वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 29, कुल 106 में से
संदर्भ में पढ़ें१५
प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ॥१॥
ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।
इत्यपि निगमो भवति ॥२॥
गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचि-
च्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते ॥३॥
सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४॥
पितृदेवतातिथिपूजायामप्येवं पशुं हिंस्यादिति मानवम् ॥५॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ॥६॥ (मनु० ५।४१।।)
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥७॥ तस्माद्यज्ञे वधोऽवध इत्ये-
अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं (२।३८)
वा पचेदेवमस्मा आतिथ्यं कुर्वन्तीति ॥८॥ इत्यत्र ।
उदकक्रियाशौचं च द्विवर्ष प्रभृति ॥९॥
आ दन्तजननादित्येके ॥ १० ॥
शरीरमग्निना संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ॥ ११ ॥
सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्नयुग्मासु दक्षिणामुखाः
॥ १२ ॥
पितॄणां वा एषा दिग्या दक्षिणा ॥ १३ ॥
गृहान्प्रव्रजित्वा प्रस्तरे त्र्यहमनश्नन्त आसीरन् ॥ १४ ॥
IV. 3. असंस्कारो H. 4. प्रजनं च. F. H. 5. °देवाति° H. 8. यवेदे° H.
°आदित्यं. H. 9. द्विवर्षात्प्रभृति. F. 11. अपो नयन्ति F. अनपेक्ष्यमाणाः E. H.
12. सव्योत्तराभ्यां B. F. H. कुर्वन्त्ययुग्मा दक्षि° F. कुर्वीरन्नयुग्मा दक्षिणा
मुख्यः H. 14. प्रस्तारे E. H.
वासिष्ठधर्म. ३