वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
७
एतान्येव वैश्यस्य ॥ १८ ॥
कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं च ॥ १९ ॥
तेषां परिचर्या शूद्रस्य नियता च वृत्तिः ॥ २० ॥
नियतकेशवेशाः सर्वे वा मुक्तकेशाः शिखावर्जम् ॥ २१ ॥
अजीवन्तः स्वधर्मेणानन्तरां यवीयसीं वृत्तिमातिष्ठेरन् ॥ २२ ॥
न तु कदाचिज्ज्यायसीम् ॥ २३ ॥
वैश्यजीविकामास्थाय पण्येन जीवतोश्मलवणमणिशाणकौशेयक्षौ-
माजिनानि च ॥ २४ ॥
तान्तवं रक्तं सर्वं च ॥ २५ ॥
कृतान्नं पुष्पफलमूलानि गन्धरसा उदकं चौषधीनां रसः सोमश्च
शस्त्रं विषं मांसं च क्षीरं च सविकारमयस्त्रपु जतु सीसं च ॥२६॥
अथाप्युदाहरन्ति ।
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयादिति ॥ २७ ॥
ग्रामपशूनामेकशफाः केशिनश्च सर्वे चारण्याः पशवो वयांसि दंष्ट्रि-
णश्च ॥ २८ ॥
धान्यानां तिलानाहुः ॥ २९ ॥
अथाप्युदाहरन्ति ।
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
कृमिर्भूतः श्वविष्ठायां पितृभिः सह मज्जतीति ॥ ३० ॥
18 एतान्येव त्रीणि B. F. H. 20. तेषां च B. Ban. ed. 21. °वेशाः E.
F. H. च मुक्तकेशाः F. चामुक्तकेशः E. 22. पापीयसीं F. 23. न कदाचित् B.
Ban. ed. H. 24. K. reads अपण्यं instead of अश्म; comp. also
Baudhāyana II, 4, 21. 26. पुष्पमूलफलानि च F. पुष्पमूलफलगन्धरसाः
Bh. वौषधीनां F. क्षीरं सविकारम्° Bh. 28. चारण्याः B. F. 29. Ban.
ed. wrongly connects this Sūtra with the preceding one. 30.
°दानादन्यद्यत्कुरुते B. Ban. ed. मज्जत इति B. Ban. ed. H., compare
also Baudh. II, 2, 29 and Manu. 10, 91.
वासिष्ठधर्म. २
८
कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन् ॥ ३१ ॥
तस्मात्साण्डाभ्यामनस्योताभ्यां प्राक्प्रातराशात्कर्षी स्यात् ॥ ३२॥
निदाघेपः प्रयच्छेत् ॥ ३३ ॥
लाङ्गलं पवीरवत्सुशेव ৺ सोमपित्सरु। तदुद्वपति गामविं प्रफव्यं च
पीवरीं प्रस्थावद्रथवाहनमिति ॥ ३४ ॥
[ लाङ्गलं पवीरवद्धीरवत्सुमनुष्यवदनडुद्वत्सुशेवं कल्याणनासिकं
कल्याणी ह्यस्य नासिका नासिकथोद्वपति दूरेपविष्यति सोमपि-
त्सरु सोमो ह्यस्य ग्रामोति तत्सरु तदुद्वपति गां चाविं चाजा-
नश्वानश्वतरखरोष्ट्रांश्च प्रफव्यं च पीवरीं दर्शनीयां कल्याणीं च
प्रथमयुवतीम् ॥ ३५ ॥ ]
कथं हि लाङ्गलमुद्धपेदन्यत्र धान्यविक्रयात् ॥ ३६ ॥
रसा रसैर्महतो हीनतो वा विमातव्याः ॥ ३७ ॥ विभातव्या इति
न त्वेव लवणं रसैः ॥ ३८ ॥ पाठः स्यात्
तिलतण्डुलपक्वानं विद्या मानुष्याश्च विहिताः परिवर्तकेन ॥ ३९ ॥
ब्राह्मणराजन्यौ वार्धुषी न दद्याताम् ॥ ४० ॥
अथाप्युदाहरन्ति ।
समर्घं धान्यमुद्धृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ ४१ ॥
ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत् ।
अतिष्ठद्भ्रूणहा कोट्यां वार्धुषिः समकम्पत इति ॥ ४२ ॥
31. Ban.ed.omits स्वयम् । 32. तस्माच्छण्डाभ्यां Bh.तस्माद्भाण्डाभ्याम-
नत्यूताभ्यां B. E. Comp. Baudh. II, 4, 21. 33. प्रयच्छेन्नातिपीडयन् E
F. 34.प्रवीरवत् गामवीं F. 35. This Sūtra explaining the preced-
ing Vedic verses seems to be an interpolation 39.मानुपाश्व Ban.
ed, मनुष्याश्व F. 40. वार्धुषीं B. Ban. ed. F. 42. भ्रूणहत्यां B. Ban. ed.H.
कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ॥ ४३ ॥
द्विगुणं हिरण्यं त्रिगुणं धान्यम् ॥ ४४ ॥
धान्येनैव रसा व्याख्याताः ॥ ४५ ॥
पुष्पमूलफलानि च ॥ ४६ ॥
तुलाधृतमष्टगुणम् ॥ ४७ ॥
अथाप्युदाहरन्ति ।
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम् ।
मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ ४८ ॥
राजा तु मृतभावेन द्रव्यवृद्धिं विनाशयेत् ।
पुनराजाभिषेकेण द्रव्यमूलं च वर्धते ॥ ४९ ॥
वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।
पञ्च माषास्तु विंशत्या एवं धर्मो न हीयत इति ॥
न हीयत इति ॥ ५० ॥
॥ इति वासिष्ठधर्मशास्त्रे द्वितीयोध्यायः ॥ २ ॥
अश्रोत्रिया अननुवाक्या अनग्नयो वा शूद्रसधर्माणो भवन्ति ॥ १॥
मानवं चात्र श्लोकमुदाहरन्ति
योनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २ ॥
नानुग्ब्राह्मणो भवति न वणिङ्न कुशीलवः ।
न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः ॥ ३ ॥
43. परिलुप्ताल्पाय F. 48. ˚आनुपूर्वशः B. Bh. E. 49. भृतिभावेन B.
Ban. ed. विभाजयेत् F. ˚अभिविकेण B. अभीषिकेण Ban. ed. तु instead of
च B. III. 1. शूद्रकर्माणः B. Ban. ed वा omit F, H. 3. ˚प्रेष्यां E. F,
१०
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चौरभक्तप्रदो हि सः ॥ ४ ॥
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्त्रशः समेतानां परिषत्त्वं न विद्यते ॥ ५ ॥
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः ।
तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति ॥ ६ ॥
चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्त्रशः ॥ ७ ॥
श्रोत्रियाय च देयानि हव्यकव्यानि नित्यशः ।
अश्रोत्रियाय दत्तं हि पितॄन्नैति न देवताः ॥ ८ ॥
यस्य चैकगृहे मूर्खो दूरे वापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ९ ॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ १० ॥
यश्च काष्ठमयो हस्ती यश्च चर्ममयो मृगः ।
यश्च विप्रोनधीयानस्त्रयस्ते नामधारकाः ॥ ११ ॥
विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रेषु भुञ्जते ।
तान्यनावृष्टिमृच्छन्ति महद्वा जायते भयमिति ॥ १२ ॥
अप्रज्ञायमानं वित्तं योधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय १३
ब्राह्मणश्चेदधिगच्छेत्षट्सु कर्मसु वर्त्तमानो न राजा हरेत् ॥ १४ ॥
4. अत्रात्या F. चोरेभक्त° E. 6. धर्ममतद्विदुः F. H. अनुगच्छति B. E. H.
तद्वक्तृं न तु गच्छति F. अजानन्तः F. K. 7. चत्वारोपि F. नेतरेषां कदाचन F.
8. श्रोत्रियायेव F. H. 9. चैव गृहे F. 9. and 10., comp. Baudh. I. 10.
27, 11, यथा instead of यश्च B,
११
आततायिनं हत्वा नात्र प्राणच्छेदतुः किञ्चित्किल्विषमाहुः ॥ १५ ॥
अथाप्युदाहरन्ति ।
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ १६ ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १७ ॥
स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तन्मन्युमृच्छतीति ॥ १८ ॥
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णश्चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्म-
देयानुसन्तानश्छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणविद्यश्च धर्मा-
नधीते यस्य च दशपुरुषं मातृपितृवंशः श्रोत्रियो विज्ञायते
विद्वांसः स्नातकाश्चैते पङ्क्तिपावना भवन्ति ॥ १९ ॥
चातुर्विद्यं विकल्पी च अङ्गविद्धर्मपाठकः ।
आश्रमस्थास्त्रयो मुख्याः पर्षदैषां दशावरा ॥ २० ॥
उपनीय कृत्स्नं वेदमध्यापयेत्स आचार्यः ॥ २१ ॥
यस्त्वेकदेशं स उपाध्यायः ॥ २२ ॥
यश्च वेदाङ्गानि ॥ २३ ॥
आत्मत्राणे वर्णसंवर्गे ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् ॥ २४ ॥
क्षत्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् ॥ २५ ॥
15. After that Sūtra F. only reads षड्विधा ह्याततायिनः 17 वेदान्तगं
रणे B. Ban ed. वेदान्तिगं रणे Vīr. p. 6; comp. also Mahābhāratam
XII, 34, 17. 18. न तेन भ्रूणहा भवति मन्युस्तन्मन्युमृच्छति B. H. 19. त्रिना-
चिकेतः B. H. 20. चातुर्विद्यस्त्रिकल्पी च Ban. ed. चातुर्वैद्यं विकल्पी च
Baudhāyana I. 1. 8. विकल्पे च Bh. दशावरेति B. H. 21. उपनीय यः B.
