सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 59, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 59

श्लो० १८ ] प्रथमाह्निकम् । ४९
मेव शास्त्रं शिवसद्भावलाभैकफलम् - इत्यवसेयम् ।
तदेव परमपदप्राप्तौ साक्षादुपायभूतत्वादुत्कृष्टम् ।
एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य
उक्तं, तत्तत एव स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु
प्रतिपदं न संवादितम् । अत एवाह 'तत्सारं
त्रिकशास्त्रम्' इति । तदुक्तं
'वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥'
इति । अनेनैवाशयेन च
'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।
संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ॥'
इत्यादि श्रीनिशाचारादावुक्तम् । तच्च सिद्धा-नामक-
मालिन्याख्यखण्डत्रयात्मकत्वात्त्रिविधम् । तत्र क्रिया
प्रधानं सिद्धातन्त्रं, ज्ञानप्रधानं नामकं तन्त्रं,
तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह
'तत्सारं मालिनीमतम् ' इति । एवं च, 'न तदस्तीह
यन्न ' इत्यादि युक्तमेवोक्तम् ॥१८॥

पं० ४ ख० पु० उक्तमित्यत एवेति पाठः ।
पं० १४ ख० पु० ज्ञानप्रधानमनामकम् इति पाठः ।