ती समुद्र से उत्पन्न होने वाली
लक्ष्मी रक्त प्रवाह् से तृप्त होती है। यह लक्ष्मी तुम्हारे भुजाओ के दण्ड
से दण्डित होकर या तुम्हारी भुजा के आश्रय मे आने पर भविष्य में नम्र
हो जाएगी।
जानामि मार्गं भवतोपदिष्टं ममापि चालुक्यकुले प्रसूतिः ।
किन्त्वत्र लक्ष्मीर्गुणबन्धहीने निसर्गलोला कथमेति दार्ढ्यम् ॥४८॥
अन्वयः
भवता उपदिष्टं मार्गं जानामि । (यतः)मम अपि चालुक्यकुले प्रसूतिः ।
किन्तु गुणबन्धहीने अत्र निसर्गलोला लक्ष्मीः कथं दार्ढ्यम् एति ।
व्याख्या
भवतोपदिष्टं कथितं मार्गं नयवर्त्म जानामि वेद्मि । यतो ममापि चालु-
क्यवंशे नीतिमार्गावलम्बिनि चालुक्यनृपाणां कुले प्रसूतिरुत्पत्तिः । अहमपि
त्वत्सदृशो नीतिमार्गकुशले चालुक्यवंशे जात इति त्वदुक्तं सर्वं नयवर्त्म
जानामीतिभावः । किन्तु परन्तु गुणानां शौर्यादीनां पक्षे रज्जूनां बन्धः संघः पक्षे
ग्रन्थिस्तेन हीने रहितेऽत्र अस्मिन् ज्येष्ठे पुत्रे सोमदेवे निसर्गात्स्वभावादेव
लोला चञ्चलाऽस्थिरा लक्ष्मी राज्यश्रीः कथं केन प्रकारेण दार्ढ्यं दृढ़तां
स्थिरतामित्यर्थः । एति प्राप्नोति समुपयास्यतीति भावः । दृढ़बन्धनेन बद्ध
एव पदार्थो निश्चलो भवतीति नियमः ।
भाषा
तुमने जो नीतिमार्ग दिखाया है उसे मैं भी जानता हूँ। क्यो कि मेरा भी
जन्म नीति कुशल चालुक्य राजाओ के वंश में ही हुआ है। परन्तु शौर्यादिगुणो
के संघ से रहित अथवा बंधन योग्य ग्रन्थियुक्त रस्सी से रहित मेरे ज्येष्ठपुत्र
सोमदेव के युवराज पद पर बैठने पर यह स्वभावत चञ्चला राज्यलक्ष्मी इससे
( १८४ )
कैसे दृढ़ता पूर्वक बांधी जा सकती है अर्थात् बिना बँधे कैसे अपनी चञ्चलता
छोड़ कर साथ रह सकती है।
किञ्चिन्न मे दूषणमस्ति पृच्छ दैवज्ञचक्रं यदि कौतुकं ते।
एतस्य साम्राज्यममन्यमानाः पापग्रहा एव गृहीतपापाः ॥४६॥
अन्वयः
मे न किञ्चित् दूषणम् अस्ति । यदिते कौतुकं (तर्हि) दैवज्ञचक्रं
पृच्छ । पापग्रहाः एव गृहीतपापाः (सन्तः) एतस्य साम्राज्यम् अमन्य-
मानाः (सन्ति) ।
व्याख्या
मे ममाऽत्र न किञ्चिद्द्षण न कोऽपि दोषोऽस्ति । नाहम् सोमदेवस्य
यौवराज्यदानप्रतिबन्धक इति भाव । यदि ते तव कौतुक कुतूहलम 'कौतूहल
कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमर । ज्ञातु महती समुत्कण्ठा भवेदित्यर्थ ।
तर्हि दैव जानन्तीति दैवज्ञा ज्योतिषिका 'सावत्सरो ज्योतिषिकौ दैवज्ञगणकावपि'
इत्यमर । तेषा चक्र समूह पृच्छ । पापग्रहा क्रूरग्रहा अनिष्टग्रहा इत्यर्थ ।
गृहीतानि पापानि दुष्कृतजन्यादृष्टानि यैस्ते गृहीतपापा सन्त एतस्य सोमदेवस्य
साम्राज्य सम्राट्पदेऽधिरोहममन्यमाना सन्ति न स्वीकुर्वन्ति न समर्थयन्तीति भाव' ।
भाषा
सोमदेव को युवराज न बनाने में मेरा कोई दोष नही है। यदि तुमको
यह जानने की उत्कट इच्छा हो तो ज्योतिषियो से पूछो। (तब तुमको विदित
होगा कि) सोमदेव के पापग्रह अनिष्ट कारक होकर इसका साम्राज्य होने में
प्रतिबन्धक है ।
साम्राज्यलक्ष्मीदयितं जगाद त्वामेव देवोऽपि मृगाङ्कमौलिः ।
लोकस्तुतां मे षडुपूत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ॥५०॥
अन्वयः
मृगाङ्कमौलिः देवः अपि त्वाम् एव साम्राज्यलक्ष्मीदयितं जगाद ।
लोकस्तुतां मे षडुपूत्रता तु परेण पुत्रद्वयेन व्यतनोत् ।
( १८५ )
व्याख्या
मृगाङ्कश्चन्द्रः 'ऋक्षेशो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः' इत्यमरः ।