Bh. H. उपनीय तु यः F. 24. वर्णसंवर्गे वा B. धर्मसंवर्गे E. H. वर्णसङ्करे
वा F.
१२
प्रक्षाल्य पादौ पाणी चा मणिबन्धात्प्राग्वोदग्वासीनोऽङ्गुष्ठमूलस्यो-
त्तररेखा ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवत् ॥ २६ ॥
द्विः परिमृजीत ॥ २७ ॥
खान्यद्भिः संस्पृशेत् ॥ २८ ॥
मूर्धन्यपो निनयेत्सव्ये च पाणौ ॥ २९ ॥
व्रजंस्तिष्ठञ्छयानः प्रणतो वा नाचामेत् ॥ ३० ॥
हृदयङ्गमाभिरद्भिर्बुद्बुदाभिरफेनाभिर्ब्राह्मणः ॥ ३१ ॥
कण्ठगाभिस्तु क्षत्रियः ॥ ३२ ॥
वैश्योद्भिः प्राशिताभिः ॥ ३३ ॥
स्त्रीशूद्रं स्पृष्टाभिरेव च ॥ ३४ ॥
अ्रदरादपि या गोस्तर्पणसमर्थाः स्युः ॥ ३५ ॥
न वर्णगन्धरसदुष्टाभिर्याश्च स्युरशुभागमाः ॥ ३६ ॥
न मुख्या विप्रुष उच्छिष्टं कुर्वन्त्यनङ्गस्पृष्टाः ॥ ३७ ॥
सुप्त्वा भुक्त्वा क्षुत्वा पीत्वा रुदित्वा स्नात्वा चान्तः पुनराचामे-
द्वासश्च परिधाय ॥ ३८ ॥
ओष्ठौ संस्पृश्य यन्नालोमकौ ॥ ३९ ॥
न श्मश्रुगतो लेपः ॥ ४० ॥
दन्तवद्दन्तसक्तेषु यच्चान्तर्मुखे भवेन्निगिरेच्च तच्छुचिरिति ॥ ४१ ॥
परानप्याचामयतः पादौ या विप्रुषो गताः ।
ताभिर्नोच्छिष्टतां यान्ति भूम्यास्तास्तु समाः स्मृताः ॥ ४२ ॥
26. ॰उत्तरतो रेखा B. F. H. ब्राह्मं E. विराचामेत° Ban. ed. M st
probably it has to be read आसीनो ब्राह्मतीर्थेन त्रि° as the nominatives
अङ्गुष्ठमूलस्योत्तररेखा are undoubtedly added by interpolation. 27
परिसृज्यात् F. 28. खान्यद्भिरद्भिः B. H. 32. क्षत्रियः शुचिः F. H. 33.
प्राशिताभिस्तु. B. F. H. 34. एव तु B. H. 35. यो गोस्तर्पणा. Bh. E. H.
38. चास्वान्तः F. 39: अलोमकौ. Bh. E. 4.. यच्चाप्यन्तर्मुखे B. H. अन्तर्मुखी
Bh. भवेदाचान्तस्यानिगिरंश्चैव तच्छुचिः F. 42. परानन्यानाचामयत B. ed,
भूम्यास्ताश्च. F. H.
१३
चरन्नभ्यवहारेषु उच्छिष्टं यदि संस्पृशेत् ।
भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥ ४३ ॥
यद्यन्मीमांस्यं स्यादद्भिः संस्पृशेत् ॥ ४४ ॥
श्वहताश्च मृगा वन्याः पातितं च खगैः फलम् ।
बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥ ४५ ॥
प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च ॥ ४६ ॥
मशकैर्मक्षिकाभिश्च निलीनैर्नोपहन्यते ।
क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः । तृप्तिकर्य इति पाठे
परिसंख्याय तान्सर्वाञ्शुचीनाह प्रजापतिरिति ॥ ४७ ॥
लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ॥ ४८ ॥
तैजसमृन्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहनतक्षणधाव-
नानि ॥ ४९ ॥
तैजसवदुपलमणीनाम् ॥ ५० ॥
मणिवच्छङ्खशुक्तीनाम् ॥ ५१ ॥
दारुवदस्थ्नाम् ॥ ५२ ॥
रज्जुविदलचर्मणाञ्चैलवच्छौचम् ॥ ५३ ॥
गोवालैः फलमयानाम् ॥ ५४ ॥
गौरसर्षपकल्केन क्षौमजानाम् ॥ ५५ ॥
भूमेस्तु संमार्जनोपलेपनोल्लेखनप्रोक्षणोपकरणैर्यथास्थानं दोषविशे-
षात्प्रायत्यमुपैति ॥ ५६ ॥
अथाप्युदाहरन्ति ।
खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि ।
चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ५७ ॥
43. प्रच° H. प्रचरन्त्यवहारे॑षु F. 44. स्यात्तदद्भिः B. E. 46. निलीनं F.
