विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 15, कुल 138 में से
संदर्भ में पढ़ें२ विवाहवृन्दावनम्— [ नक्षत्रशुद्धि-
अथ ग्रन्थस्य वैशिष्ट्यं कथयति—
संवर्ग्य गर्गभृगुभागुरिरैभ्यगीर्भ्यः
सारं वराहमिहिरादिमतानुसारम् ।
स्फारत्स्फुरत्परिमलाढ्यफलं विवाह-
वृन्दावनं विरचयामि विचाररम्यम् ॥ २ ॥
सं० गर्ग-भृगु-भागुरि-रैभ्य-गीर्भ्यः सारं (तत्त्वं) संवर्ग्य (संकलय्य)
वराहमिहिरादिमतानुसारं ( वराहमिहिरादीनां, आदिशब्दात्—श्रीपति-
लल्लाचार्याणां—मतं अनुसरतीति तथोक्तं ) स्फारत्स्फुरत्परिमलाढ्यफलं
( स्फारन्ति-विस्तृतानि, स्फुरन्ति विकसितानि, परिमलाढ्यानि फलानि
‘सदसद्रूपाणि’ यस्मिन् तत्तथोक्तं ) विचाररम्यं ( विचारेण सदसद्विवेकेन
रम्यं मनोहरं, वनपक्षे तु विचारेण—स्त्रीणां पक्षिणां चारेण-संचारेण रम्य-
मिति’ एवं भूतं ) विवाहवृन्दावनं ( विवाहानां वृन्दं अवतीति तथोक्तं )
विरचयामि ॥ २ ॥
भा० — गर्ग, भृगु, भागुरि, रैभ्य इन सब मुनियों के वचनों के तत्त्व संकलन
करके वराहमिहिर, श्रीपति लल्ल आदि आचार्यों के मतानुसार विस्तृत रूप से
विकसित परिमल से युक्त फल है जिसमें इस प्रकार सद्विचारों से रमणीय विवाह-
वृन्दावन नामक ग्रन्थ को मैं बनाता हूँ ॥ २ ॥
अथादौ विवाहविहितनक्षत्राणि कथयति—
ध्रुवानुराधामृगमूलरेवती-करं मघास्वातिरदूषणो गणः ।
रवेरमीना मकरादिषड्गृही करग्रहे मङ्गलकृन्मृगीदृशाम् ॥ ३ ॥
सं०—ध्रुवानुराधामृगमूलरेवतीकरं ( ध्रुवाणि-अनुराधा-मृगशिरा-
मूलं रेवती करो हस्तः एषां समाहारद्वन्द्वे नपुंसकत्वं ) मघा, स्वातिः ‘अयं’
गणः ( एकादशनक्षत्रसमूहः ) ‘यदि’ अदूषणः ( दोषरहितः ) स्यात्
तदा मृगीदृशां ( स्त्रीणां ) करगृहे ( विवाहे ) मङ्गलकृत् स्यात् । तथा च
रवेः ( सूर्यस्य ) अमीना ( मीनरहिता ) मकरादिषड्गृही ( मकरादीनां
षड्गृहाणां समाहारो मकरादिषड्गृही चैत्ररहितमुत्तरायणमित्यर्थः )
मृगीदृशां ( स्त्रीणां ) करग्रहे ( विवाहे ) मङ्गलकृत् भवति ॥ ३ ॥
भा०—ध्रुवसंज्ञक ( तीनों उत्तरा रोहिणी ), अनुराधा, मृगशिरा, मूल,