सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

प्रथमोऽध्यायः । २९
एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य-
पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक-
रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा
जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा-
वृत्तिप्रकारं पृच्छति—
अर्जुन उवाच—
भिन्ने पञ्चात्मके देहे
गते पञ्चसु पञ्चधा ।
प्राणैर्विमुक्ते देहे तु
धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥
पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते
सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि-
तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति,
धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥
एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर-
माह—
श्रीभगवानुवाच—
धर्माधर्मौ मनश्चैव
पञ्चभूतानि यानि च ।
U 3.

३० उत्तरगीतायां
इन्द्रियाणि च पञ्चैव
याश्चान्याः पञ्च देवताः ॥ ४५ ॥
ताश्चैव मनसा सर्वे
नित्यमेवाभिमानतः।
जीवेन सह गच्छन्ति
यावत्तत्त्वं न विन्दति ॥ ४६ ॥
धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभू-
तानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि
वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः प-
ञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्—दिग्वातार्क-
प्रचेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्व-
भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा-
नतः ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्ष-
ब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना
लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥
एवं स्थूलदेहप्रलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य ति-
ष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति—

प्रथमोऽध्यायः । ३१
अर्जुन उवाच—
स्थावरं जङ्गमं चैव
यत्किंचित्सचराचरम् ।
जीवा जीवेन सिध्यन्ति
स जीवः केन सिध्यति ॥ ४७ ॥
स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं
सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो
विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैज-
सेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसा-
भिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति
प्रश्नार्थः ॥
एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति, प्राज्ञस्तुरीयेणे-
त्येवं क्रमेण सिध्यतीत्युत्तरमाह—
श्रीभगवानुवाच—
मुखनासिकयोर्मध्ये
प्राणः संचरते सदा ।
आकाशः पिबते प्राणं
स जीवः केन जीवति ॥ ४८ ॥

३२ उत्तरगीतायां
मुखनासिकयोर्मध्ये मुखनासिकाभ्यतः सदा सर्वदा
यावदहष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य
दिनस्य षट्शताधिकैकविंशतिसहस्रसंख्यया संचरति, तावत्प-
र्यन्तमंदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्म-
ज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः, तदा आकाशः जीवत्वनि-
मित्तं प्राणं पिबते, तदा जीवः केन जीवति जीवत्वापादका-
विद्यानिवृत्त्या निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्ती-
त्यर्थः ॥
ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं
निरञ्जनत्वमिति पृच्छति—
अर्जुन उवाच—
ब्रह्माण्डव्यापितं व्योम
व्योम्ना चावेष्टितं जगत् ।
अन्तर्बहिश्च तद्व्योम
कथं देवो निरञ्जनः ॥ ४९ ॥
हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डाव-
च्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं
व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं

प्रथमोऽध्यायः । ३३
सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथ-
मित्यर्थः । निःसङ्गो वा कथमिति प्रश्नार्थः ॥
आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं छेत्स्यतीत्यभि-
प्रायेणाह—
श्रीभगवानुवाच—
आकाशो ह्यवकाशश्च
आकाशव्यापितं च यत् ।
आकाशस्य गुणः शब्दो
निःशब्दो ब्रह्म उच्यते ॥ ५० ॥
आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभ-
यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं
तदुपादानकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादा-
नस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह— आकाशस्य
गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्याभू-
ताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि
मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते ।
तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह संबन्धासंभ-
वात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥

१४ उत्तरगीतायां
एवं भगवतोक्ते, अक्षरशब्दस्य भगवदभिमतार्थं अजा-
नानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न
संभवतीत्यभिप्रायेण पृच्छति—
अर्जुन उवाच—
दन्तोष्ठतालुजिह्वाना-
मास्पदं यत्र दृश्यते ।
अक्षरत्वं कुतस्तेषां
क्षरत्वं वर्तते सदा ॥ ५१ ॥
हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्,
उपलक्षणमेतत् कण्ठादीनामष्टानां स्थानानाम्, आस्पदम् आ-
स्पदत्वं दृश्यते प्रत्यक्षमभूयते । 'अकुहविसर्जनीयानां कण्ठः'
इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश-
रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात्? सदा सर्व-
कालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्, नाशरहितत्वं कुत
इति प्रश्नार्थः ॥
एवमभिप्रायमजानानेन अर्जुनेन पृष्टे स्वाभिप्रेतमक्षरश-
ब्दार्थं स्फुटयन् भगवानुवाच—
श्रीभगवानुवाच—

