सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 33, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 33

१९
आचारः परमो धर्मः सर्वेषामिति निश्चयः ।
हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ १ ॥
नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः ।
हीनाचारमितो भ्रष्टं तारयन्ति कथंचन ॥२॥
आचारहीनं न पुनन्ति वेदा
यद्यप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति
नीडं शकुन्ता इव जातपक्षाः ॥ ३ ॥
आचारहीनस्य तु ब्राह्मणस्य
वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
कां प्रीतिमुत्पादयितुं समर्था
अन्धस्य दारा इव दर्शनीयाः ॥ ४ ॥
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम् ।
द्वेप्यक्षरे सम्यगधीयमाने
पुनाति तद्ब्रह्म यथा इषेब्दोः ॥ ५ ॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोल्पायुरेव च ॥ ६ ॥ (मनु० ४।१५७)
आचारात्फलते धर्म आचारात्फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ७ ॥
सर्वलक्षणहीनोपि यः सदाचारवान्नरः ।
श्रद्दधानोनसूयश्च शतं वर्षाणि जीवति ॥ ८ ॥ (मनु० ४।१५८)
VI. 1. प्रथमो धर्मः E. F. अनाचार° F. हीनाचारः परीतात्मा B. Ban. ed.
Bh. E. 3. जातवृक्षाः H. 4. षडङ्गाः सखिलाः B. Ban. ed. H. °उन्मादयितुं
H. 8. अपि समुदाचारवांन्नरः F. H.