निलन्तं E. H. 49. ॰रवतां नवानां H, ॰प्रदाहतक्ष° B. F. ॰प्रदाहलक्ष॰. H. 51.
शुक्लीनां. H. 56. भूमिं तु F. H. 57. वर्षात् F. H. ॰गोमिभिराक्रं H.
रजसा शुध्यते नारी नदी वेगेन शुध्यते ।
भस्मना शुध्यते कांस्यं पुनःपाकेन मृन्मयम् ॥ ५८ ॥
मद्यैर्मूत्रैः पुरीषैर्वा श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ ५९ ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यतीति ॥ ६० ॥
अद्भिरेव काञ्चनं पूयते ॥ ६१ ॥
तथा रजतम् ॥ ६२ ॥
ताम्रमम्लेन शुध्यति ॥ ६३ ॥
अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ॥ ६४ ॥
अङ्गुल्यमृषीणाम् ॥ ६५ ॥
अङ्गुल्यग्रेषु मानुषम् ॥ ६६ ॥
पाणिमध्य आग्नेयम् ॥ ६७ ॥
प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यम् ॥ ६८ ॥
रोचत इति सायंप्रातरशनान्यभिपूजयेत् ॥ ६९ ॥
स्वादितमिति पित्र्ये ॥ ७० ॥
सम्पन्नमित्याभ्युदयिकेष्व्वाभ्युदयिकेष्वेति ॥ ७१ ॥
इति वासिष्ठधर्मशास्त्रे तृतीयोध्यायः ॥ ३ ॥
58. °कांस्यं ताम्राम्लेन शुध्यति. F. 59. पुरीषैश्च B. H. 68. प्रादेशिनि° P.
H. 69. प्रातरशन्यभि°. F. 70. पित्र्येषु. F.
१५
प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ॥१॥
ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।
इत्यपि निगमो भवति ॥२॥
गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचि-
च्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते ॥३॥
सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४॥
पितृदेवतातिथिपूजायामप्येवं पशुं हिंस्यादिति मानवम् ॥५॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ॥६॥ (मनु० ५।४१।।)
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥७॥ तस्माद्यज्ञे वधोऽवध इत्ये-
अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं (२।३८)
वा पचेदेवमस्मा आतिथ्यं कुर्वन्तीति ॥८॥ इत्यत्र ।
उदकक्रियाशौचं च द्विवर्ष प्रभृति ॥९॥
आ दन्तजननादित्येके ॥ १० ॥
शरीरमग्निना संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ॥ ११ ॥
सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्नयुग्मासु दक्षिणामुखाः
॥ १२ ॥
पितॄणां वा एषा दिग्या दक्षिणा ॥ १३ ॥
गृहान्प्रव्रजित्वा प्रस्तरे त्र्यहमनश्नन्त आसीरन् ॥ १४ ॥
IV. 3. असंस्कारो H. 4. प्रजनं च. F. H. 5. °देवाति° H. 8. यवेदे° H.
°आदित्यं. H. 9. द्विवर्षात्प्रभृति. F. 11. अपो नयन्ति F. अनपेक्ष्यमाणाः E. H.
12. सव्योत्तराभ्यां B. F. H. कुर्वन्त्ययुग्मा दक्षि° F. कुर्वीरन्नयुग्मा दक्षिणा
मुख्यः H. 14. प्रस्तारे E. H.
वासिष्ठधर्म. ३
१६
अशक्तौ क्रीतोत्पन्नेन वर्तेरन् ॥ १५ ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥ १६ ॥
सपिण्डत्वं साप्तपुरुषं विज्ञायते ॥ १७ ॥
प्रत्तानां च स्त्रीणां त्रिपुरुषं विज्ञायते ॥ १८ ॥
प्रत्तानामितरे कुर्वीरंस्ताश्च तेषाम् ॥ १९ ॥
जननेप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ २० ॥
मातापित्रोर्वा ॥ २१ ॥
तन्निमित्तत्वान्मातुरित्येके ॥ २२ ॥
अथाप्युदाहरन्ति ।
नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति ।
रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति ॥ २३ ॥
तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ॥ २४ ॥
रात्रिशेषे द्वाभ्याम् ॥ २५ ॥
प्रभाते तिसृभिः ॥ २६ ॥
ब्राह्मणो दशरात्रेण ॥ २७ ॥
पञ्चदशरात्रेण राजन्यः ॥ २८ ॥
विंशतिरात्रेण वैश्यः ॥ २९ ॥
शूद्रो मासेन शुध्यति ॥ ३० ॥
अथाप्युदाहरन्ति ।
अशौचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् ।
स गच्छेन्नरकं घोरं तिर्यग्योन्यां च जायते ॥ ३१ ॥
17. सपिण्डः सप्तपुरुषं. F. H. 18. अप्रत्तानां B. H. 19. B. ed. omits
ताश्च तेषां which Sūtra all my MSS. have. 20. जननेप्येवमेव निपुणां F.