मौलौ मस्तके यस्य स मृगाङ्कमौलिश्चन्द्रमौलिर्देवः शिवोऽपि त्वामेव भवन्तमेव
साम्राज्यलक्ष्म्याः साम्राज्यश्रियॊ दयितं वल्लभं 'दयितं वल्लभं प्रियम्' इत्यमरः ।
जगादोवाच कथितवानित्यर्थः । लोकेऽर्जने, स्तुतां प्रशंसितां जनप्रसिद्धामित्यर्थः ।
मे मम बहुपुत्रतामनेकतनयत्वं तु परेण त्वद्व्यतिरिक्तेन पुत्रद्वयेन व्यतनोत् कृतवान् ।
भाषा
भगवान् शङ्कर ने भी तुम्हीं को साम्राज्यलक्ष्मी का प्रिय बताया था।
संसार में प्रशंसित अनेक पुत्रवत्ता को शङ्कर ने मुझे अन्य दो पुत्रों को देकर
पूर्ण कर दिया ।
तन्मे प्रमाणीकुरु वत्स वाक्यं चालुक्यलक्ष्मीश्चिरमुन्नतास्तु ।
निर्मत्सराः क्षोणिभृतः स्तुवन्तु ममाकलङ्कं गुणपक्षपातम् ॥५१॥
अन्वयः
हे वत्स ! तत् मे वाक्यं प्रमाणीकुरु। चालुक्यलक्ष्मीः चिरं
उन्नता अस्तु । निर्मत्सराः क्षोणिभृतः मम अकलङ्कं गुणपक्षपातं स्तुवन्तु
व्याख्या
हे वत्स पुत्र तत्तस्मात्कारणान्मे मम वाक्यं वचनं प्रमाणीकुरु स्वीकुरुष्व
यौवराज्यं गृहाणेत्यर्थः । चालुक्यवंशस्य लक्ष्मीः राज्यश्रीश्चिरं चिरका-
मुन्नता वृद्धिमभ्युपेताऽस्तु । मत्सरेणान्यशुभद्वेषेण परसम्पदसहनेनेत्यर्थं
'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः । रहिता हीनाः क्षोणि-
राजानो ममाऽकलङ्कं दोषरहितं गुणेषु शौर्यादिषु पक्षपातं गुणैकरागमित्यर्थः
स्तुवन्तु प्रशंसन्तु ।
भाषा
हे पुत्र ! इसलिये मेरी बात को मानो अर्थात् युवराज पद को
करो (जिससे) चालुक्यवंश की राज्यलक्ष्मी चिरकाल तक उन्नत
मात्सर्यहीन अन्य राजा लोग मेरे अनिन्दनीय, गुणों के पक्षपात की प्रशंसा
( १८६ )
श्रुत्वेति वाक्यं पितुरादरेण जगाद भूयो विहसन्कुमारः ।
मद्भाग्यदोषेण दुराग्रहोऽयं तातस्य मत्कीर्तिकलङ्कहेतुः ॥५२॥
अन्वयः
कुमारः पितुः इति वाक्यम् आदरेण श्रुत्वा विहसन् (सन्) भूयः
जगाद। अयं तातस्य दुराग्रहः मद्भाग्यदोषेण मत्कीर्तिकलङ्कहेतुः (अस्ति)
व्याख्या
कुमारो राजकुमारो विक्रमाङ्कदेवः पितुर्जनकस्याऽऽहवमल्लदेवस्येतीत्थं वाक्यं
वचनमादरेण समादरेण श्रुत्वा निशम्य विहसन् हास्यं कुर्वन्सन् भूयः पुनरपि
जगादोक्तवान् । अयं पूर्वोक्तः तातस्य जनकस्य भवतो दुराग्रहो दुरभिनिवेशो
मह्यं राज्यलक्ष्मीसमर्पणरूपाभिनिवेशो मम भाग्यस्य दिष्टस्य 'दैवं दिष्टं भागधेयं
भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । दोषेण विपर्यासेन मम कीर्तेर्यशसः कलङ्कस्य
मलिनोकरणस्य हेतुः कारणमस्ति । सत्यपि ज्येष्ठे भ्रातरि मम दुर्भाग्यजनितेन
भवतो दुराग्रहेण मे यौवराज्यग्रहणं मत्कीर्तिमलिनीकरणकारणमेव भविष्यतीति
भावः ।
भाषा
राजा की उपर्युक्त बातो को आदर पूर्वक सुनकर राजकुमार विक्रमाङ्कदेव
ने हँसते हुए फिर से कहा कि यह पिता जी का दुराग्रह, मेरे दुर्भाग्य से, मेरी
कीर्ति में कलङ्क लगने का कारण है ।
यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा।
तैरेव तातो भविता कृतार्थ-स्तद्धार्यतां कीर्तिविपर्ययो मे ॥५३॥
अन्वयः
यदि तस्य ग्रहाः राज्यदूताः न, वा शशिशेखरः कारुण्यशून्यः (तथापि)
तैः एव तातः कृतार्थः भविता । तन् मे कीर्तिविपर्ययः धार्यताम् ।
व्याख्या
यदि तस्य सोमदेवस्य ग्रहा जन्माङ्गस्थितग्रहाः 'ग्रहो निग्रहानिर्गद्यग्रहणेपु
रणोद्यमे । सूर्यादौ पृतनादौ च सैंहिकेयोपरागयोः' इति विश्वः । राज्यस्य
( १८७ )
