सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०३

नूनं विचेष्टितमिदं सुतशोकस्य ।
संजयः—महाराज, किं वाऽयं लोकवादो वितथः 'न घटस्य कूपपतनेः
रज्जुस्तत्रैव प्रक्षेपव्या' इति ।
दुर्योधनः—अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ॥
( इति रोदिति ।)
धृतराष्ट्रः—( दुर्योधनं परिष्वज्य ।) वत्स, समाश्वसिहि । समाश्वासय-
चास्मानिमामर्तिदीनां मातरं च ।
दुर्योधनः—तात, दुर्लभः समाश्वास इदानीं युष्माकम् । किंतु—
कुन्त्या सह युवामद्य मया निहतपुत्रया ।
नूनमिति—सुतशोकवशादिदं कथयसि त्वमिति भावः ।
लोकवादः = लौकिकोक्तिः, आभाणकमित्यर्थः । वितथः = असत्यः किम् ।
आभाणकमेवाह—न घटस्येति । अधिकस्य विनाशे सति विनाशावशिष्टस्यापि
विनाशकरणमयुक्तमिति भावः ।
अपुष्कलम् = अपर्याप्तम्, अयुक्तमित्यर्थः । इदं = पूर्वोक्ताभाणकम्, उपक्रिय-
माणाभावे = उपकारविषयस्याभावे, उपकरणेन = साधनेन किम्, व्यर्थमित्यर्थः ।
परिष्वज्य—आलिङ्ग्य ।
अन्वयः—अद्य, मया, निहतपुत्रया, कुन्त्या, सह, शोकेऽपि, विराजमानौ, युवाम्,
तनयान्, अनुशोचतम् ॥ ४ ॥
कुन्त्येति, अद्य, मया = दुर्योधनेन, निहतपुत्रया = निहताः पुत्राः यस्याः तया,
साकाङ्क्षत्वेऽपि शरैः शातितपत्र इतिवत्समासः । कुन्त्या = युधिष्ठिरमात्रा, सह,
अवश्य पुत्रशोक का यह कार्य है।
संजय—महाराज ! 'घड़े के कुएँ में गिर जाने पर रस्सी वहीं नहीं फेंक देनी चाहिए'
यह लोकोक्ति असत्य है क्या ?
दुर्योधन—यह युक्त नहीं । उपयोग में लानेवाला नहीं होगा तो उपयोगी वस्तुओंकी
क्या उपयोगिता ? ( यह कहकर रोता है )
धृतराष्ट्र—( दुर्योधन का आलिङ्गन करके ) पुत्र ! धैर्य धारण करो। हम लोगों को
और अपनी असहाय माता को भी धैर्य बँधाओ ।
दुर्योधन—पिता जी इस समय आप लोगोंको धैर्य बँधाना टेढ़ी-खीर [ कठिन ]'है।
आज मैं कुन्ती के पुत्रों का वध कर डालता हूँ फिर आप दोनों शोक में भी उसके
साथ बैठकर अपने मृतक पुत्रों के लिए शोक मनाइए [ अर्थात् अबतक तो उसके कोई पुत्र

२०४ वेणीसंहारं नाटकं
विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ४ ॥
गान्धारी — जाद, एदं एव्व सम्पदं प्पभूदं जं तुमं वि दाव एक्को णाणु
सोचिदव्वो । ता जाद, प्पसीद । एसो दे सीसञ्जली । णिवट्टीअदु सम-
रब्वावारादो । अपच्छिमं करेहि पिदुणो वअणम् । ( जात, एतदेव सांप्रतं
प्रभूतं यत्त्वमपि तावदेको नानुशोचितव्यः । तज्जात, प्रसीद । एष ते शीर्षाञ्जलिः ।
निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु पितुर्वचनम् । )
धृतराष्ट्रः—वत्स, शृणु वचनं तवाम्बाया मम च निहताशेषबन्धु-
वर्गस्य । पश्य—
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ
शोकेऽपि = दुःखे सत्यपि, विराजमानौ = शोभमानौ ( सन्तौ ) अथवा दुःखेऽपि
स्थितौ कुन्त्या अपि पुत्रविनाशादिति भावः । युवाम् = मातापितरौ, तनयान् =
पुत्रान्, अनुशोचतं = चिन्तयतम् । यथा कुन्तीपुत्रेण तव पुत्रा हतास्तथैव त्वत्पुत्रेण
मया कुन्तीपुत्रा हता भविष्यन्तीति भावः । अत्र सहोक्तिरलङ्कारः । अनुष्टुप् छंदः ॥
एतदेव, प्रभूतं = प्रचुरम्, अत्यन्तमित्यर्थः । साम्प्रतं = युक्तम्, 'युक्तं द्वे साम्प्रतं
स्थान' इत्यमरः । युक्तमित्याह — यत्त्वमपीति । शीर्षाञ्जलिः = प्रणामः, अनुनय
इत्यर्थः । विनय इति यावत् । पितुर्वचनम्, अपश्चिमं = अनुलङ्घ्यम्, कुरु ।
अन्वयः—ययोः, बलेन, दायादाः, न, गणिताः, तौ, द्रोणभीष्मौ, हतौ, कर्णस्य
आत्मजम्, ( कर्णस्य ) अग्रत शमयतः फाल्गुनात्, जगत्, भीतम्, मे वत्सानाम्,
निधनेन रिपु अधुना, त्वयि, शेषप्रतिज्ञः, ( अतः ) वैरिषु, मानम्, मुञ्च, ( हे )
तात, इमो, अन्धौ, पितरौ, पालय ॥ ५ ॥
शत्रुपराजयं न कर्तुं शक्नोपित्वमित्याह — दायादा इति ।
मरे नहीं हैं आपके बहुत से पुत्र मर चुके हैं इससे वह आप लोगों को देखकर प्रसन्न
होती है। अब उसके पुत्रों का आज वध करके आप लोगों के समान ही उसे दुःखी बना
देता हूँ फिर आप लोग उसके साथ अपने पुत्रों के लिए शोक कीजिए ] ॥ ४ ॥
गान्धारी—पुत्र, इस समय यही अतुलसम्पत्ति है जो कि तुम्हारे एक के विषय में
अनुताप नहीं करना है। अतः पुत्र ! प्रसन्न हो । यह तुम्हारे शिर पर मैं हाथ रखती हूँ ।
[ अर्थात् तुम्हें मेरी सौगन्ध ] युद्ध से विमुख हो जाओ । पिता के निर्देश [ आज्ञा ] की
अवहेलना न करो ?
धृतराष्ट्र—बेटा ! मेरी और अपने माता की, जिनके सम्पूर्ण परिवार का सत्यानाश
हो गया, बात सुनो देखो—
जिन दो (भीष्म और द्रोण) के आधार पर तुमने शत्रुओं (पाण्डवों) को तृण समा

