सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 211, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 211

( १८७ )
साम्राज्यस्य दूता सन्देशहरा ‘स्यात्सन्देशहरो दूतो इत्य तद्भावकर्मणि' इत्यमर ।
न, न सन्ति । तद्राज्यसूचका न सन्तीति भाव । अथवा शशिशेखरश्चन्द्र-
मौलि शिव कारुण्येन दयया शून्यो रहित । यदि शिव स्वदयया तस्मै
राज्यसुखभोग न ददाति चेदिति भाव । तथापि तैरेव ग्रहै राज्यसुखभोगास-
सूचकै रेव तात पिता भवान् कृतार्थं कृतकार्यंसफलमनोरथ इत्यर्थ । भविता
भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न
विधातव्यमित्यर्थ ।
भाषा
यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नही है या यो कहें कि
भगवान् शङ्कर की उसपर दया नही है । तो भी उन्ही ग्रहो से आप की
मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये ।
अशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः ।
स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥
अन्वयः
यस्य शिरसा धृताज्ञः अहम् अनुजः अस्य दिग्जयेषु अशक्तिः न
अस्ति । स्थानस्थः एव अद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं
बिभर्तुं ।
व्याख्या
यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता सञ्चिता आज्ञाऽऽदेशो येन सोऽह-
मनूज कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य दिशा जयो विजय-
स्तेषु दिग्विजयकर्मण्वशस्तिरसार्मथ्यं नाऽस्ति न सम्भवति । स स्थाने तिष्ठतीति
स्थानस्थ स्वस्थले स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत-
कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसत्ताधकस्सन् रक्षामणिना सर्व
रक्षणक्षमौषधिविशेषप्रभावशालिना मणिना सह समत्वं सादृश्य बिभार्त्ततु ।
यथा रक्षामणि स्वस्थानस्थितस्सत् यस्य शरीरे तिष्ठति तस्य सर्वतो भावेन रक्षणं
करोति तथैव मे भ्राता स्वस्थानस्थित सन्मत्साहाय्येनाऽद्भुतकर्मकारी भूत्वा
सकलजनसंरक्षको भवत्विति भाव ।