साम्राज्यस्य दूता सन्देशहरा ‘स्यात्सन्देशहरो दूतो इत्य तद्भावकर्मणि' इत्यमर ।
न, न सन्ति । तद्राज्यसूचका न सन्तीति भाव । अथवा शशिशेखरश्चन्द्र-
मौलि शिव कारुण्येन दयया शून्यो रहित । यदि शिव स्वदयया तस्मै
राज्यसुखभोग न ददाति चेदिति भाव । तथापि तैरेव ग्रहै राज्यसुखभोगास-
सूचकै रेव तात पिता भवान् कृतार्थं कृतकार्यंसफलमनोरथ इत्यर्थ । भविता
भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न
विधातव्यमित्यर्थ ।
भाषा
यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नही है या यो कहें कि
भगवान् शङ्कर की उसपर दया नही है । तो भी उन्ही ग्रहो से आप की
मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये ।
अशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः ।
स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥
अन्वयः
यस्य शिरसा धृताज्ञः अहम् अनुजः अस्य दिग्जयेषु अशक्तिः न
अस्ति । स्थानस्थः एव अद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं
बिभर्तुं ।
व्याख्या
यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता सञ्चिता आज्ञाऽऽदेशो येन सोऽह-
मनूज कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य दिशा जयो विजय-
स्तेषु दिग्विजयकर्मण्वशस्तिरसार्मथ्यं नाऽस्ति न सम्भवति । स स्थाने तिष्ठतीति
स्थानस्थ स्वस्थले स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत-
कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसत्ताधकस्सन् रक्षामणिना सर्व
रक्षणक्षमौषधिविशेषप्रभावशालिना मणिना सह समत्वं सादृश्य बिभार्त्ततु ।
यथा रक्षामणि स्वस्थानस्थितस्सत् यस्य शरीरे तिष्ठति तस्य सर्वतो भावेन रक्षणं
करोति तथैव मे भ्राता स्वस्थानस्थित सन्मत्साहाय्येनाऽद्भुतकर्मकारी भूत्वा
सकलजनसंरक्षको भवत्विति भाव ।
( १८८ )
भाषा
आज्ञा का शिरसा पालन करने वाला जिसका मैं छोटा भाई हूँ
उसके दिग्विजय में असामर्थ्य सम्भावित नहीं हो सकता है। वह अपने स्थान
पर ही रहकर आश्चर्यजनक काम करता हुआ रक्षामणि की समानता को प्राप्त
हो। अर्थात् रक्षामणि जहाँ बंधा रहता है वहीं रहकर सम्पूर्ण विघ्नों को
अपने प्रभाव से दूरकर सब प्रकार का आश्चर्यजनक काम कर मनुष्य की रक्षा
करता है वैसे ही सोमदेव अपने स्थान पर ही रहकर मेरी सहायता से आश्चर्य-
जनक कार्य करने के यश का भागी होकर प्रजा की रक्षा करे।
इत्यादिभिश्चित्रतरैर्वचोभिः कृत्वा पितुः कौतुकमुत्सवञ्च ।
अकारयज्ज्येष्ठमुदारशीलः स यौवराज्यप्रतिपत्तिपात्रम् ॥५५॥
अन्वयः
उदारशीलः सः इत्यादिभिः चित्रतरैः वचोभिः पितुः कौतुकम् उत्सवं
च कृत्वा ज्येष्ठं यौवराज्यप्रतिपत्तिपात्रम् अकारयत् ।
व्याख्या
उदारमसंकुचितं शीलं स्वभावो यस्य स उदारशील उदारस्वभावः स
राजपुत्रो विक्रमाङ्कदेव इत्यादिभिरेवम्भूतैश्चित्रतरैर्विचित्रैर्वचोभिर्वाक्यैः पितुराह-
वमल्लदेवस्य कौतुकं कौतूहलमुत्सवमानन्दावसरञ्च 'उत्सेकामर्षयोरिच्छाप्रसरे
मह उत्सवः' इत्यमरः । कृत्वा जनयित्वा ज्येष्ठं ज्येष्ठभ्रातरं सोमदेवं यौव-
राज्यस्य युवराजपदस्य प्रतिपत्तिः स्वीकृतिस्तस्य पात्रं स्थानमकारयत् कारित-
वान् । स्वयशःप्रसरैर्ज्येष्ठभ्रातुर्यौवराज्यपदप्रदानस्वीकृतिं सम्पादयानेति भावः ।
भाषा
उदार स्वभाव वाले उस राजपुत्र विक्रमाङ्कदेव ने ऐसी २ अनेक आश्चर्य-