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०५
कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् ।
वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना
मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ ५ ॥
दुर्योधनः—समयात्प्रतिनिबृत्य किं मया कर्तव्यम् ।
गान्धारी—जाद, जं पिदा द विउरो वा भणदि । ( जात, यत्पिता ते
विदुरो वा भणति । )
संजयः—देव, एवमिदम् !
ययोः = द्रोणभीष्मयोः, बलेन = शक्त्या, दायादाः = बान्धवाः, युधिष्ठिरादयः,
'दायादौ सुतबान्धवौ' इत्यमरः । न, गणिताः, तिरस्कृता इत्यर्थः । तौ द्रोणभीष्मौ
हतौ । तथा च तव युद्धावतरणं न युक्तं सहायकाभावादित्याशयः । कर्णबलेन जयः
स्यादित्यपि न सम्भवतीत्याह—कर्णस्येति । आत्मजं पुत्रम्, वृषसेनम्, अग्रतः,
कर्णस्येत्यस्यात्राप्यन्वयः । तथा च कर्णस्याग्र एव, शमग्रतः = विनाशयतः, फाल्गु-
नात् = अर्जुनात्, जगत्, भीतं = त्रस्तम्, येन कर्णेन स्वपुत्ररक्षणमपि नाकारि,
तस्य = साहाय्येन जयासंभव इति भावः, मे=मम, वत्सानाम् = एकोनशतसंख्याक
पुत्राणाम् निधनेन = मरणेन, रिपुः = भीमः, अधुना, त्वयि, शेषप्रतिज्ञः अस्तीति
शेषः । भीमस्य प्रतिज्ञाऽऽसीद्यद् धृतराष्ट्रस्य पुत्रशतं हनिष्यामीति तत्रान्येषां पुत्राणां
वधेन त्वमेव प्रतिज्ञाविषयाऽवशिष्टोऽसि तादृशफाल्गुनसाहाय्येन भीमस्य प्रतिज्ञापूर्तौ
न कोऽपि संशयः, तथा च तव संग्रामावतरणं न युक्तमिति भावः । ( अतः ) वैरिषु,
मानम् = अहङ्कारम्, मुञ्च = त्यज, ( हे ) तात, इमौ अन्धौ = नेत्रविहीनौ, पितरौ
पालय । यद्यपि मातुः गान्धार्या नेत्रे आस्तां तथापि पत्युरान्ध्येन गान्धार्यापि पाति-
व्रत्यरक्षणार्थं नेत्रे वस्त्रेण आच्छाने अकारिषताम्, अत उच्यते-पितरावन्धाविति ।
शार्दूलविक्रीडितं छन्दः ॥ ५ ॥
प्रतिनिबृत्य = परावृत्य सङ्ग्रामं त्यक्त्वेत्यर्थः ।
भी नहीं समझा वे द्रोणाचार्य और भीष्म मार डाले गए। सब लोगों के नेत्र के सामने
कर्णपुत्र वृषसेन की हत्या करते हुए अर्जुन से संसार कम्पित हो गया मेरे पुत्रों के संहार
से यह शत्रु केवल तुम्हारे लिए अवशिष्ट प्रतिज्ञ है (अर्थात् शत्रु ने अपनी सम्पूर्ण प्रतिज्ञायें
पूर्ण कर लीं। केवल तुम्हारे विषय में की गई प्रतिज्ञा अवशिष्ट है) शत्रुविषयक अभिमान
का परित्याग करो और अपने इन नेत्रविहीन माता-पिता का पालन करो ॥ ५ ॥
दुर्योधन—युद्ध से विमुख होकर मुझे क्या करना होगा ?
गान्धारी—जो तुम्हारे पिता और विदुर कहें।
संजय—महाराज ! ऐसा करना चाहिए।

२०६ वेणीसंहारं नाटकं
दुर्योधनः—संजय, अद्याप्युपदेष्टव्यमस्ति ।
संजयः —देव, यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम्।
दुर्योधनः — (सक्रोधम् ) शृणुमस्तावद्भवत एव प्रज्ञावतोऽस्मान्प्रति
प्रतिरूपमुपदेशम् ।
धृतराष्ट्रः—वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमाप-
द्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।
दुर्योधनः—कथयतु तातः ।
धृतराष्ट्रः—वत्स, किं विस्तरेण । संघत्तां भवानीदानीमपि युधिष्ठिरमी-
प्सितपणबन्धेन ।
दुर्योधनः—तात, तनयस्नेहवैकल्यादम्बा बालिशत्वेन संजयश्च काम-
मेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाश-
प्रज्ञावताम्, उपदेष्टव्यभूमिः, विजिगीषुरित्यन्वयः । प्रज्ञावतामिति तव्यप्रत्यययोगे
"कृत्यानां कर्तरि वे"ति कर्तरि षष्ठी ।
प्रतिरूपं = योग्यम् । अनुरूपमित्यपि क्वचित्पाठः ।
सन्धत्तां = सन्धिं कुरुताम्, इदं युधिष्ठिरमित्येनान्वेति । ईप्सितपणबन्धेन =
अभिलषितमूल्यनिबन्धनेन इन्द्रप्रस्थादिपञ्चग्रामदानेन, अर्धराज्यप्रदानेन वेत्यर्थः ।
तनयस्नेहवैकल्यात् = पुत्रस्नेहव्याकुलत्वात्, अस्य ब्रवीत्वित्यनेनान्वयः । बालिश-
दुर्योधन—संजय ! क्या अब भी उपदेश देना शेष रह गया है ?
संजय—महाराज ! विजयाभिलाषी जब तक जीवित है तब तक बुद्धिमानों के उपदेश
के पात्र हैं ।
दुर्योधन—अच्छा, आप जैसे ही प्रज्ञाशील व्यक्ति का अपने लोगों के प्रति अनुकूल-
उपदेश सुनूँ ।
धृतराष्ट्र—संजय का कहना उचित ही होता है । इसमें क्रोध से क्या प्रयोजन ?
यदि क्रोध छोड़कर शान्त हो जाओ तो मैं ही तुमसे कहता हूँ । सुनो ?
दुर्योधन—कहिए, पिताजी !
धृतराष्ट्र—पुत्र ! विस्तार से क्या प्रयोजन ? अब भी तुम युधिष्ठिराभिलषित सन्धि-
नियम पर सन्धि कर लो ।
दुर्योधन—पिताजी ! पुत्रप्रेम की विकलता से माता और मूर्खता के कारण संजय भले
इस प्रकार उपदेश दें । आपको भी इस प्रकार का भ्रम ? अथवा पुत्रनाश से उत्पन्न होने

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०७
जन्मा हृदयज्वरः । अन्यच्च । तात, अस्खलितभ्रातृशतोऽहं यदा तदाऽनव-
धारितवासुदेवसामोपन्यासः, संप्रति हि दृष्टपितामहाचार्यानुजराजचक्र-
विपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव
करिष्यति दुर्योधनः सह पाण्डवैः सन्धिम् । अन्यच्च । नयवेदिन्संजय,
हीयमानाः किल रिपोर्नृपाः संदधते परान् ।
दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथम् ॥ ६ ॥
त्वेन = मूर्खताया 'बालिशस्तु शिशौ मूर्खे' इति मेदिनी । व्यामोहः = वैचित्यम् ।
अस्खलितभ्रातृशतः = अस्खलितम् अविनष्टं भ्रातृशतं यस्य सः, अवधीरितासुदेव-
सामोपन्यासः = अवधीरितः तिरस्कृतः वासुदेवसामोपन्यासः कृष्णकृतशान्तिस्थापनं
येन सः, आसमिति क्रियापदशेषः । उदात्तपुरुषव्रीडावहं = महापुरुषलज्जाकरम्,
'उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपी'ति हैमः । असुखावसानम् = असुखम् दुःखम्
अवसाने अन्ते यस्य तम् ।
अन्वयः - रिपोः हीयमानाः, नृपाः' परान्, संदधते, किल, सानुजाः, ( रिपोः )
अहीनाः, पाण्डवाः, दुःशासने, हते, कथम् ( सन्दधते ), ॥ ६ ॥
सम्प्रति सन्धिः सम्भवत्यपि नेत्याह - हीयमानाः किलेति ।
रिपोः = शत्रो, हीयमानाः = क्षीयमाणाः, नृपाः किल परान् = शत्रुम्, सन्दधते =
सन्धिं कुर्वते, किल, सानुजाः 'अत एव रिपोः अहीनाः, पाण्डवाः, दुःशासने हते
हीनं, माम् कथं, सन्दधते ? पाण्डवानां सबलत्वान्मम दुर्बलत्वान्नीतिविरुद्धः सन्धिः
कथं स्यादिति भावः । अत्र काव्यलिङ्गमलङ्कारः । अनुष्टुप् छन्दः ॥ ६ ॥
वाला हृदयज्वर होता ही है । और भी पिताजी ! जब मैं सौ भाइयों से था उस समय तो
वासुदेव [कृष्ण] के शान्ति के उपदेश पर मेरा ध्यान नहीं गया, अब इस समय पितामह
[भीष्म], आचार्य [ द्रोण ], कनिष्ठ भ्राता तथा राजन्यमण्डल की विपत्तियों को देखकर
अपने केवल शरीर के स्नेह से उदार पुरुषों के लिए लज्जाजनक तथा दुःखान्त सन्धि को
पाण्डवों के साथ दुर्योधन किस प्रकार करेगा ? और भी नीतिविशारद संजय ।
शत्रु की अपेक्षा न्यूनशक्तिवाले राजा लोग शत्रुओं से सन्धि करते हैं। दुःशासन के
वधोपरान्त पाण्डव अपने भाइयों के साथ हैं उनमें किसी तरह की न्यूनता नहीं है फिर
किस प्रकार वे सन्धि कर सकते हैं । [ अर्थात इस समय मेरे कुटुम्बियों का संहार हो
गया है अतः मेरी शक्ति न्यून है, पाण्डवों के भाइयों में से किसी का मरण नहीं
हुआ है अतः उनकी शक्ति पूरी है फिर युधिष्ठिर मेरी सन्धि को किस प्रकार स्वीकार कर
सकते हैं ? ] ॥ ६ ॥

