विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 14, कुल 138 में से
संदर्भ में पढ़ें॥ श्रीः ॥
विवाहवृन्दावनम् ।
वसन्तलक्ष्मीसहितम् ।
टीकाकारकृतमङ्गलाचरणम् —
श्रीनन्दनन्दनपदे हृदये निधाय रम्ये विहर्तुमनिशं शिशुकौकिलानाम् ।
श्रीकेशवार्करचिते विमले विवाह-वृन्दावने विरचयामि वसन्तलक्ष्मीम् ॥
ग्रन्थकारकृतमङ्गलाचरणम्—
श्रीशार्ङ्गिणोः सृजतु वो नवसन्निवेशः
क्लेशव्ययं चलवलन्नयनाञ्चलश्रीः ।
यत्राञ्चल - ग्रथन - मङ्गल - माचचार
शृङ्गारहारमणिकौस्तुभरश्मिगुम्फः ॥ १ ॥
सं०—श्रीशार्ङ्गिणोः (श्रीश्च शार्ङ्गी चेति श्रीशार्ङ्गिणौ तयोः श्रीशार्ङ्गिणोः
लक्ष्मीनारायणयोः ) स नवसंनिवेशः ( नूतनसङ्गमः ) वः ( युष्माकं )
क्लेशव्ययं ( सुखं ) सृजतु ( करोतु ) । कथंभूतः स नवसंनिवेशः—
चलवलन्नयनाञ्चलश्रीः ( चलाश्च वलन्तश्च नयनाञ्चलाः नेत्रप्रान्तास्तेषां
श्रीःशोभा यस्मिन् स तथोक्तः ) पुनः किंभूतः—यत्र ( यस्मिन् नव-
संनिवेशे ) शृङ्गारहारमणि-कौस्तुभरश्मिगुम्फः ( शृङ्गारहारमणिश्च कौस्तु-
भश्चेति शृङ्गारहारमणि-कौस्तुभौ तयोः रश्मीनां गुम्फः = गुम्फनं-ग्रथनं )
अञ्चलग्रथनमङ्गलं ( अञ्चलयोः ‘प्रावृतवस्त्रप्रान्तयोः’ ग्रथनमेव मङ्गलं
तत् ) आचचार ( आचीर्णवान् = कृतवानित्यर्थः ) ॥ १ ॥
भा०—चलते और लौटते हुए नेत्र प्रान्तों की शोभा है जिसमें ऐसा श्री
( लक्ष्मी ) और नारायण का प्रथम समागम आप लोगों के क्लेश को दूर करै ।
जिस नव समागम में लक्ष्मीजी के शृङ्गार हारस्थित मणि के रश्मि ( किरण ),
और भगवान् नारायण के कौस्तुभमणि के किरण, इन दोनों का गुम्फ ( परस्पर
मिलन ) ही ने अञ्चलग्रथन ( गाँठ बन्धन ) रूप मङ्गलाचरण किया ॥ १ ॥