विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 19, कुल 138 में से
संदर्भ में पढ़ें६ विवाहवृन्दावनम् । [ नक्षत्रशुद्धि-
सं०-स वेधविधिः द्वितीययोश्चरणयोः तथा आदिचतुर्थयोश्चर-
णयोर्मिथः परस्परं ज्ञेयः । अशुभविद्धं ( पापग्रहविद्धं ) उडु ( नक्षत्रं )
अशेषं ( समस्तं ) त्यजेत् । तथा असम्पदि ( अन्यनक्षत्रालाभे = आव-
श्यके ) शुभवेधं ( शुभग्रहवेधं ) चरणगं ( यस्मिन् चरणे वेधस्तं चरणमेव )
त्यजेत् ॥ ९ ॥
भा०-उपरोक्त वेधविधि द्वितीय और तृतीय चरण में तथा प्रथम और
चतुर्थ चरण में परस्पर समझना । पापग्रहसे वेधित समस्त नक्षत्रको त्याग देना
चाहिये तथा परमावश्यकमें शुभग्रह से विद्ध नक्षत्रके चरणमात्र त्याग करें ॥९॥
अथ दोषान्तराणि कथयति-
यदशुभैर्गतगम्यमधिष्ठितं यदपि च त्रिविधाद्भुतदूषितम् ।
तरणितारकतोऽपि चतुर्दशं तदखिलेपि खलं शुभकर्मणि ॥१०॥
सं०-यत् 'नक्षत्रं' अशुभैः ( पापग्रहैः ) गतं ( मुक्तं ), गम्यं
( भोग्यं ), अधिष्ठितं ( युतं ) यदपि च त्रिविधाद्भुतदूषितं ( त्रिविधैः
दिव्यभौमाऽन्तरिक्षैः अद्भुतैरुत्पातैः दुष्टं ) तरणितारकतः ( सूर्यनक्षत्रतः )
चतुर्दशं तत् अखिलेपि ( समस्तेऽपि ) शुभकर्मणि खलं ( दुष्टं ) स्यात् ।
भा०-पापग्रह जिस नक्षत्र को छोड़ दिया हो, जिसमें जाने वाला हो तथा
जिसमें वर्तमान हो ये तीनों नक्षत्र तथा त्रिविध ( दिव्य भौम, आन्तरिक्ष )
उत्पातों से दूषित नक्षत्र, तथा सूर्य नक्षत्र से १४ वाँ नक्षत्र जो हो ये नक्षत्र सब
शुभकार्यों में अशुभ हैं ॥ १० ॥
अथ लत्तादोषं कथयति-
रविनखैर्मितमर्कविधुन्तुदौ मुनिभिरिन्दुरखण्डलमण्डलः ।
हुतवहाकृतिषड्जिनदन्तिभिः क्षितिसुतादभिलत्तयति ग्रहः ॥११॥
सं०-अर्कविधुन्तुदौ ( सूर्य-राहू ) 'क्रमेण' रविनखैर्मितं ( द्वादशं,
विंशतितमं नक्षत्रं अभि ( सम्मुखं ) लत्तयतः, रविः स्वाक्रान्तात् द्वादशं,
राहुश्च विंशतितमं नक्षत्रं लत्तयतीत्यर्थः । अखण्डलमण्डलः (पूर्णमण्डलः)
इन्दुश्चन्द्रः मुनिभिर्मितं ( सप्तमं ) नक्षत्रं अभि लत्तयति । तथा क्षिति-
सुतात् ( मङ्गलमारभ्य ) ग्रहः 'क्रमेण' हुतवहा-ऽऽकृति-षड्-जिन-दन्तिभि-
र्भितं 'नक्षत्रं' अभि लत्तयति ॥११॥