२०८ वेणीसंहारं नाटकं
धृतराष्ट्रः—वत्स, एवं गतेऽपि मत्प्रार्थनया न किञ्चिन्न करोति युधि-
ष्ठिरः । अन्यच्च सर्वमेवापकृतं नानुमन्यते ।
दुर्योधनः—कथमिव ।
धृतराष्ट्रः—वत्स, श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातु-
र्विपत्तौ प्राणान् धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्क-
मानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् ।
संजयः—एवमिदम् ।
गान्धारी—जाद, उवपत्तियुत्तं पडिवज्जस्स पिदुणो वअणम् । ( जात,
उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । )
दुर्योधनः—तात, अम्ब, संजय,
एकेनापि विनाऽनुजेन मरणं पार्थः प्रतिज्ञातवान् ।
न किञ्चन्नेति—नद्वयेन करणस्य निश्चयः सूच्यते । अपकृतम् = अपकारम् ।
विपत्तौ = मरणे, सज्जः = सन्नद्धः, संधातुं = सन्धिं कर्तुम् ।
उपपत्तियुक्तं = युक्तिसहितम्, पितुः, वचनम् प्रतिपद्यस्व = जानीहीत्यन्वयः ।
अन्वयः—पार्थः, एकेन, अपि, अनुजेन, विना, मरणम्, प्रतिज्ञातवान् दुर्यो-
धनः, भ्रातॄणाम् शते ( अपि ) निहते, जीवितुम्, विषहते, दुश्शासनशोणिताननम्,
अरिम्, गदाकोटिना, भिन्नम् तम् भीमम्, दिक्षु, न, विक्षिपामि, कृपणः, अहम्,
सन्धिम् विदध्याम् ॥ ७ ॥
एवं स्थिते न मया सन्धिः कार्या इत्याह — एकेनापीति ।
धृतराष्ट्र—इस प्रकार की अवस्था में प्राप्त होने पर भी मेरी प्रार्थना से युधिष्ठिर कुछ
नहीं करेंगे ऐसा नहीं किन्तु अवश्य मेरी बात मानेंगे । दूसरी बात यह है कि युधिष्ठिर
किए गए अपकारों पर ध्यान नहीं देते ।
दुर्योधन—किस प्रकार से ?
धृतराष्ट्र—पुत्र युधिष्ठिर की प्रतिज्ञा सुनो—'मैं एक भी भ्राता के ऊपर संकट पड़ने
पर जीवित नहीं रह सकूँगा, युद्ध में छल और कपटों की बहुलता रहती है अतः भ्राताओं
के नाश की आशङ्का से युधिष्ठिर अभी तुम्हें अच्छा लगे तभी सन्धि के लिए उद्यत हैं ।
संजय—है तो ऐसा ही ।
गान्धारी—पुत्र ! युक्तियुक्त पिता के वचन को स्वीकार कर लो ।
दुर्योधन—पिता, माता और संजय !
एक भी कनिष्ठ भ्राता की मृत्यु हुए बिना ही युधिष्ठिर ने मरण की प्रतिज्ञा की है.

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०९
भ्रातॄणां निहते शते विषहते दुर्योधनो जीवितुम् ।
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिना
भीमं दिक्षु न विक्षिपामि कृपणः सन्धिं विदध्यामहम् ॥ ७ ॥
गान्धारी—हा जाद दुस्सासण, हा मदङ्कदुल्ललिद, हा जुअराअ
अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणी
हंद गन्धारी, दुक्खसदं पसूदा ण उण सुदसदम् । ( हा जात दुःशासन, हा
युवराज, अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हन्त
गान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् । )
( सर्वे रुदन्ति । )
संजयः—( बाष्पमुत्सृज्य । ) तात, अम्ब, प्रतिबोधयितुं महाराजमिमां
पार्थः = पृथापुत्रो युधिष्ठिरः, एकेन, अपि अनुजेन = भ्रात्रा, विना एकस्य
भ्रातुर्मरण इत्यर्थः । मरणम् = स्वमृत्युम् प्रतिज्ञातवान् । युधिष्ठिरस्येयं प्रतिज्ञाऽऽ-
सीद् यदेकस्यापि भ्रातुर्मरणेऽहं न प्राणान् धारयिष्यामीति । दुर्योधनः, भ्रातॄणाम्
शते, ( अपि ) निहते, जीवितुम्, विषहते = शक्नोति समर्थोऽस्तीत्यर्थः । अनुचित-
मिदमिति भावः । दुःशासनशोणिताशनम् = दुःशासनरुधिरपायिनम् अरिम्, गदा-
कोटिना = गदाग्रेण, भिन्नम् = विदीर्णम्, तम् = आततायिनम् भीमम्, दिक्षु = दिशाम्,
न, विक्षिपामि, किन्तु विक्षिपाम्येव । कृपणः = कदर्यः, ( सन् ), अहम् सन्धिम्,
विदध्याम् = कुर्याम्, न कुर्यामिति भावः । भीमविनाश एव श्रेयान् न पुनः सन्धि-
रिति भावः । अत्र यमकं शब्दालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ७ ॥
ईदृशी = जीवन इव दुःशासनस्य वक्षसो रुधिरपानरूपा ।
महाराजं = दुर्योधनम्, प्रतिबोधयितुम् = आश्वासयितुम्, इमाम् भूमि = युद्ध-
और सौ भ्राताओं के मृत्यु के मुखमें चले जाने पर भी दुर्योधन जीवित रहना चाहता है ।
दुःशासन के रक्त पीने वाले उस शत्रु भीम को दिक्पालों के लिए [ यदि ] मैं बलि नहीं
बनाता [ तो फिर ] बेचारा बनकर सन्धि करूँगा [ अर्थात् भीम के वध से मेरा मनोरथ सिद्ध
होगा न कि सन्धि करने से ] ॥ ७ ॥
गान्धारी—हाय बेटा दुःशासन, हाय मेरी गोद के लाल, हाय युवराज ! संसार में इस
प्रकार की विपत्ति किसी भी व्यक्ति पर आज तक नहीं सुनो गई । हाय सौ वीरों को जन्माने
वाली गान्धारी तुम्हें धिक्कार है । तूने सौ तरह की विपत्तियों को उत्पन्न किया न कि सौ
पुत्रों को ।
(सब रोते हैं)
संजय—(आँसू पोंछता हुआ ) पिता जी और माता जी ! आप लोग महाराज को
१४ दे०

२१० वेणीसंहार नाटकं
भूमिं युवामागतौ । तदात्माऽपि तावत्संस्तभ्यताम् ।
धृतराष्ट्रः—वत्स दुर्योधन, एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति
सहजं मानबन्धमरिषु त्वदेकशेषजीविताम्बनेयं तपस्विनी गान्धारी कमव-
लम्बतां शरणमहं च ।
दुर्योधनः—श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः
प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः ।
स्थानम्, युवां = गान्धारीधृतराष्ट्रौ आगतौ । संस्तभ्यतां—स्थिरीक्रियताम् अवल-
म्ब्यताम् प्रतिबोध्यमानस्याग्रे स्वयमेव यदि धैर्यच्युतः स्यात्तदा प्रतिबोध्यमानो
जनोऽतीव विह्वलः स्यादतः साम्प्रतं युवयोर्विलापो न युक्त इति भावः ।
विमुखेषु=विपरीतेषु प्रतिकूलेष्वित्यर्थः । भागधेयेषु = भाग्येषु (सत्सु) अरिषु=
शत्रुपु, मानबन्धम् = अहङ्कारग्रन्थिम् अमुञ्चति, च त्वयि, त्वदेकशेषजीवितावल-
म्बना=त्वम् एकः शेषः अवशिष्टः जीवितावलम्बनम् प्राणाधारः यस्याः सा । शरणम्=
रक्षितारम्, 'शरणं गृहरक्षित्रोः' इत्यमरः ।
अन्वयः—कलितभुवनाः, भुक्तैश्वर्याः, तिरस्कृतविद्विषः, प्रणतशिरसाम्, राज्ञाम्,
चूडासहस्रकृतार्चनाः, अरीन्, अभिमुखम्, घ्नन्तः, सङ्ख्ये, शतम्, आत्मजाः, हताः,
अम्बया, सहितः, तातः, सगरेण ऊढाम्, धुरम् वहतु ॥ ८ ॥
धैर्यमेव शरणमित्याह-कलितभुवना इति । कलितभुवनाः=कलितम् आयत्तीकृतं
भुवनं लोकः यैः ते, भुक्तैश्वर्याः = प्राप्तैश्वर्यभोगाः तिरस्कृतविद्विषः = अवमानित-
शत्रवः, प्रणतशिरसाम् = नतमस्तकानाम्, राज्ञाम्, चूडासहस्रकृतार्चनाः = चूडा-
आश्वासित करने के लिए यहाँ पर आये हैं अतः पहले अपने को तो आश्वासन दीजिये ।
धृतराष्ट्र-पुत्र दुर्योधन ! इस प्रकार से विधाता के वाम होने पर और तुम्हारे शत्रु-
विषयक स्वाभाविक अभिमान के परित्याग न करने पर तपस्विनी गान्धारी, जिसके लिए
केवल तुम्हीं एक जीवनाधार बच गए हो, किसका आधार ले और मैं भी किसकी शरण में
जाऊँ ?
दुर्योधन-सुनिए जो करने का समय उपस्थित है-
[आपके] शतसंख्याकपुत्र, जिन्होंने भूमण्डल का शासन किया है; सम्पत्तियों का
उपभोग कर लिया है शत्रुओं को तृण-समान भी नहीं समझा है, नतमस्तक राजाओं के
सहस्रों मस्तकों से पूजित होते हुए और सम्मुख आए शत्रुओं का संहार करते हुए