23. संसर्ग नैव F. अशुभिर्भवति तच्च पुंसि न H. Bh. 28. भूमिपः F. 31.
जायत इति. F. H.
१७
अनिर्दशाहे परशवे नियोगाद्भुक्तवान्द्विजः ।
कृमिर्भूत्वा स देहान्ते तां विष्ठां समुपानुते इति ॥ ३२ ॥
द्वादश मासान्द्वादशार्धमासान्वान्नश्नन्संहिताध्ययनमधीयानः
पूतो भवतीति विज्ञायते ॥३३॥
ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचम् ॥ ३४ ॥
सद्यः शौचमिति गौतमः ॥ ३५॥
देशान्तरस्थे प्रेते ऊर्ध्वं दशाहाच्छ्रुत्वैकरात्रमाशौचम् ॥ ३६ ॥
आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववच्छौचमिति
गौतमः ॥ ३७ ॥
यूपचितिश्मशानरजस्वलासूतिकाशुचींश्च स्पृष्ट्वा सशिरस्कोऽभ्युपेया-
दप इत्यप इति ॥ ३८ ॥
इति वासिष्ठधर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥
अस्वतन्त्रा स्त्री पुरुषप्रधाना ॥ १ ॥
अनग्निकानुदक्या वामृतमिति विज्ञायते ॥ २ ॥
अथाप्युदाहरन्ति ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हतीति ॥ ३ ॥
तस्या भर्तुरभिचार उक्तं प्रायश्चित्तं रहस्येषु ॥ ४ ॥
मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ५ ॥
त्रिरात्रं रजस्वलाशुचिर्भवति ॥ ६ ॥
32. अन्तर्दशाहे परशवे नियोगाद्यस्तु भुक्तवान् F. तां विष्ठामुपजीवति. F.
38. पूय instead of यूप B. Ban. ed. सुतका H. अशुचीनुपस्पृश्य सशिरा
अभ्युपेयादपः F.
V. 2. अमृतं E. H. अनृतं F. अमृतिं Bh. 3. अत्र° F. अथाभ्युदा° H.
पुत्राश्च F. H. 4. मातुः° F. नर्तुरतीवारा Bh. E. H.
सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः शयीत न दिवा स्वप्या-
दग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान्धावयेन्न मांसमश्नीयान्न ग्रहान्निरी-
क्षेत न हसेन्न किंचितदाचरेन्न धावेतदखर्वेण पात्रेण पिबेदञ्जलिना
वा पिबेल्लोहितायसेन वा ॥ ७ ॥
विज्ञायते हि । इन्द्रस्त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मगृहीतो महत्तमा-
धर्मसंबद्धोहमित्येवमात्मानममन्यत । तं सर्वाणि भूतान्यभ्यक्रोश-
न्भ्रूणहन्भ्रूणहन्निति । स स्त्रिय उपाधावदस्यै मे भ्रूणहत्यायै तृतीयं
भागं प्रतिगृह्णीतेति । ता अब्रुवन्किं नो भूषादिति । सोन्ववीद्वरं वृणी-
ध्वमिति । ता अब्रुवन्नृतौ प्रजां विन्दामह इति काममा विजनितोः
संभवामेति । तथेति ताः प्रतिजग्गृहुः सैषा भ्रूणहत्या मासि मास्या-
विर्भवति तस्माद्रजस्वलाया अन्नं नाश्नीयाद्भ्रूणहत्याया एवैषा रूपं
प्रतिमुच्यास्ते ॥ ८ ॥
तदाहुः । अञ्जनाभ्यञ्जनमेवास्या न प्रतिग्राह्यं तद्धि स्त्रिया अन्न-
मिति । तस्मात्तस्यै च तन्न च बीभत्सन्ते मेयमुपागादिति ॥ ९ ॥
उदक्यास्त्वासते येषां ये च केचिदनग्नयः ।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिण इति ॥
सर्वे ते शूद्रधर्मिण इति ॥ १० ॥
इति वासिष्ठधर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥
- जगन्नाभ्यन्द्यान्तासु स्नायादधः Bh. E. H. ग्रहान्निरीक्षेत B. H. °निरीक्षेन्न
F. H. मृन्मयपात्रेण marginal gloss in B. दक्षिणपाणिना instead of
अञ्जलिना marginal gloss in B. 8. ब्रह्महत्यायै F. भ्रूणहत्यायं Bh. E. H
भागं wanted in B. H. गृह्णीतेति E. नोभूषदिति F. H. विजनतोः संभवा-
मीति F. H. प्रतियह्रुस्तृतीयं भ्रूणहत्यायाः सैषा F. मासि मासि;ऋतुर्वा भवति B.
