विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 216, कुल 493 में से
संदर्भ में पढ़ें( १९२ )
मृतानि पीयूषाणि तानि च पपौ पिवति स्म । युद्धे सर्वत्र विजयप्राप्त्या
तदीयकीर्तिं निशम्य परमतृप्तोऽभूदिति भावः । अत्र जयस्य अमृतत्वेन रूपकं
शब्दोपात्तं, यशसि च पुष्पारोपोऽर्थलभ्य इति एकदेशविवर्ति-रूपकमलङ्कारः ।
भाषा
राजा आहवमल्लदेव सर्वत्र संग्रामोत्सवो में आज्ञाकारी विक्रमाङ्कदेव को
ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित
विजयरूपी अमृतों का पान किया करता था ।
तत्कुम्भिकुम्भस्थलचीनपिष्ट-विपाटलो वारिनिधिर्बभासे ।
आपूरितश्चोलबलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥
अन्वयः
तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्षयोत्थर-
क्तापगानां मण्डलेन आपूरितः इव बभासे ।
व्याख्या
तस्य विक्रमाङ्कदेवस्य कुम्भिनो दन्तिनस्तेषां कुम्भस्थलानि गण्डस्थलानि तेषु
यच्चीनपिष्टं चीनदेशभवं चूर्णं सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जेल-
निधिस्समुद्रश्चोलानां चोलनृपाणां बलं सैन्यं 'वरूथिनी बलं सैन्यं चक्रं चानीक-
मस्त्रियाम्' इत्यमरः । तेषां क्षयेण नाशेनोत्था जाता रक्तस्य रुधिरस्याऽपगा
नद्यः "अपां समूहो आपं तेन गच्छतीत्यापगा" । समूहे अण्" । तासां मण्डलेन
समूहेनाऽऽपूरितस्संचलित इव बभासे द्युतिं संप्राप । लोके सिन्दूरेण गजगण्डस्थलानि
शोभार्थं लिप्यन्ते । उत्प्रेक्षालङ्कारः ।
भाषा
विक्रमाङ्कदेव के हाथियों के गण्डस्थलों पर लगाये हुए सिन्दूर से सिन्दुरिया
रंग का समुद्र मानो चोलदेशीय राजाओं की सेना के काटे जाने से उत्पन्न खून
की नदियों के समूह से भरा भासित होता था ।
चालुक्यरामे हरिवाहिनीभिः सहागते तत्र तटीं पयोधिः ।
प्रादुर्भ्वन्मौक्तिकशुक्तिभङ्ग्या भयेन दन्तानिव निष्ककर्ष ॥६२॥