सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 58, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 58

४८ श्रीतन्त्रालोकः ।
पदिशेयुः इत्यलं महागुरूणामुपदेशपरीक्षणदुःशि-
क्षया । ननु शास्त्राणां
'यतः शिवोद्गवाः सर्वे शिवधामफलप्रदाः ।'
इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह
किंनिबन्धनमेषामेवं नानात्वमुक्तंः ? सत्यं - किन्तु
अनुग्राह्याशयभेदादेषां नानात्वं कल्पितम् । यदुक्तं
'सर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः ।
अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ॥
फलभेदो न कल्प्योऽत्र कल्प्यश्चेदद्यथायथम् ।'
इति । ननु यद्येवं तत्
'वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम् ।
दक्षिणाच्च परं कौलं कौलात्परतरं नहि ॥'
इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न
स्यात् , ? नैतत् - द्वारद्वारिभावेन एषामुपायोपेय-
भावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादक-
पं० १ क० ख० पु० महागुरूपदेशेति पाठः ।
पं० ४ ख० पु० एकत्वनियामकं कारणं फलयोरित्याद्यसमस्तवाक्यात्मा पाठः ।
पं० १२ क० पु० दक्षिणात्तत्परमिति पाठः ।
पं० १४ ख० पु० द्वारिद्वारभावेनेति, उपायोपायभावस्येति च पाठः ।