जनक बातें कहकर अपने पिता आहवमल्लदेव राजा के कुतूहल और आनन्द के
अवसर को उत्पन्न कर, अपने बड़े भाई सोमदेव को युवराज पद पर नियत
करने की स्वीकृति कराली ।
स्वयं समाधास्यति चन्द्रमौलि-रम्लानकीर्तेरभिवाञ्छितं मे ।
कार्यं विचार्येति सुतोपदिष्टं स सर्वमुर्वीपतिरन्वतिष्ठत् ॥५६॥
( १८९ )
अन्वयः
चन्द्रमौलिः स्वयम् अम्लानकीर्तेः मे अभिवाञ्छितं समाधास्यति इति
विचार्य सः उर्वीपतिः सुतोपदिष्टं सर्वं कार्यम् अन्वतिष्ठत् ।
व्याख्या
चन्द्रमौलिः शशिशेखरः शिवस्स्वयमेवाऽम्लाना निष्कलङ्का कीर्तिर्यशो यस्य
तस्य मे ममाऽभिवाञ्छितमभीप्सितं समाधास्यति पूरयिष्यतीतीत्थं विचार्य निश्चित्य
सः प्रसिद्ध उर्व्या वसुंधरायाः 'सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः ।
पति स्वामी राजाऽऽहवमल्लदेवः सुतेन पुत्रेणोपदिष्टं सम्मन्त्रितं सर्वं पूर्णं कार्यं
यौवराज्यप्रदानकार्यमन्वतिष्ठत्तच्चकार ।
भाषा
चन्द्रशेखर भगवान् शंकर, स्वयं ही, निष्कलङ्क कीर्तिवाले मेरो अभिष्ट
सिद्धि करेंगे, ऐसा विचार करके उस राजा आहवमल्लदेव ने पुत्र द्वारा कथित,
यौवराज्य प्रदान रूप कार्य को पूर्णता से सम्पन्न किया ।
ज्येष्ठे कृतेऽपि प्रतिपत्तिपात्रे तमेव लक्ष्मीस्तुनमन्यते स्म ।
पूरेण निम्ने निहिताऽपि सिन्धुरपेक्षते सागरमार्गमेव ॥५७॥
अन्वयः
ज्येष्ठे प्रतिपत्तिपात्रे कृते अपि लक्ष्मीः तम् एव अनुमन्यते स्म । पूरेण
निम्ने निहिता अपि सिन्धुः सागरमार्गम् एव अपेक्षते ।
व्याख्या
ज्येष्ठे ज्येष्ठभ्रातरि सोमदेवे प्रतिपत्तिपात्रे यौवराज्यासनपात्रे कृतेऽपि सम्पा
दितेऽपि लक्ष्मी राज्यश्रीस्तमेव विक्रमाङ्कदेवमेवाऽनुमन्यते स्म तस्मिन्नेव सम्मानं
प्रणयिताञ्च प्रदर्शयति स्मेति भाव । पूरेण जलप्रवाहेण निम्ने नीचस्थाने गर्ते
वा विहिता प्रस्थापिताऽपि सिन्धुर्नदी सागरस्य समुद्रस्य मार्गमेव पन्थानमेवाऽपेक्षते
प्रतीक्षते । दृष्टान्तालङ्कारः ।
भाषा
बड़े भाई सोमदेव को युवराज पद पर आरूढकर देने पर भी राज्य श्री
विक्रमाङ्कदेव के ही अनुकूल थी । जल प्रवाह के कारण नीचे स्थान पर भी
( १९० )
बहने वाली नदी, समुद्र में जा मिलने की ही अपेक्षा रखती है। अर्थात्
सिफारिश से गुणहीन सोमदेव के युवराज पद पर स्थित होने पर भी राज्य-
श्री विक्रमाङ्कदेव को ही अपनाती थी क्योकि जल प्रवाह से नीच स्थान में
बहने वाली नदी समुद्र में ही मिलने की अपेक्षा रखती है ।
देवोपदेशाद्गुणदर्शनाच्च स एव चित्ते नृपतेरुवास ।
यथा स्तुतं रत्नपरीक्षकेण दृष्टप्रभावं च महार्हरत्नम् ॥५८॥
अन्वयः
सः एव देवोपदेशात् गुणदर्शनात् च नृपतेः चित्ते उवास। यथा
रत्नपरीक्षकेण स्तुतं दृष्टप्रभावं च महार्हरत्नम् ।
व्याख्या
स एव विक्रमाङ्कदेव एव देवोपदेशादाऽऽकाशवाण्याः श्रवणात् गुणदर्शनाद्वि-
क्रमाङ्कदेवे शौर्यादिगुणानामनुभवाच्च नृपते राज्ञश्चित्ते मनसि ‘चित्तं तु चेतो
हृदयं स्वान्तं हृन्मानसं मनः’ इत्यमरः । उवास स्थितिं चकार । यथा रत्न-
परीक्षकेण वैकटिकेन स्तुतं प्रशंसितं दृष्टोऽनुभूतः प्रभावः सामर्थ्यं यस्य तत्
दृष्टप्रभावमनुभूतसामर्थ्यञ्च महार्हरत्नं महर्घ्यं रत्नम् । वैकटिकेन प्रशंसित-
मनुभूतसामर्थ्यं च बहुमूल्यं रत्नं राज्ञो हृदये वक्षःस्थले धार्यते तथैवाऽऽकाशवाण्या,
प्रशंसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः ।
भाषा
जौहरी द्वारा प्रशंसित और अनुभूत सामर्थ्य वाले बहुमूल्य रत्न के समान
