सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य

( ९८ ) वेदान्तसार ।
अखण्ड चैतन्यका बोध होजायहै उस समय मैं नित्य, शुद्ध,
बुद्ध, मुक्त, सत्यस्वरूप, परमानन्द, अद्वितीय, ब्रह्म हूँ इस
प्रकार अखण्ड अन्तःकरण वृत्ति होती है वह अन्तःकरण
वृत्ति चैतन्यप्रतिबिंबित होती है तब वह चित्तवृत्ति चैतन्य
द्वारा प्रकाशित होकर प्रत्यगात्मा (जीव ब्रह्मका अभेद ज्ञान)
और अभिन्न परब्रह्म विषयक अज्ञानका नाश करदेतीहै। जैसे
वस्त्रके तन्तुका नाश होनेसे वस्त्र नष्ट हो जाताहै तिसी सम्पूर्ण
संसारके कारण अज्ञानका नाश होनेसे तदन्तर्गत अखण्डा-
कार अन्तःकरणकी वृत्तिभी नष्ट हो जातीहै ॥ ८५ ॥
तत्र वृत्तौ प्रतिबिम्बितं चैतन्यमपि यथा प्रदीप-
प्रभा आदित्यप्रभावभासनसमर्था सती तयाभिभू-
ताभवतितथास्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मा-
वभासनानर्हतया तेनाभिभूतं सत्स्वोपाधिभूता-
खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य
मुखत्वमात्रवत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति॥८६॥
( सं०टी० ) ननु तथाप्यखंडाकारवृत्तिप्रतिबिंबितचैत-
न्याभासस्य सत्त्वात्कथमद्वैतसिद्धिरित्याशंक्याह । तत्रेति ।
वृत्तिनिवृत्तौतत्प्रतिबिंबितचैतन्यस्य बिंबावभासनासमर्थत्वा-
द्वृत्त्युपाधिबाधेन तत्प्रतिबिंबचैतन्यमपि चैतन्यमात्रतयावशि-
ष्यते दर्पणोपाधिविगमे तत्प्रतिबिंबितमुखाभासस्य बिंबीभू-
तमुखमात्रतावशेषवदित्यर्थः । अयंभावः । शोधिततत्त्वंपदा-
र्थस्याधिकारिणः तद्विजृंभितगुरुशास्त्रादिभ्यः तत्त्वमसीत्युप-

संस्कृतटीका-भाषाटीकासमेत । ( ९९ )
देशेन अहं नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानंदानंताद्वयाखं-
डं ब्रह्मास्मीति चित्तवृत्तिरुदयमासादयति तदानीमेवतस्यामभि-
व्यक्ताखंडचैतन्यबलेन तत्परिपीडिताज्ञाननाशो भवति तदानीं
तत्कार्यस्य सर्वस्य नाशादभिव्यंजकवृत्तिरपि स्वयमेव कन-
करजोवद्दारुमथनजनिताग्निवदुदरस्थदुष्टजलशांत्यर्थं पीततप्त-
जलवच्च नष्टा भवति तदानीं तद्गताभासोपि स्वोपाधिभूतवृत्ति
नाशात्स्वप्रकाशात्मावभासमानासमर्थतया दर्पणविगमे त-
दुपाधिकस्य स्वाधिष्ठानमुखमात्रत्ववदधिष्ठानमात्रो भवतीति
वेदान्तसिद्धांत रहस्यमिति । अत्र तस्यानुभवः । "लोकाश्च
भ्रांतिपरमेमयिमोहजन्याः स्वमेंद्रजालमरुनीरसमाविचित्राः॥
व्युत्थानकालइह न स्युरलं विशुद्धप्रत्यङ्मुखाब्धिपरमामृताचि-
त्तवृत्तौ ॥ १ ॥ मत्तः परं न खलु विश्वमथापि भाति मध्ये
च पूर्वमपरं नरशृंगतुल्यम् । मायोत्थशास्त्रगुरुवाक्यसमुत्थ-
बोधभानुप्रभा विलसते क्व गतं न जाने ॥ २ ॥ निरतिशयसु-
खाब्धौ स्वप्रकाशे परेस्मिन् कथमिदमविवेकादुत्थितं स्रक्फ-
णीव ॥ क्व नु गतमधुना तद्देशिको वा श्रुतिर्वा परमविमलबोधे
ऽभ्युत्थितेहं न जाने ॥ ३ ॥" तदेतत्सर्वं मनसि निधायोपसं-
हरति । प्रत्यगभिन्नेति ॥ ८६ ॥
( भा०टी० ) जैसे दीपक की प्रभा सूर्य्यकी प्रभाके प्र-
काश होनेपर असमर्थ होकर अपने आप निष्प्रभ होजातीहै
तिसी प्रकार अन्तःकरण वृत्तिमें प्रतिबिम्बित चैतन्य स्वप्रकाश
स्वरूप ब्रह्म चैतन्यके प्रकाश करनेको समर्थ नहीं होताहै और

