तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
४२ (१.१.८) तैत्तिरीयब्राह्मणम्
अथाष्टमोऽनुवाकः ।
आधानमन्त्राः सप्तमेऽभिहिताः । अष्टमे तद्ब्राह्मणमुच्यते । तत्र
त्रीनाधानमन्त्रान्विनियुङ्क्ते-
इ॒मे वा ए॒त लो॒का अ॒ग्नय॑ः। ते यद॒व्या॑वृत्ता आधी॒येर॑न् ।
शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॑ गार्हप॒त्यमाद॑धाति ।
वातः॑ प्रा॒ण इत्य॑न्वाहार्यप॒चन॑म् । अ॒र्कश्चक्षु॒रित्या॑-
हव॒नीय॑म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शौच॑यन्ति॒
यज॑मानम्, इति ।
एते त्रयोऽग्नयस्त्रित्वसाम्यादिमे त्रयो लोका भवन्ति । ते यदि
परस्परम्-व्यावृत्ताः समुदिता आधीयेरंस्तदा दाहाधिक्येन यजमानं
संतापयेयुः । अतस्त्रिभिर्मन्त्रैः पृथगादध्यात् । तेन व्यावृत्ताः सन्त
स्तापाधिक्याभावाद्यजमानं नैव संतापयन्ति ।
अथाऽऽधानकाले सामगानं विधत्ते-
र॒थं॒त॒र॒म॒भिगा॑यते गार्हपत्य आधी॒यमा॑ने । राथन्त॒रो वा
अ॒यं लो॒कः (१) । अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते ।
वा॒म॒दे॒व्य॒म॒भिगा॑यत उ (द्) ध्रिय॒माणे॑ । अ॒न्तरि॑क्षं॒ वै
वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॑ प्रति॑ष्ठित॒माध॑त्ते । अथो॒
शान्ति॒र्वै वा॑मदे॒व्यम् । शान्त॑मे॒वैनं॑ पशू॒व्यमुद्ध॑रते ।
बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने बाह॑तो॒ वा अ॒सौ
लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते, इति ।
“अभि त्वा शूर नोनुमः ” इत्यस्यामृच्युत्पन्नं रथंतरम् । “कया
नश्चित्र आभुवत् ” इत्यस्यामृच्युत्पन्नं वामदेव्यम् । “त्वामिद्धि हवामहे”
इत्यस्यामृच्युत्पन्नं बृहत् । रथंतरादीनां भूरादिलोक-
भोगहेतुत्वाल्लोकरूपत्वम् । अत एतेषां गाने सति तत्तल्लोकेऽग्निः
प्रतिष्ठितो भवति । अपि च वामदेव्यस्योपद्रवशान्ति-
करत्वात्पशुप्राप्तिहेतुत्वाच्चैनमुद्ध्रियमाणमग्निं शान्तं पशुसाधनं च
कृत्वोद्धरति ।
पुनरपि सामद्वयं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.८) ४३
प्र॒जाप॑तिर॒ग्निम॑सृजत (२) । सोऽश्वो॑ वा॒रो भू॒त्वापरा॑ङ्डत् ।
तं वार॑वन्ती॒येना॑वारयत । तद्वा॑रवन्ती॒यस्य॑
वारवन्ती॒यत्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑
श्यै॒तत्वम् । यद्वा॑रवन्ती॒यम॒भिगा॑य॑ते । वा॒र॒यि॒त्वैवैनं॑
प्रति॑ष्ठित॒माध॑त्ते । श्यै॒तन॑ श्ये॒ती कु॑रुते, इति ।
यः प्रजापतिना सृष्टोऽग्निः स वारोऽश्वो भूत्वा पुनरावृत्तिरहितः
पलायनमकरोत् । यो हस्तद्वयेन खलिनं गृहीत्वा बलान्निवारणीयः स
वारः । तं वारमश्वं पलायमानं वारवन्तीयेन साम्ना
प्रजापतिर्निवारयामास । “अश्वं नत्वा वारवन्तम् ” इत्यस्यामृच्युत्पन्नं
वारवन्तीयम् । निवारणहेतुत्वात्तस्य वारवन्तीयं नाम संपन्नम् ।