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २११
अभिमुखमरीन्संख्ये घ्नन्तो हताः शतमात्मजा
वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥ ८ ॥
विपर्यये त्वस्याविपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।
( नेपथ्ये महान्कलकलः । )
गान्धारी - ( आकर्ण्य । सभयम् ! ) जाद, कहिं एदं हाहाकारमिस्सं तूर-
रसिदं सुणोअदि । ( जात, कुत्रैतत् हाहाकारमिश्रं तूर्यरसितं श्रूयते । )
संजयः - अम्ब, भूमिरियमेवंविधानां भीरुजनत्रासजननी महानिना-
दानाम् ।
सहस्रैः शिखासह्त्रैः कृतम् अर्चनं येषाम् ते, अरीन् = शत्रून्, अभिमुखम् = सम्मु-
खम्, घ्नन्तः, = हिंसन्तः, सङ्ख्ये = रणे, शतम् आत्मजाः = पुत्राः, हता, अत एता-
दृशकृतकृत्यपुत्रमरणेन न धैर्यत्यागः कार्य इति भावः । तत्र दृष्टान्तमुद्रया धैर्येण-
राज्यभारग्रहणं कार्यमित्याह वहतु सगरेणेति । अम्बया, सहितः, तातः = पिता,
सगरेण = सगरनामकसूर्यवंशीयनृपेण ऊढाम् , धुरम् = भारम् वहतु । यथा सगरना-
मकनृपः कपिलक्रोधेन षष्टिसहस्रपुत्राणां विनाशेऽपि धैर्यमालम्ब्य चिरं राज्यं चकार
तथैव तातो राज्यं करोत्विति भावः । अत्र निदर्शनालङ्कारः । हरिणी छन्दः ॥ ८ ॥
रसितम् = शब्दः ।
एवंविधानाम् = हाहाकारादिमिश्राणाम्, महानिनादानाम्, भीरुजनत्रास-
युद्ध में समाप्त हो गए हैं । (अब) पिता जी (आप) माता जी के साथ सगर के द्वारा
वहन किए हुए भार को वहन करें अर्थात् जिस प्रकार पृथ्वीमण्डल का शासन करते हुए,
विविध प्रकार के ऐश्वर्यों का उपयोग करते हुए, शत्रुओं को पराजित करते हुए और राजन्यवर्ग
से पूजित होते हुये सगर के साठ हजार पुत्र कपिल की शापज्वालारूपी युद्ध में विदग्ध होकर
समाप्त हो गये । उपरान्त राजा सगर ने ही पृथ्वी के शासन का भार उठाया था वही भार
अब आप उठायें । आपके पुत्रों में और सगर के पुत्रों में कोई भेद नहीं, बल और पुरुषार्थ में
कोई भी किसी से न्यून नहीं है बस न्यूनता यही है कि सगर के साठ हजार पुत्र थे आपके
सौ ही पुत्र हैं ॥ ८ ॥
इसके विपरीत करने से राजा के क्षत्रियधर्म की मर्यादा नहीं रह जायगी ।
गान्धारी- (सुनकर भयभीत होती हुई ) पुत्र ! यह हाहाकार त्राहि त्राहि की पुकार
के साथ रणभेरी का नाद कहाँ से सुनाई पड़ रहा है ।
संजय-माताजी, यह तो भीरुलोगों को भय उत्पन्न करने वाले इस प्रकार के भीषण
निर्घोषों का स्थान ही है ।

२१२ वेणीसंहारं नाटकं
धृतराष्ट्रः-वत्स सञ्जय, ज्ञायतामति भैरवः खलु विस्तारी हाहारवः ।
कारणेनास्य महता भवितव्यम् ।
दुर्योधनः-तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि
किञ्चिदत्याहितं न श्रावयति तावदेवाज्ञापय मां सङ्ग्रामावतरणाय ।
गान्धारी-जाद, मुहुत्तं दाव मं मन्दभाइणीं समस्ससिहि । (जात,
मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।)
धृतराष्ट्रः-वत्स, यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रती-
घातोपायश्चिन्त्यताम् ।
दुर्योधनः -
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः
जननी = भीतजनोद्वेगोत्पादिका, इयम्, भूमिरित्यन्वयः । क्वचित्तु अभूमिरियमेवं-
विधानां भीरुजनानामिति पाठः । तत्र अभूमिः = अस्थानम् ।
कारणेनेति-महत्कारणमस्य भवेदित्यर्थः । भवितव्यमिति भावे तव्यप्रत्ययः ।
पराङ्मुखम् = विपरीतम् अनिष्टकारकमित्यर्थः । अत्याहितम् = महाभीतिः
अनर्थमित्यर्थः । 'अत्याहितं महाभीति'रित्यमरः ।
रहः प्रतिघातोपायः = 'एकान्ते विनाशोपायः छद्मना हन्यतामित्यर्थः ।
अन्वयः - मम, प्रत्यक्षम्, हतबान्धवाः, परे, रहः, हन्तुम्, योग्याः, न, इह, रणे,
यत्, कृतम्, (कर्म] तैः, प्रकाश्यम्, न (भवति) तेन, कृतेन, किं वा, (हे)
मात:, अहम् , भवतीसुतक्षयकरः, एकः, अरयः, कियन्तः केवलम्, दैवम्, साम्यम्
एतु, अधुना मेदिनी, निष्पाण्डवा, (भविष्यति) ॥ ९ ॥
वीरजनयोग्योऽयं विचारो नेत्याह-प्रत्यक्षमिति ।
धृतराष्ट्र-बेटा संजय ! अत्यन्त प्रचण्ड तथा शीघ्रता से बढ़ते चले आते हुए हाहाकार
का पता लगाओ । इसमें कोई प्रधान कारण अवश्य होगा ।
दुर्योधन-पिताजी; क्षमा कीजिए विधाता हम लोगों के विपरीत अवश्य है । जब तक
और कोई दूसरी विपत्ति नहीं श्रुतिगोचर होती तब तक ही मुझे युद्ध में उतरने के लिए आज्ञा
प्रदान कीजिए ।
गान्धारी-क्षण मात्र तो मुझ अभागिनी को आश्वासित करो ?
धृतराष्ट्र-पुत्र ! यद्यपि तुमने, युद्ध का विचार दृढ़ कर लिया है तथापि गुप्त रूप से
शत्रुविनाश का उपाय सोचते रहो ।
दुर्योधन-मेरे कुटुम्ब का वध प्रत्यक्ष रूप से किया गया है अतः अप्रत्यक्ष रूप से शत्रुओं