आकाशवाणी द्वारा प्रशंसित और अनुभव में आये हुए उसके गुणों से विक्रमाङ्क
देव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया। अर्थात् जिस
प्रकार जौहरी द्वारा प्रशंसित और अनुभव मे आए हुए उसके सामर्थ्य से
बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वैसे ही आकाशवाणी से
प्रशंसित और अनुभव में आए हुए उसके गुणो से विक्रमाङ्क देव ने राजा के
हृदय में स्थान प्राप्त कर लिया।
स यौवराज्यश्रियमाश्रितस्य ज्येष्ठस्य राज्ये च पितुः स्थितस्य ।
कार्यं द्वयोरप्यखिलं बभार भूरेशपयोर्भारमिवादिकूर्मः ॥५९॥
( १९१ )
अन्वयः
सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः
अपि अखिलं कार्यम्, आदिकूर्मः भूशेषयोः भारम् इव बभार ।
व्याख्या
स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य समास्थितस्य
ज्येष्ठस्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य वर्तमानस्य
पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं 'विश्वमशेषं कृत्स्नं समस्तनिखिला-
खिलानि निःशेषम्' इत्यमरः । कार्यं युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः ।
आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी शेषो नागराजोऽनन्तस्त-
योर्भारमिव बभार पारयामास । यथाऽऽदिकच्छपो भुवरुद्धारकस्य नागरा-
जस्याऽपि भार दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभार-
मवहदिति भावः ।
भाषा
भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार
उठाने वाले शेषराज दोनो का बोझ उठाये रहता है उसी प्रकार विक्रमाङ्कदेव
ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपने
पिता इन दोनो का सम्पूर्ण कार्य भार अपने ऊपर ले लिया ।
आज्ञापयामास च वन्दिताङ्गं तमेव सर्वत्र रणोत्सवेषु ।
पपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥६०॥
अन्वयः
सः भूपः वन्दिताङ्गं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास,
तदुपार्जितानि यशोवतंसानि जयामृतानि च पपौ ।
व्याख्या
स भूपो राजाऽऽहवमल्लदेवो वन्दिता सम्मानिताऽङ्गता येन तं सम्मानिताङ्गं
तं विक्रमाङ्कदेवमेव सर्वत्र रणोत्सवेषु युद्धोत्सवेषु गमनायाज्ञापयामास नियो-
जितवान् । तेन विक्रमाङ्कदेवेनोपार्जितानि समानीतानि यशः कीर्तिरेवाऽवतंसो
भूषणं येषां तानि । एतेन यशसः पुष्पसाम्यं गम्यते । जया विजया एवाऽ-
( १९२ )
मृतानि पीयूषाणि तानि च पपौ पिवति स्म । युद्धे सर्वत्र विजयप्राप्त्या
तदीयकीर्तिं निशम्य परमतृप्तोऽभूदिति भावः । अत्र जयस्य अमृतत्वेन रूपकं
शब्दोपात्तं, यशसि च पुष्पारोपोऽर्थलभ्य इति एकदेशविवर्ति-रूपकमलङ्कारः ।
भाषा
राजा आहवमल्लदेव सर्वत्र संग्रामोत्सवो में आज्ञाकारी विक्रमाङ्कदेव को
ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित
विजयरूपी अमृतों का पान किया करता था ।
तत्कुम्भिकुम्भस्थलचीनपिष्ट-विपाटलो वारिनिधिर्बभासे ।
आपूरितश्चोलबलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥
अन्वयः
तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्षयोत्थर-
क्तापगानां मण्डलेन आपूरितः इव बभासे ।
व्याख्या
तस्य विक्रमाङ्कदेवस्य कुम्भिनो दन्तिनस्तेषां कुम्भस्थलानि गण्डस्थलानि तेषु
यच्चीनपिष्टं चीनदेशभवं चूर्णं सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जेल-