( १०० ) वेदान्तसार ।
स्वप्रकाश ब्रह्म चैतन्यसे स्वयं अभिभूत होजाताहै। और जैसे
दर्पणके न होनेपर मुखप्रतिबिम्ब मुखही रहता है तिसी प्र-
कार उपाधिभूतअन्तःकरणवृत्तिके न होनेपर स्वप्रकाश परब्रह्म
मात्रही रहताहै इस प्रकार ज्ञानियोंको “मैं ब्रह्म हूँ” इस प्र-
कार अनुभव होताहै ॥ ८६ ॥
एवञ्च सति “मनसैवानुद्रष्टव्यं। यन्मनसा न मनुते”
इत्यनयोः श्रुत्योरविरोधः । वृत्तिव्याप्यत्वाङ्गीका-
रेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात् । उक्तञ्च-
“फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतं । ब्रह्म-
ण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ॥ इति ।
स्वयंप्रकाशमानत्वान्नाभासउपयुज्यतइति ॥ ८७ ॥
( सं०टी० ) ननु “मनसैवानुद्रष्टव्यं मनसैवेदमवाप्तव्यं दृ-
श्यते त्वग्रया बुद्ध्या सूक्ष्मयासूक्ष्मदर्शिभिः। बुद्ध्यवलोकनसा-
ध्येस्मिन्वस्तुन्यस्तमिता यदि। बुद्धियोगमुपाश्रित्यमच्चित्तःसततं
भव”इत्यादिश्रुतिस्मृतीनां “यतोवाचोनिवर्तन्ते । अप्राप्यमन-
सासह । यन्मनसा न मनुते अन्यदेव तद्विदितादथोऽविदिताद-
धीद्धि । अविज्ञातं विजानतां विज्ञातमविजानतां । अनाशि-
नोप्रमेयस्य । यदिज्ञातं त्वया विप्रयन्नविज्ञातमात्मना । ता-
भ्यामन्यत्परंविद्धि यद्गेद्यंतज्जडम्”इत्यादि श्रुतिस्मृतीनांपरस्प-
रविरोधमाशंक्य परिहरति । एवमिति । एवमुक्तप्रकारेण अ-
ज्ञातचैतन्यस्य वृत्तिव्याप्यत्वांगीकारेण फलव्याप्यत्वे प्रति-
सिद्धे सतीत्यर्थः । तदेवाह वृत्तिव्याप्यत्वेति । अंतःकरणवृ-