Ban. ed. 9. तस्मात्तस्मै च B. Ban. ed. Bh. E. F. H. तन्न न F. H.
मेधमुपागात Bh. F. H. मेध उपागात E. सेयमुतागात् B. Ban. ed.
१९
आचारः परमो धर्मः सर्वेषामिति निश्चयः ।
हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ १ ॥
नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः ।
हीनाचारमितो भ्रष्टं तारयन्ति कथंचन ॥२॥
आचारहीनं न पुनन्ति वेदा
यद्यप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीडं शकुन्ता इव जातपक्षाः ॥ ३ ॥
आचारहीनस्य तु ब्राह्मणस्य
वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
कां प्रीतिमुत्पादयितुं समर्था
अन्धस्य दारा इव दर्शनीयाः ॥ ४ ॥
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम् ।
द्वेप्यक्षरे सम्यगधीयमाने
पुनाति तद्ब्रह्म यथा इषेब्दोः ॥ ५ ॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोल्पायुरेव च ॥ ६ ॥ (मनु० ४।१५७)
आचारात्फलते धर्म आचारात्फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ७ ॥
सर्वलक्षणहीनोपि यः सदाचारवान्नरः ।
श्रद्दधानोनसूयश्च शतं वर्षाणि जीवति ॥ ८ ॥ (मनु० ४।१५८)
VI. 1. प्रथमो धर्मः E. F. अनाचार° F. हीनाचारः परीतात्मा B. Ban. ed.
Bh. E. 3. जातवृक्षाः H. 4. षडङ्गाः सखिलाः B. Ban. ed. H. °उन्मादयितुं
H. 8. अपि समुदाचारवांन्नरः F. H.
✲ दक्षिणादाच् इति सप्तम्यन्तादाच् प्रस्तातेरर्थे।
२०
आहारनिर्हारविहारयोगाः
सुसंवृता धर्मविदा तु कार्याः ।
वाग्बुद्धिकार्याणि तपस्तथैव
धनायुषी गुप्ततमे तु कार्ये ॥ ९ ॥
उभे मूत्रपुरीषे दिवा कुर्यादुदङ्मुखः ।
रात्रौ तु दक्षिणाँ कुर्यादेवं ह्यायुर्न रिष्यति ॥ १० ॥
प्रत्यग्निं प्रति सूर्यं च प्रति गां प्रति ब्राह्मणम् ।
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ॥ ११ ॥
न नद्यां मेहनं कुर्यान्न पथि न च भस्मनि ।
न गोमये न कृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु ॥ १२ ॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ॥ १३ ॥
उद्धृताभिरद्भिः कार्यं कुर्यात् ॥ १४ ॥
स्नानमनुद्धृताभिरपि ॥ १५ ॥
आहरेन्मृत्तिकां विप्रः कूलात्ससिकता तु या ॥ १६ ॥
अन्तर्जले देवगृहे वल्मीके मूषकस्थले ।
कृतशौचावशिष्टा वा न ग्राह्याः पञ्च मृत्तिकाः ॥ १७ ॥
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।
पश्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ १८ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं वानप्रस्थानां यतीनां तच्चतुर्गुणमिति ॥ १९ ॥
9. ॰बुद्धिवीर्याणि F. H. 10. तु दिवा B. H. न रिष्यते F. न हिष्यति B.
Ban. ed. 11. प्रति च द्विजं F. 12. नचाकृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु
Bh. E. F. 17. च instead of वा F. H. 18. उभाभ्यां द्वेतु मृत्तिके F. 19.
चतुर्गुणं B. Ban. ed. H.