प्रथमोऽध्यायः । १५
अघोषमव्यञ्जनमस्वरं चा-
प्यतालूकण्ठोष्ठमनासिकं च ।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥
अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्य-
ञ्जनातीतम् अस्वरम् अजतीतम्, अतालुकण्ठोष्ठमपि अ-
व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम् अनासिकम् अनु-
स्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरे-
खासमुहातीतम् ऊष्मवर्जितं शषसहातीतम्, यद्वा, ऊष्मश-
ब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसि-
द्धवर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्व-
कालेऽपि न क्षरते, तदेवाक्षरशब्देनोच्यते । न लौकिकान्य-
क्षराणीत्यर्थः ॥
एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृ-
च्छति—
अर्जुन उवाच—
ज्ञात्वा सर्वगतं ब्रह्म
सर्वभूताधिवासितम् ।

३६ उत्तरगीतायां
इन्द्रियाणां निरोधेन
कथं सिध्यन्ति योगिनः ॥ ५३ ॥
सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व-
गतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्विबुध्य
योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सि-
ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥
एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह—
श्रीभगवानुवाच—
इन्द्रियाणां निरोधेन
देहे पश्यन्ति मानवाः ।
देहे नष्टे कुतो बुद्धि-
र्बुद्धिनाशे कुतो ज्ञाता ॥ ५४ ॥
मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन दे-
हे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदाढर्यम् इन्द्रियदार्ढ्यं
च ज्ञानोपायं इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह—
देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ! बुद्धिनाशे
तत्त्वज्ञानाभावे ज्ञाता अपरोक्षज्ञानिता च कुतः ! तस्माद्देहे-

[Header]
प्रथमोऽध्यायः । ३७

न्द्रियादिभिः यज्ञानादिश्रवणादिकमेव तत्त्वज्ञाने कारण-
मिति भावः ॥
तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अव-
धिमाह—
तावदेव निरोधः स्या-
द्यावसत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे
एकमेवानुपश्यति ॥ ५५ ॥
यावसत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्र्दियनिरोधः स्यात् ;
परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति,
एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन-
रहितं ब्रह्मैवानुपश्यति, नान्यत् ; तदनन्तरं साधनानुष्ठानप्रया-
सोऽपि मा भूदिति भावः ॥
तस्माद्यावसत्त्वज्ञानं तावत्साधनमनुष्ठेयम्, तदभावे तन्न
सिध्यतीत्याह—
नवच्छिद्रकृता देहाः
स्रवन्ति गलिका इव ।

३८ उत्तरगीतायां
नैव ब्रह्म न शुद्धं स्या-
त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥
देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय-
स्स्राविवृत्तिमद्भावेन्द्रियघटितानि; तत्र दृष्टान्तः गळिका इव
छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्र-
णवित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वा-
विघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वाविघटिते
पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति
भानन्दानुभवं न प्राप्नोतीत्यर्थः ॥
तस्मात् यावत्तत्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः,
जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः
कर्तव्य इत्यभिप्रायवानाह—
अत्यन्तमलिनो देहो
देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा
कस्य शौचं विधीयते ॥ ५७ ॥
देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः ।

प्रथमोऽध्यायः । १९
देही आत्मा निष्कृष्टाहंकारः सन् अत्यन्तनिर्मलः अहंकारो-
पाधिकसंसाररहितः इत्येवमुभयोर्देहात्मनोः अन्तरं कल्पित-
त्वसत्यत्वे ज्ञात्वा यो वर्तते, तं प्रति कस्य शौचं विधीयते
देहस्य वा आत्मनो वा ? देहस्य चेत् , जडस्य जडेन जला-
दिना न शुद्धिः; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना
प्रयोजनमिति भावः ॥
इति श्रीगौडपादाचार्यविरचितायां
उत्तरगीताव्याख्यायां
प्रथमोऽध्यायः ॥

॥ द्वितीयोऽध्यायः ॥
अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते ।
तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥
अर्जुन उवाच—
ज्ञात्वा सर्वगतं ब्रह्म
सर्वज्ञं परमेश्वरम् ।
अहं ब्रह्मेति निर्देष्टुं
प्रमाणं तत्र किं भवेत् ॥ १ ॥
हे भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्णं
सर्वज्ञं सर्वसाक्षिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा
तत्त्वमसीत्यादिवाक्यतो विबुध्य अहं ब्रह्मेति, प्रतिबिम्बात्मा
जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तद्बिम्बैक्ये किं प्रमाणं
किमुपपादकमित्यर्थः ॥
एवं पृष्टो भगवान् क्षीरजलादिदृष्टान्तेन उपाधिनिवृत्ता-
वात्मैक्यं संभवतीत्याह—