निवारितमश्वं श्यैतसाम्ना श्येतीकृतवान्स्वाधीनीकृतवानित्यर्थः । “अभि
प्रवः सुराधसम्' इत्यस्यामृच्युत्पन्नं श्यैतम् । स्वाधीनीकरणहेतुत्वात्तस्य
श्यैतनाम संपन्नम् । अतो वारवन्तीयसाम्ना पलायनं निवार्य
प्रतिष्ठितमग्निमाधाय श्यैतगानेनाग्निं स्वाधीनं करोति ।
आधानमन्त्रे शिरः शब्दतात्पर्यं दर्शयति-
घ॒र्मः शिर॒ इति॑ गार्ह॑पत्य॒माद॑धाति । सशी॒र्षाण॑मे॒वैन॒माध॑त्ते
(३) । उपैन॒मुत्त॑रो य॒ज्ञो न॑मति, इति ।
अग्नेः शिरःसहितत्वे सति न्यूनत्वाभावादुत्तरो
दर्शपूर्णमाससोमादिरेनं प्राप्नोति ।
संप्रियशब्दतात्पर्यं दर्शयति-
रु॒द्रो वा ए॒षः यद॒ग्निः । स आ॑धीयमा॑न ईश्व॒रो यज॑मानस्य
प॒शून्हि ँ सि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह ।
प॒शुभि॑रे॒वैन ँ संप्रि॑यं करोति । प॒शूनामहिँ॑सायै, इति ।
आधीयमानस्याग्नेः क्रूरत्वेन पशून्हिंसितुं समर्थत्वादहिंसार्थं
पशुभिः सह संप्रीतिं मन्त्रेण करोति ।
यच्छेति पदस्याऽऽशीरर्थं दर्शयति-
छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वै :
४४ (१.१.८) तैत्तिरीयब्राह्मणम्
तामाशा॑स्ते, इति ।
प्राणशब्दस्य तात्पर्यं दर्शयति-
'वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् (४) । सप्रा॑णमे॒वैन॑माध॒त्ते,
इति ।
स्वदितपितुशब्दयोस्तात्पर्यं दर्शयति-
स्व॒दितं॑ तो॒काय॒ तन॑याय पि॒तुं प॑चेत्या॑ह । अन्न॑मे॒वास्मै॑
स्वदयति, इति ।
प्राचीं प्रेहीति पदद्वयस्य तात्पर्यं दर्शयति ।
प्राची॒मनु॑ प्र॒दिशं॑ प्रेहि वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑योः
सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते, इति ।
येयं प्राच्यां दिशि गतिरयमेवैनयोराहवनीयगार्हपत्ययोर्विभागः ।
अपि च विभागे सति पूर्वोक्तरीत्या द्वयोः पृथक्सामर्थ्यं भवति ।
धेहीति पदस्याऽऽशीर्र्थत्वं दर्शयति-
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते, इति ।
अर्कशब्दस्य तात्पर्यं दर्शयति-
अ॒र्कश्च॒रित्या॑हव॒नीय॑म् । अ॒र्को वै दे॒वाना॒मन्न॑म् (५) ।
अन्न॑मे॒वाव॑रुन्द्धे, इति ।
अर्चनीयत्वव्युत्पत्या देवानाम्नकारित्वादन्नप्राप्तिः ।
दीदिहिशब्दस्य समिन्धनार्थत्वं दर्शयति-
तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन॑म्, इति ।
पूर्वपक्षहेतुत्वेन मंत्रस्य कंचिद्विनियोगं दर्शयति-
आ॒न॒शे व्या॑न॒श इति॑ त्रि॒रुर्दि॒ङ्गय॑ति । त्र्य॑ इ॒मे लो॒काः॑ ।
तैत्तिरीयब्राह्मणम् (१.१.८) ४५
ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठितमा॒धत्ते॒, इति॑ ।
हस्ते धृतस्याग्नेस्त्रिवारमूर्ध्वचलनेन लोकत्रयप्रतिष्ठा ।
तमेतं दूषयित्वा विनियोगान्तरं दर्शयति-
तत्तथा॒ न का॒र्यम् । वीऽङ्गित॒मप्र॑तिष्ठितमाद॑धीत ।
उ॒द्धृत्यै॒वाऽऽधाया॑भिमन्त्र्यः । अवी॑ङ्गितमे॒वैनं॒