२१
अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश ।
द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥ २९ ॥
आहिताग्निरनङ्गांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥ २१ ॥
व्रतेषु नियमेषु चेज्याध्ययनधर्मेषु ॥ २२ ॥
योगस्तपो दमो दानं सत्यं शौचं श्रुतं घृणा ।
विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ २३ ॥
दीर्घवैरमसूया चासत्यं ब्राह्मणदूषणम् ।
पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥ २४ ॥
ये शान्तदान्ताः श्रुतिपूर्णकर्णाः
जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।
प्रतिग्रहे सङ्कुचिताग्रहस्ता-
स्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २५ ॥
किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् ।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ २६ ॥
शूद्रान्नेनोदरस्थेन यदि कश्चिन्मृतो द्विजः ।
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २७ ॥
शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोपि नित्यशः ।
जुह्वन्वापि जपन्वापि गतिमूर्द्धां न विन्दति ॥ २८ ॥
शूद्रान्नेन तु भुक्तेन मैथुनं योधिगच्छति ।
यस्यान्नं तस्य ते पुत्रा न च स्वर्गारुहो भवेत् ॥ २९ ॥
20. द्वाविंशात् H. 21. °अनङ्गह्वान्° H. 23. दया instead of दमः F. H.
After this Sūtra F. only reads: नास्तिकः पिशुनश्चैव कृतघ्नो दीर्घरोगकः ।
चत्वारः कर्मचाण्डाल (जन्मत्वश्चापि पञ्चमः ॥ 25. येषां च दान्ताः श्रुत° F. H.
°गृहस्थास्ते F. H. 27. च यः instead of यदि F. कश्चिन्म्रियते F. 28. यज-
न्वापि F. जुहुयाद्वा जपन्वापि H.
स्वाध्यायोत्थं योनिमन्तं प्रशान्तं
वैतानस्थं पापभीरुं बहुज्ञम् ।
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं
व्रतैः क्लान्तं तादृशं पात्रमाहुः ॥ ३० ॥
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ।
विनश्येत्पात्रदौर्बल्यान्न च पात्रं रसाश्च ते ॥ ३१ ॥
एवं गा वा हिरण्यं वा वस्त्रमश्वं महीं तिलान् ।
अविद्वान्प्रतिगृह्णानो भस्मीभवति काष्ठवत् ॥ ३२ ॥
नाङ्गनखवादनं कुर्यात् ॥ ३३ ॥
नखैश्च भोजनादौ ॥ ३४ ॥
न चापोज्जलिना पिबेत् ॥ ३५ ॥
न पादेन पाणिना वा जलमभिहन्यात् ॥ ३६ ॥
न जलेन जलम् ॥ ३७ ॥
नेष्टकाभिः फलं शातयीत ॥ ३८ ॥
न फलेन फलम् ॥ ३९ ॥
न कल्को न कुहको भवेत् ॥ ४० ॥
न म्लेच्छभाषां शिक्षेत ॥ ४१ ॥
अथाप्युदाहरन्ति ।
न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ ४२ ॥
30. स्वाध्यायायं Bh. E. H. कान्तं instead of क्षान्तं F. H. 31. दौर्ब-
ल्यात्तच्च F. तत्र पात्रं Bh. नश्यसेत्पात्रदौर्बलत्वात्तत्पात्रं E. H. 32. एवं गावो B.
Ban. ed. H. दारुवत् instead of काष्ठवत् F. 33. नाङ्गानां छेदनं. F.
नाङ्गरनखवादनं Bh. 38. फलानि B. Ban. ed. H. फलानि पातयेत् F.
२३
पारम्पर्या-
पारंपर्यगतो येषां वेदः सपरिवृंहणः।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ ४३ ॥
यं न सन्तं न वासन्तं नाश्रुतं न बहुश्रुतम्।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः॥
स ब्राह्मण इति ॥ ४४ ॥
इति वासिष्ठधर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥
चत्वार आश्रमाः ॥ १ ॥
ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः ॥ २ ॥
तेषां वेदमधीत्य वेदौ वेदान्वाविशीर्णब्रह्मचर्यो यमिच्छेत्तमा-
वसेत् ॥ ३ ॥
ब्रह्मचार्याचार्यं परिचरेदा शरीरविमोक्षणात् ॥ ४ ॥
आचार्ये च प्रेतेऽग्निं परिचरेत् ॥ ५ ॥
विज्ञायते ह्यग्निराचार्यस्तवेति ॥ ६ ॥
संयतवाक् ॥ ७ ॥
चतुर्थषष्ठाष्टमकालभोजी ॥ ८ ॥
भैक्षमाचरेत् ॥ ९ ॥
गुर्वधीनः ॥ १० ॥
जटिलः शिखाजटो वा ॥ ११ ॥
गुरुं गच्छन्तमनुगच्छेदासीनश्चेत्तिष्ठेच्छयानश्चेदासीन उपासीत १२
आहूताध्यायी ॥ १३ ॥
सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत ॥ १४ ॥
43 ॰प्रत्यद्वहेतवः H.
VII. 5. स्रुते Bh. E. 6. हि त्वाग्निरत्चार्य इति F. 8. भोक्तं H. 12.
अनुमछन्नासीनं Bh. E.