द्वितीयोऽध्यायः । ४१
श्रीभगवानुवाच—
यथा जलं जले क्षिप्तं
क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्व-
ज्जीवात्मपरमात्मनोः ॥ २ ॥
जले नद्यादौ जलं तदेव पात्रादुद्धृतं पात्रोपाधितः पृथ-
क्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्तौ महाजलैक्यं प्राप्नोति,
एवं क्षीरे क्षीरं घृते घृतं क्षिप्तं सत् तत्तदैक्यं प्राप्नोति,
तद्वत् जीवात्मपरमात्मनोः अविद्याद्युपाधितो भेदेऽपि तन्नि-
वृत्तावविशेषः संभवतीति भावः ॥
एवमैक्यज्ञानं गुरुमुखादेव संभावितमविद्यानिवर्तकम् ,
न तु स्वतन्त्रविचारसंभावितमिति वदन् तत्त्वज्ञानार्थं गुरु-
मेव अभिगच्छेदिति गुरुशासनमाह—
जीवे परेण तादात्म्यं
सर्वगं ज्योतिरीश्वरम् ।
प्रमाणलक्षणैर्ज्ञेयं
स्वयमेकाग्रवेदिना ॥ ३ ॥

४२ उत्तरगीतायां
स्वयमधिकारी एकाग्रवेदिना ब्रह्मनिष्ठेन गुरुणा प्रमाण-
लक्षणैः 'तत्त्वमसि' 'यतो वा इमानि भूतानि' 'यः सर्व-
ज्ञः सर्ववित्' इत्यादिभिः जीवे परेण परमात्मना तादात्म्यम्
ऐक्यं बोधिते सति, तदनन्तरं स्वयमेव सर्वगं सर्वव्यापिन-
मीश्वरं सर्वनियन्तारं ज्योतिः स्वयंप्रकाशात्मा इति विज्ञेयं
ज्ञातुं योग्यमित्यर्थः ॥
एवं गुरूपदेशानन्तरभाविज्ञानेनैवोपपत्तौ किं कर्मयोगे-
नेति पृच्छति—
अर्जुन उवाच—
ज्ञानादेव भवेज्ज्ञेयं
विदित्वा तत्क्षणेन तु ।
ज्ञानमात्रेण मुच्येत
किं पुनर्योगधारणा ॥ ४ ॥
हे भगवन् ज्ञेयं विचार्य ब्रह्मैक्यं ज्ञानादेव गुरूपदिष्टा-
देव भवेत्; तथा च विदित्वा गुरूपदेशानन्तरं तत्त्वं ज्ञात्वा
तत्क्षणेन तु वेदान्तवाक्यजन्यचरमवृत्त्युत्तरक्षणमेव मुच्येत
मुक्तो भवेत्; एवं ज्ञानमात्रेण मुक्त्युपपत्तौ योगधारणा कर्म-
योगाभ्यासः किं पुनः किंप्रयोजनम् व्यर्थत्वादित्यभिप्रायः ॥

द्वितीयाऽध्यायः । ४१
एवं कर्मयोगवैयर्थ्ये शङ्किते यावत्तत्त्वज्ञानं न संभवति,
तावदन्तःकरणशुद्ध्यर्थमनुष्ठेयं कर्म; सिद्धे च तस्मिन् ज्ञाने,
पुनः कर्मानुष्ठानं मा भूत् इत्याह-
श्रीभगवानुवाच-
ज्ञानेन दीपिते देहे
बुद्धिर्ब्रह्मसमन्विता ।
ब्रह्मज्ञानाग्निना विद्वा-
न्निर्दहेत्कर्मबन्धनम् ॥ ५ ॥
हे अर्जुन विद्वान् विवेकी ज्ञानेन देहे लिङ्गशरीरे दीपिते
शुद्धे , ततः बुद्धिः निश्चयात्मिका ब्रह्मसमन्विता चेत्
ब्रह्मणि स्थिता असंभावनारहिता चेत्, तदनन्तरं ब्रह्मज्ञा-
नाग्निना ब्रह्मज्ञानानलेन कर्मबन्धनं कर्मपाशं निर्दहेत् त्यजे-
दित्यर्थः । तदुक्तम्- 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरु-
तेऽर्जुन' इति ॥
एवं प्राप्ततत्त्वैक्यस्य ततः परं किमपि न कार्यमित्याह-
ततः पवित्रं परमेश्वराख्य-
मद्वैतरूपं विमलाम्बराभम् ।