प्रति॑ष्ठितमाध॒त्ते, इति॑ ।
त्रिरूर्ध्वचलनेन वीङ्गितं विविधं चालितमप्रतिष्ठितमग्निमाहित-
वान्भवोत् । तस्मात्तथोर्ध्वचलनं न कार्यम् । किंतु हस्ते
सकृदुद्धृत्यैवाऽऽयतने तमग्निमाधाय पश्चात्सोऽग्निरनेन मन्त्रेण
मन्त्रणीयः । तथा सति विविधचलनरहितं स्थिरत्वेन
प्रतिष्ठितमग्निमाहितवान्भवति ।
विराडादिशब्दानां तात्पर्यं दर्शयति-
वि॒राट् च॑ स्व॒राट् च॑ यास्तै॑ अग्ने
शि॒वास्त॒नुव॒स्ताभि॑स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेः
शि॒वास्त॒नुव॑ः। ताभि॑रे॒वैन॒ ँ॒सम॑र्धयति, इति॑ ।
मन्त्रान्तरं विनियुङ्क्ते-
यास्तै॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॑च्छेति॑ ब्रूया॒द्यं
द्वि॒ष्यात् । ताभि॑रे॒वैनं॑ परा॑भावयति (६), इति॑ ।
लो॒केऽसृ॑जत्तै॒नमाध॑त्तेऽन्वाहार्यप॒चनं॑ दे॒वाना॒मन्न॒मेनं॒ प्रति॑ष्ठित॒माध॑त्ते
पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतेत्तिरीयब्राह्मणे प्रथमाष्टके
प्रथमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
यं पुरुषमसौ यजमानो द्विष्यात्तं प्रत्येतं मन्त्रं ब्रूयात् । तथा सति
ताभिरेव घोराभिस्तनुभिरेनं द्वेष्यं विनाशयति । अथ मीमांसा ।
दशमाध्यायस्याष्टमपादे चिन्तितम्-
उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः ।
विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः ॥
४६ (१.१.८) तैत्तिरीयब्राह्मणम्
विध्यन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति ।
विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः ॥ (इति) ।
आधाने वामदेव्यादिसाम्नां गानानि विहितानि । आधान
एववेदमपरमाम्नायते-“उपवीता वा एतस्याग्नयो यस्याग्न्याधेये ब्रह्मा
सामानि गायति” इति । उपशब्दः सामीप्यं ब्रूते । वीता विगताः
कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः । अनया निन्दया ब्रह्मणः
सामगाननिषेध उन्नीयते । स निषेध उद्गातृविहितं वामदेव्यादिसामगानं
स्तौति । ननु ब्रह्मणः सामगानमप्रसक्तम् । अतस्तन्निषेधोऽ
त्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः । न हि वन्ध्यापुत्रो वा तद्वधो
वा संभावयितुं शक्यते । तथा सति तादृशेन निषेधेन कथं स्तुतिरिति
चेत् । वपोत्खेदवदिति ब्रूमः। स आत्मनो वपामुदखिद-
दित्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः
स्तूयते तद्वदिति प्राप्ते ब्रूमः । नेदं वामदेव्यादि साम विधीनां स्तोत्रं
भवितुमर्हति । विधीनामनेकत्वेन स्वस्वसंनिधिपठितैर-
र्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात् । का तर्ह्यस्य वाक्यस्य गतिरिति
चेत् । उच्यते ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते । यस्य च गानं
प्रसक्तं तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातृगानं
