सामग्री पर जाएँ
सर्वकोश
विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)

विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)

Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan

केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा

DevanagariHindipublished138 पृष्ठ

पृष्ठ 27, कुल 138 में से

संदर्भ में पढ़ें
पृष्ठ 27

सं०—यदि मृगाङ्कमृगीदृशः ( मृगाङ्कस्य चन्द्रस्य मृगीदृशः = स्त्रि-
यस्ताराः = नक्षत्राणीत्यर्थः ) स्फुरद्दूषणभूषणकान्तयः ( अस्तादिदोष-
रहिताः ) भवन्ति तदा सुतनोः ( कुमार्याः ) करं अवाप्य पाणिग्रहं कृत्वा
वरः भरसंभृतं ( अतिशयं ) शुभरसं (सुखभोगं) अश्नुते लभते इत्यर्थः ॥
भा०—जो नक्षत्र वेधादि दोष रहित देदीप्यमान कान्तियुत हों उनमें वधू
के पाणिग्रहण करने से वर अतिशय सुख का भोग करता है ॥ २५ ॥

अथ कालमीमांसाध्यायः ।
जन्मराश्योरेव मेलके युक्तिं कथयति—
जन्मलग्नमिदमङ्गमङ्गिनां मेनिरे मन इतीन्दुमन्दिरम् ।
सौहृदं हि मनसोर्न देहयोर्मेलकस्तदयमिन्दुगेहयोः ॥ १ ॥
सं०—देहिनां 'यत्' जन्मलग्नं इदं अङ्गं ( शरीरं ) तथा इन्दुमन्दिरं
( चन्द्रराशिः ) इति मनः मेनिरे । हि ( यतः ) सौहृदं ( मित्रत्वं ) मनसो-
रेव भवति, देहयोस्तु सौहृदं न भवति, तत् ( तस्मात् ) इन्दुगेहयोः
(वधूवरचन्द्रराश्योः) अयं मेलकः स्यात् । न तु जन्मलग्नयोरित्यर्थः ॥१॥
भा०—प्राणियों का जन्मलग्न शरीर, और चन्द्रराशि मन कहा गया है ।
मैत्री मन में ही होती है, शरीर में नहीं इसलिये वर कन्या की मनस्वरूप चन्द्र-
राशियों का ही मेलापक विचार उचित है ॥ १ ॥
यदि चन्द्रराश्योर्मेलकस्तर्हि सूक्ष्मयोस्तन्नवांशयो-
रपि कथं नेति दृष्टान्तेन कथयति—
चन्द्रराशिवशमेव सौहृदं सूक्ष्मयोरपि न किं नवांशयोः ।
एवमस्तु मकरांशगे रवौ कर्कटेऽपि किमु नोत्तरायणम् ॥ २ ॥
सं०—चन्द्रराशिवशं ( वधूवरयोर्जन्मराश्यनुसारं ) एव सौहृदं
'कथितं' तर्हि सूक्ष्मयोः तन्नवांशयोरपि कथं नेति, एवमस्तु ( एवं प्रश्न-
श्चेत् तदा ) मकरांशगे ( मकरनवांशस्थे ) रवौ ( सूर्ये ) कर्कटेऽपि
उत्तरायणं किमु न भवति ? । अयनादिकं यतो राशिवशादेव भवति
तस्माद्राश्योरेव मेलकोऽपि समुचित इत्यर्थः ॥ २ ॥