सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 27, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 27

१३
चरन्नभ्यवहारेषु उच्छिष्टं यदि संस्पृशेत् ।
भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥ ४३ ॥
यद्यन्मीमांस्यं स्यादद्भिः संस्पृशेत् ॥ ४४ ॥
श्वहताश्च मृगा वन्याः पातितं च खगैः फलम् ।
बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥ ४५ ॥
प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च ॥ ४६ ॥
मशकैर्मक्षिकाभिश्च निलीनैर्नोपहन्यते ।
क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः । तृप्तिकर्य इति पाठे
परिसंख्याय तान्सर्वाञ्शुचीनाह प्रजापतिरिति ॥ ४७ ॥
लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ॥ ४८ ॥
तैजसमृन्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहनतक्षणधाव-
नानि ॥ ४९ ॥
तैजसवदुपलमणीनाम् ॥ ५० ॥
मणिवच्छङ्खशुक्तीनाम् ॥ ५१ ॥
दारुवदस्थ्नाम् ॥ ५२ ॥
रज्जुविदलचर्मणाञ्चैलवच्छौचम् ॥ ५३ ॥
गोवालैः फलमयानाम् ॥ ५४ ॥
गौरसर्षपकल्केन क्षौमजानाम् ॥ ५५ ॥
भूमेस्तु संमार्जनोपलेपनोल्लेखनप्रोक्षणोपकरणैर्यथास्थानं दोषविशे-
षात्प्रायत्यमुपैति ॥ ५६ ॥
अथाप्युदाहरन्ति ।
खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि ।
चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ५७ ॥
43. प्रच° H. प्रचरन्त्यवहारे॑षु F. 44. स्यात्तदद्भिः B. E. 46. निलीनं F.
निलन्तं E. H. 49. ॰रवतां नवानां H, ॰प्रदाहतक्ष° B. F. ॰प्रदाहलक्ष॰. H. 51.
शुक्लीनां. H. 56. भूमिं तु F. H. 57. वर्षात् F. H. ॰गोमिभिराक्रं H.