विकल्प्यते । (अथ) मीमांसा । एकादशाध्यायस्य तृतीयपादे चिन्तितम्-
प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत् ।
अन्याङ्गवत्पृथङ्गैवं स्वकालत्वसमत्वतः ॥
वसन्ते ब्राह्मणोऽग्निमादधीतेति विहितमाधानं
प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यमिति चेत् । मैवम् । आधानस्य
स्वातन्त्र्येण'वसन्तादिकाले विहिते तत्तत्कर्मकालेषु पृथगनुष्ठानायोगात् ।
स्वकालेऽनुष्ठितस्य सर्वैः कर्मभिः संबन्धः समानः । न च प्रकरणेन
विशेषो नियन्तुं शक्यः । आधानस्यानारभ्याधीतत्वात् । “आहवनीये
जुहोति” इत्यादिवाक्येन त्वैष्टिकपाशुकसौमिकदार्विकहोमेषु संबन्धः
साधारणः प्रतिपाद्यते । तस्मात्तन्त्रेणानुष्ठेयम् । यद्यप्याधानं नेष्ट्यादिकर्मणां
साक्षादङ्गं तथाऽपि पृथक्फलाभावादाहवनीयादिद्वारा
कर्मोपकारित्वाच्चाङ्गत्वमभ्युपेत्येयं चिन्ता ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठ केऽष्टमोऽनुवाकः ॥ ८ ॥
तैत्तिरीयब्राह्मणम् (१.१.९) ४७
अथ नवमोऽनुवाकः ।
अष्टम आधानमन्त्रव्याख्यानमुक्तम् । अथ नवमे ब्रह्मौदनमुच्यते ।
तत्राऽऽदौ तावद्ब्रह्मौदनात्पराचीनमाधानात्प्राचीमग्निमन्थनमुच्यते ।
यदुक्तं सूत्रकारेण-“ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्शमीगर्भादग्निं
मन्थति” इति । तदिदं विधत्ते-
श॒मी॒गर्भा॒द॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः ।
ता॑मे॒वास्मै॑ जनयति, इति ।
आधानदिनात्पूर्वेद्युर्ब्रह्मौदनं पक्त्वाऽपरेद्युरुद्युदयात्पूर्वं तस्मा-
ब्राह्मौदनिकादग्नेर्भस्मापोह्य तस्मिन्स्थाने शमीवृक्षस्य गर्भंगतेनाश्वत्थेन
निष्पादितामरणिमवस्थाप्याग्निं मन्थेत् । तस्माच्छमीगर्भा-
दुत्पन्नायाऽग्नेस्तनूरेषा यज्ञार्हाऽतस्तामेव जनयति ।
अथ ब्रह्मौदनं विधत्ते-
अदि॑तिः पु॒त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्र॒ह्मौद॒नम॑पचत् ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्यै धा॒ता चार्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् (१) ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् ।
तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त ।
तस्या॒ अ ँशो॑श्च॒ भग॑श्चाजायेताम् । सा च॒तुर्थ॑मपचत्
(२) । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽ
धत्त । तस्या॒ इन्द्र॑श्च वि॒वस्वाँ॑श्चाजायेताम् । ब्र॒ह्मौद॒नं
प॑चति । रेत॑ ए॒व तद्द॑धाति, इति ।
ब्रह्मणं देवमुद्दिश्य होमार्थं ब्राह्मणानामृत्विजां प्राशनार्थं च पच्यमान
ओदनो ब्रह्मौदनः । तं कदाचिददितिर्देवी पुत्रकामा सती साध्येभ्यो देवेभ्य
उत्पादनीयधात्रादिदेवार्थमपचत् । तदानीमृत्विजो होमं प्राशनं च कृत्वा
शिष्टमोदनं तस्या अदितये प्रायच्छन् । सा च यदुच्छेषणं प्राश्य