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१३
किं वा तेन कृतेन तैरिह कृतं यन्न प्रकाश्यं रणे ।
गान्धारी—जाद, एआइ तमम् । को दे सहाअत्तणं करिस्सदि । ( जात,
एकाकी त्वम् । कस्ते साहाय्यं करिष्यति । )
एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः ।
साम्यं केवलमेतु दैवमद्यना निष्पाण्डवा मेदिनी ॥ ९ ॥
( नेपथ्ये । कलकलानन्तरम् । )
भो भो योधाः, निवेदयन्तु भवन्तः कौरवेश्वराय, इदं महत्कदनं
मम, प्रत्यक्षम् = समक्षम्, हतबान्धवाः = हताः बान्धवा येः, ते, परे = शत्रवः,
रहः=विविक्ते, हन्तुम्, योग्याः, न, प्रत्यक्षमपकारकर्तुः प्रत्यक्षमेवापकारः कर्त्तव्य इति
नीतिः । इह = जगति, रणे यत्, कृतम्, ( कर्म ) तैः = शत्रुभिः, प्रकाश्यम् =
ज्ञाप्यम् ख्यापनीयम् न, भवतीति शेषः । तेन, कृतेन, कर्मणा, किं वा, न किमपी-
त्यर्थः । तदेव कर्म करणीयं यच्छत्रुभिरपि प्रशंसनीयं भवेदिति भावः । तत्र वचन-
मध्य एव गान्धारी आह—जातेति । सहायकाभावादेवं न करणीयमिति भावः ।
पुनदुर्योधनस्त्वाह—एकोऽहमिति । ( हे ) मातः । अहम्, भवतीसुतक्षयकरः, पुत्र-
विनाशे हेतुत्वादिति भावः । अत एव एकः = असहायः तथा च असहायोऽहं किमपि
कतुं न शक्नोमि तथापि भाग्यमेव सहायकं स्यादित्युच्यते साम्यमिति । ( जगतत्रय-
क्षयकर इति पाठस्तु भ्रान्तिमत्तः साम्यं केवलमित्यादेरसङ्गत्वपत्तेः, न हि लोकत्रय-
क्षये समर्थः दैवमपेक्षेत स्वयमेव तस्य बलवत्त्वादिति ध्येयम् । ) अरयः = शत्रवः,
कियन्तः, केवलम्, दैवम् = भाग्यम्, साम्यम् = समताम्, एतु = प्राप्नोतु, अधुना,
मेदिनी = पृथ्वी, निष्पाण्डवा = पाण्डवरहिता, भविष्यतीति शेषः । मत्कर्तृकपाण्डव-
हननादिति भावः । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥
कदनम् = भीषणम्, भयावहमित्यर्थः 'कदनं भीषणे पापे' इति विश्वः । अप्रिय-
का वध करने के लिए मेरा रथ समर्थ नहीं है । उनकी ( शत्रुओं की ) भाँति सङ्ग्राम में
प्रच्छन्नता से जो कार्य नहीं किया तो उस कार्य करने से क्या प्रयोजन ? ।
गान्धारी—पुत्र ! तुम निस्सहाय हो कौन तुम्हारी सहायता करेगा ?
दुर्योधन—माताजी ! आपके पुत्रों का विनाश कराने वाला मैं एक हूँ, विपक्षी ( शत्रु )
कितने हैं (अर्थात् अधिक हैं) इस समय केवल विधाता दोनों के समान हो जाय तो बस,
वसुन्धरा को पाण्डवों से शून्य समझना चाहिए ॥ ९ ॥
( नेपथ्य में कलकलध्वनि के पश्चात् )
अरे अरे शूरवीरो ! आप लोग कौरवनरेश से निवेदन कर दीजिए कि यह महान् अनर्थ

२१४ वेणीसंहार नाटकं
प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्य-
मिदानीम् । तथा हि—
त्यक्तप्राजनरश्मिरङ्किततनुः पार्थारङ्कितैर्मार्गणै-
र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः ।
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां
शून्येनेव रथेन याति शिविरं शल्यः कुरूञ्छल्ययन् ॥ १० ॥
श्रवणपराङ्मुखतया=कर्णवधश्रवणविमुखतया, अलम् = व्यर्थम् ।
अन्वयः - पार्थारङ्कितैः, मार्गणैः अङ्किततनुः त्यक्तप्राजनरश्मिः स्यन्दनवर्त्मनाम्,
परिचयात्, वाहैः, शनैः आकृष्यमाणः, अङ्गपतेः वार्ताम्, पृच्छताम्, ( जनानाम् )
विलोचनजलैः आवेदयन, कुरून्, शल्ययन, शून्येनेव, एव, रथेन, शल्यः, शिविरम्,
याति ॥ १० ॥
अस्पष्टोक्त्या कर्णवधमाह—त्यक्तप्राजनेति ।
पार्थारङ्कितैः-अर्जुननामाङ्कितैः, मार्गणैः=शरैः, 'कलम्बमार्गणशराः' इत्यमरः,
अङ्किततनुः=चिह्नितशरीरः बहुभिः क्रियमाणे युद्धे कस्येमे शरा इति संशयनिवार
णार्थं योद्धा स्वशरे स्वनामाङ्कनं करोतीति युद्धरीतिः । त्यक्तप्राजनरश्मिः = त्यक्तौ
प्राजनरश्मी वृषभप्रेरकडण्डप्रग्रहौ येन सः, तथापि स्यन्दनवर्त्मनाम् = रथमार्गाणाम्
परिचयात्, वाहैः = अश्वैः, शनैः आकृष्यमाणः=नीयमानः यद्यपि शल्योऽश्वान्न
सञ्चालयति तथापि अश्वः येन मार्गेण गच्छति संस्कारवशात्तेनैव मार्गेणा प्रेर्यमाणो-
प्यागच्छति । स्वभावान्नतेनैव मार्गेणागच्छतीत्याशयः । अङ्गपतेः = कर्णस्य, वार्ताम्=
वृत्तान्तम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः अश्रुभिः, आवेदयन=ज्ञापयन्
कर्णो मृत इत्यश्रुभिरेव कथयन्निति भावः । कुरून दुर्योधनादीन्, शल्ययन् =
शङ्कुजयदुःखमिव दुःखं प्रापयन्, शून्येने-कर्णरहितेन, एव, रथेन, शल्यः=साम्प्र-
तिक, कर्णसारथिः शिविरम् = सैन्यनिवासस्थानम्, याति । अत्र यमकमलङ्कारः ।
शार्दूलविक्रीडितं छन्दः ॥ १० ॥
हो गया । अप्रिय संवादों के सुनने में उपेक्षा करने की आवश्यकता नहीं क्योंकि समयानुसार
अब उपाय तो करना ही होगा । क्योंकि—
शल्य ने ( घोड़े के ) कोड़े और रास ( लगाम ) को छोड़ दिया है । अर्जुन-नामाङ्कित
शरों से उसका शरीर चिह्नित हो गया है । रथ घोड़ों के द्वारा उसके मार्गों का परिचय होने के
कारण धीरे-धीरे खींचा जा रहा है । वह आँसुओं से समाचार को बतलाता हुआ तथा कौरवों
के हृदय में काँटे चुभोता हुआ ओछा ही रथ पर बैठकर सेना-शिविर को जा रहा है ॥ १०॥

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१५
दुर्योधनः — ( श्रुत्वा । साशङ्कम् ।) आः, केनेदमविस्पष्टमशनिपातदारुण-
मुद्घोषितम् । कः कोऽत्र भोः ।
( प्रविश्य संभ्रान्तः । )
सूतः —हा, हताः स्मः ( इत्यात्मानं पातयति ।)
दुर्योधनः —अयि, कथय ।
धृतराष्ट्रसंजयौ —कथ्यतां कथ्यताम् ।
सूतः —आयुष्मन्, किमन्यत् ।
शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयम् ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ११ ॥
अशनिपातदारुणम् = वज्रनिपातवद्भयावहम्, दारुणो 'रसभेदे ना त्रिषु तु
स्याद्भयावहे' इति विश्वः । उद्घोषितम् = शब्दितम् ।
अन्वयः—शल्येन, प्रविशता, यथा, जनौघः, मूर्च्छितः ( भवति ) ( तथा )
मनोरथम् इव, शून्यम्, कर्णस्य, रथम्, अधिरूढेन, शल्येन, अयम्, जनौघः,
मूर्च्छितः, ( अस्ति ) ॥ ११ ॥
शल्येनेति । शल्येन = शङ्कुनामकास्त्रविशेषेण 'वर्छा' इति ख्यातेन, प्रविशता ।
जनौघोऽयमित्यादिः । यथा, जनौघो मूर्च्छितः, भवतीति शेषः । तथा मनोरथम्, इव,
शून्यम्, कर्णस्य रथम्, अधिरूढेन = आरूढेन शल्येन = शल्यनामकनृपेण सारथीभूतेन,
अयम्, जनौघः = मदीयसैन्यम्, मूर्च्छितः, अस्तीति शेषः । यमकं पूर्णोपमा
चालङ्कारः । आर्या छन्दः ॥ ११ ॥
दुर्योधन—( सुनकर शङ्का के साथ ) अरे ! यह वज्रपात सदृश दुःसह उद्घोष अव्यक्त
रूप से किसने किया है ? कौन है; कोई यहाँ पर है ?
( प्रवेश करके व्याकुलाहट के साथ )
सूत—हाय ! हम लोग मर गए !! ( यह कह कर अपने को गिरा देता है ) .
दुर्योधन—अरे ! कहो ! कहो ।
धृतराष्ट्र और संजय—कहो ! कहो ?
सूत—चिरञ्जीविन् ! दूसरा क्या......?
जिस प्रकार प्रविष्ट होने वाले बाणों की नोक से जनसमूह मूर्च्छित हो जाता है उसी
प्रकार मनोरथ की भाँति शून्य कर्ण के रथ पर बैठकर प्रवेश करते हुए शल्य ने जनसमूह को
मूर्च्छित कर दिया है अर्थात् शल्य को अकेला कर्ण के रथ पर बैठकर आते हुए देख कर लोग
कर्ण की मृत्यु की शङ्का करके व्याकुल हो रहे हैं ॥ ११ ॥