संस्कृतटीका-भाषाटीकासमेत । ( १०१ )
त्तिरावरणनिवृत्त्यर्थमज्ञानावच्छिन्नं चैतन्यं व्याप्नोतीत्येतद्वृ-
त्तिव्याप्यत्वमंगीक्रियते आवरणभंगानंतरंस्वयं प्रकाशमानं चै-
तन्यं फलचैतन्यमित्युच्यते तस्मिन्फलचैतन्ये निष्फल का-
चिद्वृत्तिर्न व्याप्नोति आवरणभंगस्य प्रागेव ज्ञातत्वेन प्रयोज-
नाभावादित्यर्थः । अस्मिन् ग्रन्थे ग्रंथांतरं संवादयति । तदु-
क्तमिति । वृत्तिप्रतिबिंबितचैतन्याभासस्यापि फलचैतन्य-
प्रकाशकत्वं नेत्यत्रापि संमतिमाह । स्वयमिति ॥ ८७ ॥
(भा०टी०) पूर्वोक्त अनुभव प्रकार सिद्ध होनेपर “ब्र-
ह्म मन करके धारण किया जाता है । ब्रह्म मनसे धारण
नहीं किया जाताहै । ” इन परस्पर विरुद्ध दोनों श्रुतियोंका
विरोध भी दूर होगया । क्योंकि मनोवृत्तिद्वारा ब्रह्म विषयक
अज्ञानका नाश होताहै किन्तु अन्तःकरणवृत्तिमें प्रतिबिं-
म्बित चैतन्य परब्रह्मका प्रकाश नहीं करसक्ता । इस विषय
में प्रमाण भी है शास्त्रकारोंने अन्तःकरणप्रतिबिम्बित चैतन्य-
के द्वारा परब्रह्म चैतन्यके प्रकाशके निषेध पूर्वक अन्तःकरण-
वृत्तिके द्वारा तद्विषयक अज्ञानका नाश होना स्वीकार कि-
याहै क्योंकि परम ब्रह्म स्वप्रकाश स्वरूप है । इसी कारण उ-
सका प्रकाश दूसरेका कराहुआ नहीं होसक्ता है ॥ ८७ ॥
जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति । त-
थाहि अयं घट इति घटाकाराकारितचित्तवृत्तिर-
ज्ञातं घटं विषयीकृत्य तद्गताज्ञातनिरसनपुरःसरं
स्वगतचिदाभासेन जलमपि घटं भासयति । त-

( १०२ ) वेदान्तसार ।
दुक्तम्-“बुद्धितत्स्थचिदाभासौ द्वावपि व्यापृतो
घटं।तत्राज्ञानं धिया नश्येदाभासेन घटं स्फुरेत्”
इति। यथा प्रदीपप्रभा मण्डलमन्धकारगतं घटा-
दिकं विषयीकृत्य तद्गतान्धकारनिरसनपुरःसरं
स्वप्रभया तदवभासयतीति ॥ ८८ ॥
(सं०टी०) इदानीं जडपदार्थविषयकचित्तवृत्तेर्ब्रह्माका-
रवृत्त्यपेक्षया वैलक्षण्यं दर्शयितुमाह । जडपदार्थेति ।
अहं ब्रह्मास्मीत्यज्ञानावच्छिन्नब्रह्माकारा चित्तवृत्तिस्तदावर-
कमज्ञानमात्रं निवर्तयति। ब्रह्म तु स्वप्रकाशात्मत्वात्स्वयमेव प्र-
काशते न तु वृत्तिप्रतिबिंबितचिदाभासेन चैतन्यं प्रकाश्यते
तत्र तस्यासामर्थ्यात् । अयं घट इति घटाकाराकारितचित्त
वृत्तिस्तु घटावच्छिन्नचैतन्यावरकमज्ञानं निवर्त्य निवर्तमा-
ना स्वप्रतिबिंबितचिदाभासेन जडं घटमपि प्रकाशयति।अतः
ततो विशेषोस्तीत्यर्थः । एतदेव प्रपंचयितुं प्रतिजानीते । त-
थाहीति । जडपदार्थविषयिणीं चित्तवृत्तिमभिनीय दर्शयति ।
अयमिति । वृत्तिसंबंधात्प्राग्घटस्याज्ञातत्वात् अज्ञातं घटं वि-
षयीकृत्य प्रवृत्ताचित्तवृत्तिर्घटगताज्ञानं दूरीकुर्वाणा घटमपि
भासयतीत्यर्थः । अस्मिन्नर्थे वृद्धसंमतिमाह । तदुक्तमिति ।
बुद्धिश्च तत्र बुद्धौ प्रतिबिंबितचिदाभासश्च बुद्धितत्स्थचिदा-
भासौ द्वावेतौ बुद्धिचिदाभासौ घटं व्यापृतः । तत्र तयोर्मध्ये
धिया वृत्त्या घटाज्ञानं नश्येच्चिदाभासेन तु घटः स्फुरेदित्यर्थः ।
अत्रानुरूपं दृष्टांतमाह । यथेति । यथांधकारावस्थितघटादिकं