निधिस्समुद्रश्चोलानां चोलनृपाणां बलं सैन्यं 'वरूथिनी बलं सैन्यं चक्रं चानीक-
मस्त्रियाम्' इत्यमरः । तेषां क्षयेण नाशेनोत्था जाता रक्तस्य रुधिरस्याऽपगा
नद्यः "अपां समूहो आपं तेन गच्छतीत्यापगा" । समूहे अण्" । तासां मण्डलेन
समूहेनाऽऽपूरितस्संचलित इव बभासे द्युतिं संप्राप । लोके सिन्दूरेण गजगण्डस्थलानि
शोभार्थं लिप्यन्ते । उत्प्रेक्षालङ्कारः ।
भाषा
विक्रमाङ्कदेव के हाथियों के गण्डस्थलों पर लगाये हुए सिन्दूर से सिन्दुरिया
रंग का समुद्र मानो चोलदेशीय राजाओं की सेना के काटे जाने से उत्पन्न खून
की नदियों के समूह से भरा भासित होता था ।
चालुक्यरामे हरिवाहिनीभिः सहागते तत्र तटीं पयोधिः ।
प्रादुर्भ्वन्मौक्तिकशुक्तिभङ्ग्या भयेन दन्तानिव निष्ककर्ष ॥६२॥
( १९४ ) .
'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः । विना विनैव चन्दनस्य चन्दनवृक्षस्य वायुः
पवनश्चन्दनवायुर्दक्षिणानिल इत्यर्थः । आसीत् प्रादुर्बभूव । तद्वाहिन्यामसंपाता
गता आसन्नितिभावः । अत्र चैत्रं विना चन्दनवायुप्रवृत्तेर्विभावनालङ्कारः ।
“विभावना विना हेतुं कार्योत्पत्तियंदुच्यते ।”
भाषा
विक्रमाङ्कदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के
हाथियों के कानरूपी ताड़ के पंखों से, चैत का महीना न होने पर भी, विरहिणियों
को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा ।
अदर्शयत्कामपि राजहंस-लीलामसौ कुन्तलराजसूनुः ।
निस्त्रिंशधाराजलसङ्गतं यद् द्विषां यशः क्षीरमिवाचकर्ष ॥६४॥
अन्वयः
असौ कुन्तलराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत्
निस्त्रिंशधाराजलसङ्गतं द्विषां यशः क्षीरम् इव आचकर्ष ।
व्याख्या
असौ कुन्तलराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि
विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासम्अदर्शयत्
प्रकटयाम्बभूव । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिताः' इत्यमरः यद्यस्मा-
त्कारणात् निर्गतांस्त्रिशद्भ्योऽङ्गुलिभ्य इति निस्त्रिंशः खड्गः 'कृपाणं खङ्गे तु
निस्त्रिंश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्णाग्रभागजलेन
सङ्गतं मिश्रितं द्विषां शत्रूणा 'द्विड्विपक्षा हितामित्रप्रत्यर्थ्याप्रवञ्चशत्रवः' इत्यमरः ।
यशः कीर्तिं क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित-
नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुत्रोऽपि स्वखङ्ग-
धाराजलमिश्रितशत्रुयशसो यशः पृथक्त्वेन स्वीचकारेति भावः । श्लेषानुप्रामि-
तातिशयोक्तिनिदर्शना चालङ्कारः ।
भाषा
उस कुन्तलदेश के राजपुत्र ने श्रेष्ठराजा की या राजहंस पक्षी की एक विलक्षण
लीला दिखाई । जिस प्रकार राजहंस पानी और दूध मिला देने पर पानी से
( १९५ )
ध को अलग कर पी जाते हैं उसी प्रकार इस राजहंस ने खड्ग की धार के
पानी से मिले हुए शत्रुओं के यश को दूध के समान अलग कर अपनी ओर खींच
लिया अर्थात स्वीकार कर लिया । ३४
तस्मिन् समाकर्षति चापदण्डं वीरप्रकाण्डे विजयोद्यमेषु ।
मुखान्यभूवन् द्रविडाङ्गनाना-मुष्णोष्णनिःश्वासविधूसराणि ॥६५॥
अन्वयः
वीरप्रकाण्डे तस्मिन् विजयोद्यमेषु चापदण्डं समाकर्षति (सति)
द्रविडाङ्गनानां मुखानि उष्णोष्णनिःश्वासविधूसराणि अभूवन् ।
व्याख्या
प्रशस्तो वीरो वीरप्रकाण्डस्तस्मिन् 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ।
