सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल-

संस्कृतटीका-भाषाटीकासमेत । ( ५७ )
पक्षी सर्पादिको अण्डज कहते हैं। स्वेद ( पसीना ) से उत्पन्न
होनेवाले यूका मशक आदि स्वेदज कहते हैं। पृथिवीको भेदकर
उत्पन्न होनेवाले वेल वृक्ष इत्यादिको उद्भिज्ज कहते हैं ॥ ५६ ॥
अत्रापि चतुर्विधस्थूलशरीरम् ॥ एकानेकबुद्धि-
विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल-
वद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं
वैश्वानरो विराडिति चोच्यते । सर्वनराभिमानि-
त्वाद्विविधं राजमानत्वाच्च अस्यैषा समष्टिः स्थूल-
शरीरं अन्नविकारत्वादन्नमयकोशः। स्थूलभोगाय-
तनत्वाज्जाग्रदिति चोच्यते ॥ ५७ ॥
( सं०टी० ) पूर्ववदत्रापि समष्टित्वं व्यष्टिभेदं दर्शयति।अ-
त्रापीति । चतुर्विधशरीरजातमपि शरीरमित्येकबुद्धिविषय-
तया वनवत्समष्टित्वं प्रत्येकं तत्तच्छरीरविषयतयाऽनेकबुद्धि
विषयत्वात् व्यष्टित्वं च लभत इत्यर्थः । अधुना भूरादिचतु-
र्दशभुवनांतर्गतचतुर्विधस्थूलशरीरसमष्ट्युपहितचैतन्यस्यवैश्वा
नरत्वापरपर्यायं वैराजत्वं दर्शयति । एतदिति । तत्र युक्ति-
माह । सर्वनराभिमानित्वादिति । सर्वप्राणिनिकायेष्वहमि-
त्यभिमानवत्त्वाद्वैश्वानरत्वं विविधं नानाप्रकारेण प्रकाशमा-
नत्वाच्च वैराजत्वं लभत इत्यर्थः । अस्येति । अस्य विरा-
ट्चैतन्यस्यैषा पूर्वोक्ता या ब्रह्मांडांतर्गतचतुर्विधस्थूलशरीर-
समष्टिरेव स्थूलशरीरमित्यर्थः । अन्नविकारत्वादिति । अन्नवि-
कारबाहुल्यादन्नमयत्वं आत्माच्छादकत्वात्कोशत्वं स्थूलशरी

( ५८ ) वेदान्तसार ।
रादिविषयप्रयुक्तसुखदुःखभोगायतनत्वाच्च स्थूलशरीरत्वं इं-
द्रियैरर्थोपलंभाज्जाग्रदवस्थात्वं घटत इत्यर्थः ॥ ५७ ॥
( भा०टी० ) जैसे वन वृक्षसमूहकी समष्टि है और सं-
म्पूर्ण वृक्ष वनकी व्यष्टि हैं और तालाब जलकी समष्टि है और
जल तालावकी व्यष्टि हैं । इसीप्रकार यहाँभी चार प्रकारके
शरीर एक जगह इकठे हुए समष्टि कहाते हैं और अलग अ-
लग व्यष्टि कहाते हैं । इसी स्थूलशरीरकी समष्टिसे उपहित
चैतन्य सर्व देहका अभिमानी अनेक प्रकारसे विराजमान वै-
श्वानर और विराट्शब्दसे कहा जाता है । इस समष्टिरूप
स्थूलशरीरको अन्नके विकारके निमित्त अन्नमयकोश कहते
हैं और वही समष्टि स्थूलभोगका स्थान है इसकारण जाग्रत्
शब्दसे कहा जाता है ॥ ५७ ॥
एतद्व्यष्ट्युपहितं चैतन्यं विश्वइत्युच्यते । सूक्ष्म-
शरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रवेष्टृ-
त्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरं अन्नविका-
रत्वात् अन्नमयकोषः । स्थूलभोगायतनत्वात्
जाग्रदिति चोच्यते ॥ ५८ ॥
( सं०टी० ) चतुर्विधं स्थूलशरीरं समष्ट्युपहितं चैतन्यं
सप्रपंचमभिधायेदानीं तद्व्यष्ट्युपहितं चैतन्यं अभिधत्ते । एत-
दिति । एतेषां चतुर्विधशरीराणां या व्यष्टिः तत्तच्छरीरव्य-
क्तिः तदुपहितं चैतन्यं विश्व इत्युच्यत इत्यर्थः। तत्र हेतुमाह ।
सूक्ष्मशरीराभिमानमिति। सूक्ष्मलिंगशरीराभिमानमपरित्यज्य

संस्कृतटीका-भाषाटीकासमेत । ( ५९ )
स्थूलशरीरेषु प्रविश्य तत्तत्स्थूलशरीरेषु सर्वेषु प्रत्येकमहामि-
त्यभिमानवत्त्वाद्विश्वत्वमित्यर्थः। अस्यापीति । अस्य विश्व-
चैतन्यस्याप्येषा तत्तच्छरीरव्यक्तिविशेषलक्षणा व्यष्टिः सैव
स्थूलशरीरमित्यर्थः। अत्राप्यन्नविकारबाहुल्यादन्नमयत्वं चै-
तन्याच्छादकत्वात्कोशत्वंइन्द्रियैरर्थोपलंभाज्जाग्रत्वं चक्रमेण
दर्शयति । अन्नविकारत्वादिति ॥ ५८ ॥
( भा०टी० ) व्यष्टिरूप स्थूलशरीरसे जो उपहित चैतन्य
है उसको विश्वशब्दसे कहते हैं । इसी कारण यह चैतन्य
सूक्ष्मशरीरके अभिमानको विना छोड़ेही स्थूलशरीरमें प्रवेश
करता है पूर्वोक्त व्यष्टिको स्थूलशरीर कहा है इसके अन्नवि-
कार स्वरूपको अन्नमयकोश कहते हैं। और वहीं व्यष्टि स्थू-
लभोगका स्थान है इसकारण जाग्रत्शब्दसे कहा जाता है ५८
तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कप्रचेतो-
ऽश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन
क्रमाच्छब्दस्पर्शरूपरसगन्धान् अग्नीन्द्रोपेन्द्रयम-
प्रजापतिभिः क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्च-
केन क्रमाद्वचनादानगमनविसर्गानन्दान्चन्द्रचतु-
र्मुखशङ्कराच्युतैःक्रमान्नियन्त्रितेनमनोबुद्ध्यहङ्का-
रचित्ताख्येनान्तरिन्द्रियचतुष्केन क्रमात् संश-
यनिश्चयाहङ्कार्यचैतांश्च सर्वानेतान् स्थूलवि-
षयाननुभवतः । “जागरितस्थानो बहिःप्रज्ञः”
इत्यादिश्रुतेः ॥ ५९ ॥