वासिष्ठधर्मं ४
खट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी ॥१५॥
तिष्ठेदहनि रात्रावासीत ॥ १६ ॥
त्रिरह्नोऽभ्युपेयादप इत्यप इति ॥ १७ ॥
इति वासिष्ठधर्मशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥
गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वासमानार्षेयामस्पृष्ट-
मैथुनामवरवयसीं सदृशीं भार्यां विन्देत ॥ १ ॥
पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ॥ २ ॥
वैवाहिकमग्निमिन्धीत ॥ ३ ॥
सायमागतमतिथिं नापरुन्ध्यात् ॥ ४ ॥
नास्यानश्नन्गृहे वसेत् ॥ ५ ॥
यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः ।
सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ॥ ६ ॥
एकरात्रं तु निवसन्मतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ७ ॥
नैकग्रामीण अतिथिविप्रः साङ्गतिकस्तथा ।
काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥ ८ ॥
श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ॥ ९ ॥
अलं च सोमाय नासोमयाजी ॥ १० ॥
युक्तः स्वाध्याये यज्ञे प्रजनने च ॥ ११ ॥
गृहेष्वभ्यागतं प्रत्युत्थानासनवाक्सूनृतानसूयाभिर्महयेत् ॥ १२ ॥
VIII. 3. इन्धीन्वत Bh. E. H. 4. ॰अवरुन्ध्यात् F. 6. गच्छतीति Bh.
E. H. 8. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा F. H. प्राप्ते जले वा E.
10. सोमपानात्सोमयाजी F. 12. प्रत्युत्थानाशनशयनवाक् F. H.
२५
यथाशक्ति चान्नेन सर्वाणि भूतानि ॥ १३ ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥ १४ ॥
यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् । सागरे इति मनौ (६।८९)
'तथैवा' एवमाश्रमिनः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ १५ ॥
इति मनौ। यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥ १६ ॥
नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी पतितान्नवर्जी ।
ऋतौ च गच्छन्विधिवच्च जुह्वन्
न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥
ब्रह्मलोकादिति ॥ १७ ॥
इति वासिष्ठधर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥
वानप्रस्थो जटिलश्चीराजिनवासी ॥ १ ॥
ग्रामं च न प्रविशेत् ॥ २ ॥
न फालकृष्टमधितिष्ठेत् ॥ ३ ॥
अकृष्टं मूलफलं सञ्चिन्वीत ॥ ४ ॥
उर्ध्वरेताः ॥ ५ ॥
क्षमाशयः ॥ ६ ॥
मूलफलभैक्षेणाश्रमागतमतिथिमभ्यर्चयेत् ॥ ७ ॥
13. सर्वभूतानि B. H. 14. च instead of तु F. H. गृहस्थस्तु F. H
IX. 1. वानप्रस्थः प्रव्राजनो जटि° H. 3. °अभितिष्ठेत् H. 6. क्षामाशयः F
7. °भक्षेण° H.
३६
दद्यादेव न प्रतिगृह्णीयात् ॥ ८ ॥ वानप्रस्थमुद्दिश्योक्तमिदमुदन्तं वचः।
त्रिषवणमुदकोपस्पर्शी ॥ ९ ॥
श्रामणकेनाग्निमाधायाहिताग्निः स्यात् ॥ १० ॥
वृक्षमूलनिकेतन ऊर्ध्वं षड्भ्यो मासेभ्योनग्निरनिकेतः ॥ ११ ॥
दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमित्यानन्त्यम् ॥ १२॥
इति वासिष्ठधर्मशास्त्रे नवमोऽध्यायः ॥ ९ ॥
परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत ॥ १ ॥
अथाप्युदाहरन्ति ।
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ २ ॥
अभयं सर्वभूतेभ्योदत्त्वा यस्तु निवर्त्तते ।
हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥ ३ ॥
सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत् ।
वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत् ॥ ४ ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । — अयं पूर्वार्द्धः २।८३ इत्यत्र मानवे दृश्यते।
उपवासात्परं भैक्षं दया दानाद्विशिष्यत इति ॥ ५ ॥
मुण्डोममोपरिग्रहः ॥ ६ ॥
सप्तागाराण्यसङ्कल्पितानि चरेद्भिक्षाम् ॥ ७ ॥
विधूमे सन्नमुसले ॥ ८ ॥
एकशाटीपरिहितः ॥ ९ ॥
8. द्रव्यादेव ते प्रति° H. 9. उदकमास्पृशेत् F. 10. श्रावणकेन B. Ban. ed. F.
11. आवर्णकेण E. Bh. 11. वृक्षमूलिकः B. F. H.
X. 1. °पक्षिणां H. 4. सन्न्यजेत् instead of सन्न्यसेत् B. Ban. ed. H.5.
°यामः F. H. मतः instead of तपः E. 6. अमयो° H. 7. भैक्षं F. H.
सप्तगौराणि H. 9. °परिवृतः F.