प्रशस्तवाचकान्यमूनि' इत्यमरः । तस्मिन्विक्रमाङ्कदेवे विजयोद्यमेषु विजय-
यात्रासु चापदण्डं धनुर्दण्डं समाकर्षति सति द्रविडदेशीयाङ्गनानां चोलदेशीयनारीणां
चोलीनामित्यर्थः । मुखानि वदनान्युष्णादप्युष्णं इत्युष्णोष्णो निःश्वासः
शोकजनितोच्छ्वासस्तेन विधूसराणीषद्व्याण्डूनि कान्तिरहितानीत्यर्थः । ईषत्पा-
ण्डुस्तु धूसर' इत्यमरः । अभूवन् जातानि । अत्र चापदण्डाकर्षणमात्रेण
मुखानां विधूसरत्वोक्त्याऽतिशयोक्तिरलङ्कारः ।
भाषार्थ
युद्ध यात्राओं में वीरों में श्रेष्ठ उस विक्रमाङ्कदेव के धनुष तानने पर चोल
देश की नारियों के मुख, गरम २ उच्छवास लेने से कुछ सफेद पड़ जाते थे
अर्थात कान्ति हीन हो जाते थे ।
तस्मिन्बिरुद्धे गिरिनिर्भराम्बु श्रमातिरेकात्पशुवन्निपीय ।
मातेति चोलः क्षितिमादिभर्ता कृत्या स्तनास्वादमिवोन्ममर्ज ॥६६॥
अन्वय
तस्मिन् विरुद्धे (सति) आदिभर्ता चोलः श्रमातिरेकात् गिरिनिर्भराम्बु
स्तनास्वादम् इव पशुवत् निपीय क्षिति माता इति कृत्या उत्ससर्ज ।
( १९६ )
व्याख्या
तस्मिन्विक्रमाङ्कदेवे विरुद्धे विपक्षतां गते सत्याऽऽक्रान्तवति सतीत्यर्थः ।
आदौ पूर्वं भर्ता पतिश्चोलश्चोलदेशीयन्नृपः श्रमस्य परिश्रमस्याऽतिरेकादापिस्पात्
गिरीणां शैलाना 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । निर्झराः
स्रोतांसि तेषामम्बु जलं स्तनयोः कुचयोरास्वादं दुग्धमिव पशुवत् पात्राभावान्मु-
खेनैव पशुवन्निपीय पीत्वा क्षितिं चोलदेशभूमिं माता जननीति कृत्वेति हेतोरुत्स-
सर्ज त्यक्तवान् । पूर्वमयं चोलभूमेर्भर्ता । विक्रमाङ्कदेवेनाऽऽक्रान्ते चोलदेशे
युद्धजनितपरिश्रमस्य पश्चात्पलायनजनितपरिश्रमस्य चाऽधिक्यात् पात्राभावात्
स्तनपानमिव गिरिनिर्झराम्बुन पशुवन्मुखेनैव पानात् सा चोलभूमि सम्प्रति
जननीव जातेति हेतोस्तस्या उपभोगो भर्तृत्वेन निषिद्ध इति धिया ता मुमोचे-
त्यर्थः । चोलभूमिं त्यक्त्वाऽन्यत्र पलायित इति भाव । अत्रोत्प्रेक्षालङ्कार,
परमयौचित्यं चिन्त्यमेव ।
भाषा
उस विक्रमाङ्कदेव के चोलदेश पर आक्रमण करने पर, चोलभूमि का पहिले
जो पति था अर्थात् राजा था, वह चोलराज युद्ध के और भागने के अधिक
परिश्रम से बहुत प्यासा होकर, पहाडियों के झरनो का जल, गिलास न होने से
चोल भूमि के स्तनपान के समान पशुओं के ऐसे मुख से पीकर, चोल भूमि को
स्तनपान कराने वाली जननी है ऐसा समझ कर और उसका अब उपभोग
करना ठीक नहीं ऐसा सोचकर, मानो उसे त्याग कर चला गया । अर्थात्
विक्रमाङ्कदेव के आक्रमण करने पर वह चोल भूमि छोड कर भाग गया ।
स मालवेन्दुं शरणं प्रविष्ट-मकण्टके स्थापयति स्म राज्ये ।
कन्याप्रदानच्छलतः क्षितीशाः सर्वस्यदानं बहवोऽस्य चक्रुः ॥६७॥
अन्वयः
सः शरणं प्रविष्टं मालवेन्दुम् अकण्टके राज्ये स्थापयति स्म । बहवः
क्षितीशाः कन्याप्रदानच्छलतः अस्य सर्वस्वदानं चक्रुः ।
व्याख्या
स विक्रमाङ्कदेवः शरणं रक्षायाचनाय प्रविष्टं समागतं मालवेन्दुं मालवदेश-
राजानमकण्टके प्रतिपन्थशून्ये बाधारहिते इत्यर्थः । राज्ये स्थापयति स्म
( १९७ )
प्रतिष्ठापयति स्म । बहवो बहुसंख्यकाः क्षितीशा राजानः कन्यायाः स्वदुहितुः
प्रदानं - पाणिग्रहणरूपेण समर्पणं तस्य च्छलेन 'व्याजेनाऽस्यास्मै राजकुमाराय
सर्वस्वस्य सर्वधनराज्यादेः प्रदान चक्रुः सर्वस्वं धनराज्यादिकं यावद्वस्तु ददुः ।
