उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 53, कुल 86 में से
संदर्भ में पढ़ें४४ उत्तरगीतायां
यथोदके तोयमनुप्रविष्टं
तथात्मरूपो निरुपाधिसंस्थः ॥ ६ ॥
ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टम्
ऐक्यं गतं तोयं परिच्छिन्नोदकम् , तद्वत् पवित्रं शुद्धम् पर-
मेश्वराख्यं परमेश्वरसंज्ञं तथापि विमलाम्बराभं निर्मलाकाश-
वदसङ्गमद्वैतरूपं सजातीयविजातीयस्वगतभेदरहितं ब्रह्म
परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः
सन् निरुपाधिसंस्थो भवेत् औपाधिककर्तृत्वादिभेदरहितो
भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते
इति न्यायादिति भावः ॥
एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमा-
त्मतत्त्वं ज्ञातुं शक्यम् , न ततः पूर्वमित्याह—
आकाशवत्सूक्ष्मशरीर आत्मा
न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा
ज्ञानोल्कया पश्यति चान्तरात्मा ॥
आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियम् , तद्वत्
परमात्मा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्वमभिप्रेतम् ,