२१६ वेणीसंहारं नाटकं
दुर्योधनः- हा वयस्य कर्ण ( इति मोहमुपगतः । )
गान्धारी-जाद, समस्सस समस्सस । (जात, समाश्वसिहि । समाश्वसिहि ।)
संजयः- समाश्वसितु देवः ।
धृतराष्ट्रः- भो कष्टं कष्टम्-
भीष्मे द्रोणे च निहते य आसीदवलम्बनम् ।
वत्सस्य च सुहृच्छूरो राधेयः सोऽप्ययं गतः ॥ १२ ॥
वत्स, समाश्वसिहि समाश्वसिहि । ननु भो हतविधे,
अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः
शोच्यां दशामुपगतः सह भार्ययाऽहम् ।
अन्वयः - भीष्मे, द्रोणे, च निहते, यः, वत्सस्य, सुहृद् शूरः च, अवलम्बनम्,
आसीत्, सः, राधेयः, अप्ययम् गतः ॥ १२ ॥
भीष्म इति । भीष्मे, द्रोणे, च, निहते, एतादृशवीरयोर्निपातेऽपि आसीदाशा यत्
कर्णो विजेत्ता स्यात्सोऽपि नास्तीत्याह-य आसीदिति । यः, वत्सस्य = पुत्रस्य सुहृत्
शूरः, च राधेयः = कर्णः, अवलम्बनम् = आश्रयः आसीत्, स. = कर्णः, अप्ययम् =
विनाशम् गतः । अनुष्टुप् छन्दः ॥ १२ ॥
हतविधे = दुर्देव, 'विधिर्विधाने दैवेऽपि' इत्यमरः ।
अन्वयः - अनुभूतशतपुत्रविपत्तिदुखः, अन्धः, अहम्, भार्यया, सह, शोच्याम्,
दशाम्, उपगतः, अशेषितसुहृद्गुरुबन्धुवर्गे, अस्मिन्, दुर्योधने, अपि, भवता, हि,
निराशः, कृतः ॥ १३ ॥
अन्धोऽनुभूतेति । अनुभूतशतपुत्रविपत्तिदुःखः = अनुभूतं शतपुत्राणां विपत्ति-
दुःखं विनाशजन्यशोको येन सः, भार्यया = स्त्रिया गान्धार्या, सह, अन्धः अहम्,
शोच्याम् = शोचनीयाम् दशाम्, उपगतः = प्राप्तः । तथापि तव सन्तोषो न जातो
दुर्योधन-हाय ! मित्र कर्ण ! (ऐसा कहकर मूर्च्छित हो जाता है)
गान्धारी-बेटा ! धैर्य धारण करो, धैर्य धारण करो ।
संजय-महाराज ! धैर्य रखिये, धैर्य रखिये ।
धृतराष्ट्र-विपत्ति ! विपत्ति !!
भीष्म और द्रोण के मारे जाने के पश्चात् मेरे पुत्र का परम मित्र, वीर कर्ण जो सहायक
था वह भी अब समाप्त हो गया ॥ १२ ॥
पुत्र ! धैर्य धारण करो । अरे क्रूर विधाता !
तुमने मुझ अन्धे को, जो सौ पुत्रों के नाश से दुःखित है तथा धर्मपत्नी के साथ

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१७
तस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे
दुर्योधनेऽपि कृतो भवता निराशः ॥ १३ ॥
वत्स दुर्योधन, समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।
दुर्योधनः- ( लब्धसंज्ञः । )
अयि कर्ण कर्णसुखदां प्रयच्छ मे
गिरमुद्गिरन्निव मुदं मयि स्थिराम् ।
सत्तताऽवियुक्तमकृताऽप्रियं प्रिय
वृषसेनवत्सले ! विहाय यासि माम् ॥ १४ ॥
हे हतविधे इत्याह - अस्मिन्निति । अशेषितसुहृद्गुरुबन्धुवर्गे = अशेषितः अनवशिष्टः
सुहृद्गुरुबन्धूनां वर्गः समुदायः यस्य तस्मिन्, सर्वेषां विनाशादिति भावः । अस्मिन्,
दुर्योधनेऽपि, भवता = हतविधिना, हि = निश्चयेन निराशः = आशारहितः अनाश्रयः,
कृतः अत्र काव्यलिङ्गमलङ्कारः । वसन्ततिलका छन्दः ॥ १३ ॥
लब्धसञ्ज्ञः - प्राप्तचेतन्यः विगतमूर्च्छ इत्यर्थः ।
अन्वयः - अयि, कर्ण, मयि, स्थिराम्, मुदम्, उद्गिरन्, इव, कर्णसुखदाम्,
गिरम् मे प्रयच्छ, (हे) प्रिय, वृषसेनवत्सल, सततावियुक्तम्, अकृताप्रियम्, माम्,
विहाय, यासि ॥ १४ ॥
अयि कर्ण मे = मह्यम्, गिरम् = वाणीम्, प्रयच्छ = देहि, कीदृशीं गिरमित्याह-
कर्णसुखदाम् = श्रवणप्रीतिजनिकां, क इव, मयि = दुर्योधने, स्थिराम्, मुदम् =
प्रीतिम्, उद्गिरन् = उद्बमन्, हे प्रिय = मित्र, सततावियुक्तम् = सततम् अवि-
युक्तम्, सर्वदा, एकत्र स्थितम् । एतेन मम त्यागस्त्वानुचित इति ध्वनितम् । एकत्र
स्थितावपि कृतानिष्टोऽहमित्यपि नेत्याह = अकृताप्रियमिति । अकृताप्रियम् = अस-
म्पादिनानिष्टम्, तया चैतादृशमित्रस्य परित्यागे स्वयमेव सम्बोधनद्वारा बीजमाह-
वृषसेनवत्सलेति । यतस्त्वं वृषसेने स्निग्धः वृषसेनस्तु स्वर्गंतोऽस्तस्त्वमपि तत्रैव
दयनीय दशा को प्राप्त हुआ है, मित्र, गुरु और कुटुम्बियों के वर्ग के समाप्त हो जाने पर
[ अवशिष्ट ] इस दुर्योधन के विषय में हताश कर दिया है ॥ १३ ॥
बेटा दुर्योधन ! धैर्य रखो, और तपस्विनी माता को धैर्य प्रदान करो !
दुर्योधन - ( चेतना को प्राप्त होकर )
अये कर्ण ! चिरस्थायी आनन्द की वर्षा करते हुए मुझे श्रुतिमधुर उत्तर दो । सर्वदा मुझ
से भिन्न न रहने वाले तथा अहित न करने वाले ऐ वृषसेनप्रिय ! मेरा परित्याग कर क्यों जा
रहे हो ? अर्थात् सर्वदा मेरे साथ रहकर मधुर भाषण करते हुए मेरे उपकार में लीन रहा करते
थे अब पुत्र के स्नेह के कारण मुझे छोड़कर क्यों जा रहे हो ? ॥ १४ ॥