४४ उत्तरगीतायां
यथोदके तोयमनुप्रविष्टं
तथात्मरूपो निरुपाधिसंस्थः ॥ ६ ॥
ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टम्
ऐक्यं गतं तोयं परिच्छिन्नोदकम् , तद्वत् पवित्रं शुद्धम् पर-
मेश्वराख्यं परमेश्वरसंज्ञं तथापि विमलाम्बराभं निर्मलाकाश-
वदसङ्गमद्वैतरूपं सजातीयविजातीयस्वगतभेदरहितं ब्रह्म
परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः
सन् निरुपाधिसंस्थो भवेत् औपाधिककर्तृत्वादिभेदरहितो
भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते
इति न्यायादिति भावः ॥
एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमा-
त्मतत्त्वं ज्ञातुं शक्यम् , न ततः पूर्वमित्याह—
आकाशवत्सूक्ष्मशरीर आत्मा
न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा
ज्ञानोल्कया पश्यति चान्तरात्मा ॥
आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियम् , तद्वत्
परमात्मा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्वमभिप्रेतम् ,

द्वितीयोऽध्यायः । ४५
तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न,
तद्वद् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रिय-
विषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वसाधनादिति भावः ।
तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह— स बाह्यम-
भ्यन्तरनिश्चलात्मा यः बाह्यविषयेषु अभ्यन्तरविषयेषु च
निश्चलात्मा विषयविक्षिप्तचित्तो न भवति, सः ज्ञानोल्कया
वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्त-
र्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः ॥
इह केषांचिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः
मुक्तिः इति, तन्निराकर्तुम् 'अत्र ब्रह्म समश्नुते' इत्यादि-
श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह—
यत्र यत्र मृतो ज्ञानी
येन केनापि मृत्युना ।
यथा सर्वगतं व्योम
तत्र तत्र लयं गतः ॥ ८ ॥
सर्वगतं सर्ववस्त्ववच्छेदकं व्योम आकाशं यथा अव-
च्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति,
तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपा-
U. 4

४६ उत्तरगीतायां
धिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्षज्ञानी येन केन
मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानकदेहं ज्ञानेन
नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवे-
त्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भू-
दिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तकप्रायश्चित्तान्यपि
आरुरुक्ष्वधिकृतानि इति वेदितव्यम् ॥
एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव-
स्याणुत्वपक्षे न संभवतीत्याशङ्क्य जीवस्य व्यापित्वं साध-
यति—
शरीरव्यापितं व्योम
भुवनानि चतुर्दश ।
निश्चलो निर्मलो देही
सर्वव्यापी निरञ्जनः ॥ ९ ॥
शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं
यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते,
एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः
स्वयंप्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जग-
न्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्ब-
स्यैव जीवत्वेन तस्य व्यापित्वमेव, नाणुत्वमिति भावः ॥

द्वितीयोऽध्यायः । ४७
एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व-
ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह--
मुहूर्तमपि यो गच्छे-
न्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं
तस्य जन्म शतार्जितम् ॥ १० ॥
यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त-
मात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं
चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं
अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं
योगी तरति नाशयतीत्यर्थः । तदुक्तम् ' यस्य ब्रह्मविचा-
रणे क्षणमपि प्राप्नोति धैर्यं मनः' 'कुलं पवित्रं जननी
कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि--
मुक्तिः द्विविधा--सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो
मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम-
श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे
संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं
पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्,

४८ उत्तरगीतायां
अर्चिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्ग
गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमा-
र्गस्वरूपमाह--
दक्षिणे पिङ्गला नाडी
वह्निमण्डलगोचरा ।
देवयानमिति ज्ञेया
पुण्यकर्मानुसारिणी ॥ ११ ॥
दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि-
मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो-
ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागतः
सहस्रारपर्यन्तं व्याप्ता या नाडी सा देवयानमिति ज्ञेया
पुनरावृत्तिरहितार्चिरादिमार्ग इति ज्ञेयेत्यर्थः ॥
धूमादिमार्गप्रापकेष्ठनाडीस्वरूपमाह—
इला च वामनिश्वासः
सोममण्डलगोचरा ।
पितृयानमिति ज्ञेयं
वाममाश्रित्य तिष्ठति ॥ १२ ॥