“अस्य सर्वस्वदानं चक्रुः” इत्यत्र “अस्ये”ति षष्ठीप्रयोगश्चिन्त्यः ।
भाषा
विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य
पर पुन बैठा दिया । बहुत से अन्य राजाओ ने अपनी कन्याओ का उसके
साथ विवाह कर देने के भिष से अपना सर्वस्व उसको समर्पण कर दिया ।
त्रिलोकवीरः कियतो विजिग्ये न दुर्द्दमानां प्रतिपार्थिवानाम् ।
दोर्विक्रमेणाद्भुतसाहसेन महाहवानाहवमल्लसूनुः ॥६८॥
अन्वयः
त्रिलोकवीरः आहवमल्लसूनुः अद्भुतसाहसेन दोर्विक्रमेण दुर्द्दमानां
प्रतिपार्थिवानां कियतः महाहवान् न विजिग्ये ।
व्याख्या
त्रिलोके भुवनत्रये वीर एकशूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेवोऽ-
द्भुतं चित्रं साहसं दमो यस्य सः 'साहसं तु दमो दण्डः' इत्यमरः । तेन
दोष्णोर्भुजयोर्विक्रमः पराक्रमस्तेन दुःखेन दमयितुं दान्तुं दण्डयितुं शक्या दुर्द्दमास्तेषां
दुर्द्दमानां दुर्जयानां प्रतिपार्थिवाना विपक्षनृपाणां शत्रूणामित्यर्थः । कियतः
कतिसंख्याकान् महाहवान् महासंग्रामान् विजिग्ये न जयति स्म । बहुसंख्यानि
महायुद्धानि जयति स्मेति भावः । अत्रार्थापत्त्यलङ्कारः ।
भाषा
तीनो लोको में अपनी वीरता का सानी न रखने वाले आहवमल्ल राजा के
पुत्र विक्रमाङ्क देव ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओ के पराक्रम
से अनेक दुर्दान्त विपक्षी राजाओं के अर्थात् शत्रुओं के कितने महायुद्धो को नही
जीता । अर्थात् अनेक महायुद्धो को जीता ।
उत्कन्धरानेव रणाङ्गणेषु यस्यातितुङ्गस्य हठात्प्रहर्तुः ।
न नम्रभावादपरो नृपाणा-मासीत्कृपाणप्रतिषेधमार्गः ॥६६॥
( १९८ )
अन्वयः
अतितुङ्गस्य रणाङ्गणेषु उत्कन्धरान् एव हठात् प्रहर्तुः यस्य कृपाण-
प्रतिषेधमार्गः नृपाणां नम्रभावात् अपरः न आसीत् ।
व्याख्या
अतितुङ्गस्याभ्युच्चस्य 'उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । रणाङ्गणेषु
समरभूमिषूद्गतोन्नता कन्घरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः ।
नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खड्गस्य प्रहारस्ये-
त्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्यनाशद्रक्षणोपाय
इत्यर्थः । नृपाणां विपक्षणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यो
नाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागता-
स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचक्रुस्ते तु
सुरक्षिता इति भावः ।
भाषा
रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालो को ही
चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से
विपक्षी राजाओ को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के
अतिरिक्त दूसरा नही था ।
व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः ।
नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रमेव ॥७०॥
अन्वयः
व्याजावतीर्णेन जनार्दनेन तेन उदरे हाररुचिच्छटाभिः नाभीसरोजोद्-
गमवारणाय चन्द्रमसः प्रभा संचारिता इव ।
व्याख्या
व्याजेन छलेन विक्रमाङ्कदेव रूपेणेत्यर्थः । अवतीर्णः पृथ्वीतले समागतस्तेन
जनार्दनेन विष्णुना तेन राजकुमारेणोदरे कुक्षौ 'पिचण्डकुक्षी जठरोदरं तुन्दम्'
इत्यमरः । हारस्य मुक्ताहारस्य रुचीनामुज्ज्वलकान्तीनां छटाभिश्शोभाभिः
नाभ्यां विष्णुवत्स्वनाभ्यां सरोजस्य कमलस्योद्गम उत्पत्तिस्तस्य वारणाय