२१८ . वेणीसंहारं नाटकं
( पुनर्मोहमुपगतः । सर्वे समाश्वासयन्ति । )
दुर्योधनः—
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात ! का कथा ? ॥ १५ ॥
अपि च ।
शोचामि शोच्यमपि शत्रुहतं न वत्सं
दुःशासनं तमधुना न च बन्धुवर्गम् ।
गच्छसीति भावः । माम् = एतादृशं दुर्योधनम्, विहाय = त्यक्त्वा, यासि । अत्र प्रथमे
यमकं द्वितीये उपमा चतुर्थे पदार्थगतकाव्यलिङ्गमलङ्कारः । मञ्जुभाषिणी छन्दः ॥
अन्वयः—मम, प्राणाधिके, तस्मिन्, अङ्गानाम्, अधिपे हते ( सति ) अहम्,
उच्छ्वसन्, अपि, लज्जे, ( हे ) तात, आश्वासे, का कथा ॥ १५ ॥
कर्णाभावेऽहं जीवामीत्यपि महदाश्चर्यमित्याह—ममेति ।
मम, प्राणाधिके=प्राणेभ्योऽपि श्रेष्ठे, तस्मिन्, अङ्गानाम्=अङ्गदेशानाम्, ‘अङ्गं-
गात्रे प्रतीकोपाययोः पुंस्यम्नि नीवृति’ इति मेदिनी । नीवृत् देशः तदुक्तममरे-
‘नीवृज्जनपदो देशः ।’ अधिपे, हते ( सति ) अहम्, उच्छ्वसन् = श्वासं गृह्णन्,
अपि, लज्जे ( तया च हे ) तात आश्वासे = धैर्यधारणे, का, कथा = चर्चा, आश्वा-
सस्तु नैव सम्भवतीत्याशयः । अनुष्टुप् छन्दः ॥ १५ ॥
अन्वयः—शोच्यम्, अपि शत्रुहतम् वत्सम्, दुःशासनम्, न शोचामि, अधुना
न च, तम्, बन्धुवर्गम्, ( शोचामि ) येन, कर्ण, अतिदुःश्रवम्, असाधु, कृतम्, तस्य,
कुलस्य, निधनम्, समरे, कर्ता, अस्मि, ॥ १६ ॥
कर्णघातिनः कुलं विनाशयिष्यामीत्याह—शोचामीति ।
शोच्यम् = अवश्यशोचनीयम्, अपि अनुजत्वादवश्यशोचनीयत्वात् । शत्रुह-
तम्, वत्सम् = अनुजम्, दुःशासनम्, न शोचामि, अधुना, न च, बन्धुवर्गम्,
( यह कहकर फिर चेतनारहित हो जाता है और सब लोग धैर्य प्रदान करते हैं )
दुर्योधन—मेरे प्राणों से बढकर उस अङ्गनरेश [ कर्ण ] के मर जाने पर जीवित रहने में
भी मुझे लज्जा मालूम पड़ती है, धैर्य की बात तो दूर रही ॥ १५ ॥
और भी—
इस समय न तो शोक करने के योग्य शत्रु के द्वारा मारे गए, प्रिय दुःशासन का
शोक और न अपने बन्धु तथा गुरुवर्गों का शोक करता हूँ किन्तु जिसने कर्ण के विषय में

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१९
येनातिदुःश्रवमसाधु कृतं तु कर्णे
कर्ताऽस्मि तस्य निधनं समरे कुलस्य ॥ १६ ॥
गान्धारी—जाद, सिढिलेहि दाव क्खणमेत्तं वाष्पमोक्खम् । (जात,
शिथिलय तावत्क्षणमात्रं वाष्पमोक्षम् ।)
धृतराष्ट्रः—वत्स, क्षणमात्रं परिमार्जयाश्रूणि ।
दुर्योधनः—
मामुद्दिश्य त्यजन्प्राणान् केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥ १७ ॥
सूत, केनैतदसंभावनीयमस्मत्कुलान्तरं कर्म कृतं स्यात् ।
शोचामि, इत्यनेनान्वयः । येन कर्त्रा, कर्णे, अतिदुःश्रवम् = अश्रवणार्हम्, असाधु =
अनुचितम् हननमित्यर्थः । कृतम्, तस्य, कुलस्य = वंशस्य, निधनं = हननम् विनाश-
मित्यर्थ । समरे, कर्ता, कृधातोस्तृन् प्रत्ययः अतो, 'न लोकाव्यये'ति षष्ठीनिषेधाद्
द्वितीया । अस्मि, पाण्डवक्षयमन्तरा किमपि न करिष्यामीति भावः । वसन्ततिलका
छन्दः ॥ १६ ॥
अन्वयः—माम्, उद्दिश्य, प्राणान्, त्यजन्, (यः,) केनचित्, न, निवारितः,
तत्कृते, वाष्पम्, त्यजतः, दीनस्य, मे, किम् वार्यते ॥ १७ ॥
मामिति । माम् = दुर्योधनम्, उद्दिश्य = अभिलक्षीकृत्य, प्राणान्, त्यजन्, य ,
इति शेषः । केनचित्, न, निवारितः, तत्कृते = तस्य कर्णस्यार्थम्, वाष्पम् = अश्रु,
त्यजतः, दीनस्य = दुर्गतस्य, मे = मम, किम् = कथम्, वार्यते त्वयेति शेषः । अनुष्टुप्
छन्दः ॥ १७ ॥
असम्भावनीयम् = कर्णवधरूपम्, अस्मत्कुलान्तरम् = कौरववंशविनाशकम्,
अनिष्ट आचरण, जो कानों के लिए अत्यन्त दुःखद है, किया है, सङ्ग्राम में मैं उसके कुल
का विनाश करनेवाला हूँ अर्थात् कर्ण के वध करनेवाले के कुल में किसी को जीवित न
छोड़ूँगा ॥ १६ ॥
गान्धारी—पुत्र ! क्षण मात्र के लिये अश्रुपात को अवकाश दे दो ।
धृतराष्ट्र—पुत्र ! क्षण मात्र के लिए आँसुओं को पोंछ लो ।
दुर्योधन—मेरे लिये प्राणोत्सर्ग करते हुए (कर्ण को) किसी ने निषेध नहीं किया ;
उसके लिए (कर्ण के लिए) अश्रुपात करते हुए मुझ बेचारे को क्यों निवारण किया
जाता है ? ॥ १७ ॥
ऐ सूत ! मेरे कुल की समाप्ति करने वाला यह कार्य, जिसकी कभी सम्भावना नहीं की
जाती थी, किसने किया होगा ?

२२० वेणीसंहारं नाटकं
सूतः -आयुष्मन्, एवं किल जनः कथयति ।
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ १८ ॥
दुर्योधनः—
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ १९ ॥
तात, अम्ब प्रसीदतम् ।
यदि कर्णो हतस्तदा तद्वियोगस्यासह्यत्वादहमपि न जीवितुं शक्नोमि अथवा कर्ण-
हन्तारं हन्तुं महासङ्ग्रामप्रवृत्तत्वान्ममापि प्राणसंशय इति भावः ।
अन्वयः—चक्रायुधसारथेः, अस्मत्सेनाकृतान्तस्य, तस्य, इन्द्रसूनोः, शरैः, भूमौ,
निमग्नचक्रः ( कर्णः ) निहतः, किल ॥ १८ ॥
अर्जुनः कर्णं हतवानित्याह - भूमाविति । चक्रायुधसारथेः = चक्रम् आयुधम्
यस्य स सारथिः यस्य, अस्मत्सेनाकृतान्तस्य = अस्मत्सैन्यस्य कृतान्तः यमराजः
तस्य, तस्य = प्रसिद्धस्य, इन्द्रसूनोः = अर्जुनस्य, शरैः, भूमौ, निमग्नचक्रः = निमग्नं
चक्रं रथाङ्गं यस्य सः 'चक्रः कोके पुमान् क्लीवं व्रजे सैन्यग्थाङ्गयोः' इति मेदिनी ।
कर्णः, इति शेषः । निहतः, किल । अर्जुनस्तस्य हन्तेति भावः । कर्णस्याभिशाप
आसीद् यदासन्नमरणे तव रथाङ्गं भूमौ निमग्नः स्यादिति भूमौ चक्रं निमग्नम् ।
आर्या छन्दः ।
अन्वयः— कर्णाननेन्दुस्मरणात्, क्षुभितः, शोकसागरः, वाडवेन, इव मे, क्रोध-
जेन, शिखिना, पीयते ॥ १९ ॥
कर्णेति । कर्णाननेन्दुस्मरणात् = कर्णमुखचन्द्रस्मृतेः क्षुभितः = उद्वेलितः, शोक-
सागरः इव, मे = मम, क्रोधजेन, वाडवेन = वाडवानलेन इव शिखिना = अग्निना,
पीयते = शोष्यते, अत्रोपमालङ्कारः । अनुष्टुप् छन्दः ॥ १९ ॥
सूत—महाराज ! लोग तो इस प्रकार कहते हैं—
भूमि के भीतर रथ के चक्के ( पहिया ) के धँस जाने पर मेरी सेना के लिए अन्तक (यम)
इन्द्रपुत्र अर्जुन के, जिनके सारथी चक्ररूपशस्त्रधारी भगवान् वासुदेव हैं बाणों से मारा
गया ॥ १८ ॥
दुर्योधन—कर्ण के मुखचन्द्र का स्मरण करके शोकसमुद्र विक्षुब्धित हो उठा है । मेरे
क्रोध से उत्पन्न ज्वाला वाडवाग्नि की भाँति उसका पान कर रही है ॥ १९ ॥
पिताजी और माता जी ! आप लोग क्षमा करें ।

