तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 60, कुल 368 में से
संदर्भ में पढ़ें५० श्रीतन्त्रालोकः ।
अतश्च सर्वसंहृत्वात्तदधिकारेणैव च प्रतिज्ञाया
अपि निर्वाहो युक्त इत्याह
अतोऽत्रान्तर्गतं सर्वं संप्रदायोज्झितैर्बुधैः ।
अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१६॥
'अत' इति उक्तयुक्त्यास्यैव शास्त्रस्य प्राधान्यात्।
'प्रकटीकुर्म' इति प्रक्रियाकरणेन । अतश्च 'प्रधाने
हि कृतो यत्नः फलवान्भवति' इति भावः । 'गुरुनाथा-
ज्ञया' इति-नहि तदाज्ञां विनात्र अधिकार एव भवे-
दिति भावः ॥ १६ ॥
अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद
एव निमित्तम् इति दर्शयितुमाह
अभिनवगुप्तस्य कृतिः
सेयं यस्योदिता गुरुभिराख्या ।
त्रिनयनचरणसरोरुह-
चिन्तनलब्धप्रसिद्धिरिति ॥ २० ॥
पं० ६ ख० पु० प्रधानो हि यत्नः फलवानित्येवंविध एव पाठः ।
पं० ८ ख० पु० नहि तदाज्ञायामत्राधिकार इति पाठः ।
पं० १० क० पु० प्रकटीकारे चेति, ख० अन्यादृष्टार्थप्रकटीत्यादि च पाठः ।
पं० १४ ख० पु० त्रिनयनचरणसदोदितचिन्तनेति पाठः ।