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२१
ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥ २० ॥
धृतराष्ट्रः—( दुर्योधनं परिष्वज्य रुदन् । )
भवति तनय लक्ष्मीः साहसेष्वीदृशेषु
द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् ।
अन्वयः – दुःसहः, शोकजन्मा, अयम्, ज्वलनः, माम्, दहति, ( एवं ) समा-
नायाम्, विपत्तौ, मे, संशयितः, रणः, वरम् ॥ २० ॥
ज्वलन इति । दुःसहः, शोकजन्मा = शोकाज्जन्म यस्य सः, अयम्, ज्वलनः =
अग्निः, माम् दहति = भस्मीकरोति, ( एवं सति ) समानायाम् = तुल्यायाम्, यदि
सङ्ग्राममपि न करिष्यामि तदापि दाहान्मम मृत्युः स्यादेवातः सङ्ग्रामकरणाकरण-
योस्तुल्यत्वम् । विपत्तौ, मे संशयितः = प्राणसंशयस्थानम्, रणः = समरः, वरम् =
श्रेष्ठ । रणगमनं युक्तमस्माकं कदाचिज्जयोऽपि स्यादिति भावः । अनुष्टुप् छन्दः ॥
अन्वयः—( हे ) तनय, ईदृशेषु, साहसेषु लक्ष्मीः भवति, ( परम् ) भीमम्,
भीमम्, उत्प्रेक्ष्य, एतत्, हृदयम्, द्रवति ( हे ) मानशौण्ड, ते चेष्टितम् अनिकृति-
निपुणम्, अरीणाम् सङ्गरम् छलवहुलम्, ( अतः ) हा, हतः अस्मि ॥ २१ ॥
त्वं निश्छलः पाण्डवाश्छलीति कथं तव विजयः स्यादित्याह-भवतीति । तनय=
हे पुत्र । ईदृशेषु = सहायकाभावेऽपि युद्धगमनरूपेषु, साहसेषु लक्ष्मीः, भवति ।
सत्यं संशयः साहसेष्विति पाठे साहसेषु = युद्धगमनरूपेषु सत्यम् संशयः = जया-
जयविषयकसन्देहः, भवति, पूर्वपाठे परिमितव्यवहारः । उत्तरपाठे संशये हेतु
माह—द्रवतीति । भीमम् भीषणम् भीमम् = भीमसेनम् उत्प्रेक्ष्य = विज्ञाय, एतत्,
हृदयम्, द्रवति = भयाच्छिथिलीभवति, हे मानशौण्ड- मानमत्त 'शौण्डौ मत्ते
च विख्याते' इति विश्वः । ते=तव, चेष्टितम् = व्यापारः, अतिकृतिनिपुणम् =
शोक से उत्पन्न असह्य यह शोकाग्नि मुझे भस्म कर रहा है यदि दोनों प्रकार की
विपत्तियाँ [ युद्ध में मृत्यु पाना, शोकाग्नि में भस्म होना ] एक ही प्रकार की हैं तो संशय-
ग्रस्त युद्ध श्रेयस्कर होगा । अर्थात् शोक की ज्वाला से जलना ही पड़ेगा । युद्ध में तो मृत्यु.
निश्चित नहीं है कदाचित् मैं विजयी बन जाऊँ तो मृत्यु से बच जाऊँगा ऐसी अवस्था में शोक-
की ज्वाला में जलने की अपेक्षा युद्ध में जाना मेरे लिये अच्छा होगा ॥ २० ॥
धृतराष्ट्र—दुर्योधन का आलिङ्गन करके रोते हैं ।
पुत्र ! इस प्रकार के उत्साह से लक्ष्मी की प्राप्ति [ अवश्य ] होती है, [ परन्तु ] इस
भयङ्कर भीम को देखकर मेरा हृदय विदीर्ण हो रहा है । हे मानियों में अग्रगण्य ! तुम्हारा

२२२ वेणीसंहारं नाटकं
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड
छलबहुलमरीणां सङ्गरं हा हतोऽस्मि ॥ २१ ॥
गान्धारी—जाद, तेण एव सुदसडकन्दन्तेण विओदलेण समं समलं
अग्गसि । ( जात, तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे । )
दुर्योधनः —तिष्ठतु तावद् वृकोदरः ।
पापेन येन हृदयस्य मनोरथो मे
सर्वाङ्गचन्दनरसो नयनामलेन्दुः ।
पुत्रस्तवाम्ब तव तात नयैकशिष्यः
निकृतौ क्षेपे निपुणम् निकृतिनिपुणम् न निकृतिनिपुणम् अनिकृतिनिपुणम् क्षेपाकुशलम्,
छलरहितमित्यर्थः । अरीणाम् सङ्गरम् = सङ्ग्रामम्, छलवहुलम् = बहुस्खलितम्,
युद्धमर्यादारहितमित्यर्थः । 'अथ स्खलितं छद्म'त्यमरः ( अतः ) हा=दुःखम् 'हा
विषादे च शोके च कुत्सादुःखार्थयोरपि' इति मेदिनी । हतः, अस्मि, पाण्डवयुद्धं द्रोण-
भीष्मयोश्छलेन हतत्वात् छलवहुलम् । अतस्तव जयाऽसम्भव इति युद्धगमनं न वर-
मिति भावः । मालिनी छन्दः ॥ २१ ॥
वृकोदरेण = भीमेन, समरम्, मार्गयसे = अन्वेषयसि ।
अन्वयः—येन, पापेन मे, हृदयस्य, मनोरथः, सर्वाङ्गचन्दनरसः, नयनाम-
लेन्दुः, ( हे ) अम्ब, तव पुत्रः, ( हे ) तात, तव, नयैकशिष्यः, कर्णः, हतः, तत्र,
शराः, संपदि, पतन्तु ॥ २२ ॥
साम्प्रतमर्जुन एव हन्तव्य इत्याह—पापेनेति । येन, पापेन = पापिना, भूमौ
निमग्नचक्रस्य कर्णस्य, वधादिति भावः । मे=मम, हृदयस्य, मनोरथः, सर्वाङ्गचन्दन-
रसः = सर्वशरीरानन्दजनकत्वाच्चन्दनरसतुल्यः, नयनामलेन्दुः = नेत्रानन्दजनकत्वा-
त्स्वच्छचन्द्रतुल्यः, हे अम्ब=मातः, तव, पुत्रः, अतिप्रियत्वात्पुत्रतुल्यः हे तात, तव
चेष्टित ( युद्ध ) छलछिद्रों से रहित होता है और शत्रुओं का साँग्रामिक व्यापार कूटनीतिपूर्ण
रहता है । हाय मेरा सर्वनाश हो गया ॥ २१ ॥
गान्धारी—पुत्र ! क्या मेरे सौ कुमारों के लिए यमराज भीमसेन से युद्ध का अवसर
खोज रहे हो ।
दुर्योधन—भीम बैठा रहे ।
जिस दुरात्मा ने मेरे मनोऽभिलाष, सम्पूर्ण शरीर के लिए चन्दनरस और नेत्रों के लिये
विशद चन्द्र के सदृश कर्ण को, जो हे माताजी ! तुम्हारा पुत्र और हे पिताजी ! नीति-