४८ (१.१.९) तैत्तिरीयब्राह्मणम्
गर्भमाधत्त । तस्माद्गर्भाद् द्वादशादित्यानामादिभूतौ धाता चार्यमा
चेत्युभावजायेताम् । एवमुत्तरेषु त्रिष्वपि पर्यायेषु योज्यम् ।
तस्मादावित्सुर्ब्रह्मौदनं पचेत् । तेन पुत्रोत्पादकं रेत एव तद्दधाति ।
ऋत्विजां प्राशनं विधत्ते-
प्राश्न॑न्ति ब्राह्म॒णा औद॑नम्, इति ।
तस्मात्प्राशनात्पूर्वं समिदाधानं विधत्ते-
यदाज्य॑मुच्छि॒ष्यते॑ । तेन॑ स॒मिधो॑ऽभ्यज्याऽऽद॑धाति ।
उ॒च्छेष॑णाद्वा अदि॑ती॒ रेतो॑ऽधत्त (३)। उ॒च्छेष॑णादे॒व तद्रेतो॑
धत्ते, इति ।
होमोच्छिष्टं समिदञ्जनसाधनमाज्यं प्रशस्य तेनाभ्यक्ताः
समिधः प्रशंसति-
अस्थि॒ वा ए॒तत् । यत्स॒मिध॑ः । ए॒तद्रेतः॑ । यदाज्य॑म् ।
यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒ऽऽदधा॑ति । अस्थ्ये॒व तद्रेत॑सि
दधाति, इति ।
काठिन्यसाम्यात्समिधामस्थित्वम् ।
समित्संख्यां विधत्ते-
ति॒स्र आद॑धाति मिथु॒नत्वाय॑, इति ।
सपुत्रयोर्मातापित्रोर्मिथुनरूपयोस्त्रित्वसाम्यम् । अत एवा-
न्यत्राऽऽम्नातम्-“माता पिता पुत्रस्तदेव तन्मिथुनम् ” इति ।
प्रादेशाभिनयेन समिधा परिमाणं विधत्ते-
इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः (४) ।
इय॑तीर्भवन्ति । य॒ज्ञपु॑रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्यम्॑ । वी॒र्यसं॑मिताः, इति ।
इयत्यः प्रादेशपरिमिताः । प्रजापत्यवतारस्य यज्ञपुरुषस्य मुखं
मूर्धानमारभ्य चुबुकपर्यन्तं प्रादेशपरिमितं भवति । अवस्तत्तुल्यत्वम् ।
तैत्तिरीयब्राह्मणम् (१.१.९) ४९
यज्ञस्य परु पर्वावयवविशेषः पवित्ररूपः । तस्य च प्रादेशप्रमाणं तन्मन्त्रे
समाम्नातम् -“त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः” इति । अतो
यज्ञपर्वणा तुल्यत्वम् । किंच पुरुषविशेषे चक्षुःश्रोत्रादिज्ञानेन्द्रियसामर्थ्यं
प्रादेशपरिमिते मुखे वर्तते । अतस्तेन वीर्येण तुल्यत्वम् ।
तासां समिधां शुष्कत्वं वारयितुं विधत्ते-
आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑: सि॒च्यते॑, इति । इवशब्द
एवकारार्थः ।
समिधां वृक्षविशेषं विधत्ते-
चित्रिय॑स्याश्व॒त्थस्याऽऽद॑धाति । चि॒त्रमे॒व भ॑वति, इति ।
अश्वत्थग्रामोऽश्वत्थचित्रक इत्युच्यते ।
योऽश्वत्थो ग्रामादेश्चिह्नीभूतस्तदीयाः समिध आदध्यात् । तेन
विचित्रमेवैश्वर्यं भवति ।
समिदाधानार्थानृग्विंशेषान्विधत्ते-
घृ॒तव॑तीभि॒राद॑धाति (५) । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद्
घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ समर्धयति । अथो॒ तेज॑सा, इति ।
घृतशब्दो यास्वृक्षु स्थितस्ता घृतवत्यः । घृ॒तेना॑र्धयतातिथि॒मित्येवं
घृतशब्दस्तत्र श्रूयते । घृतेन ज्वालाभिवृद्धेरग्नेर्घृतप्रियत्वम् । अतस्तेन
घृतयुक्तेन मन्त्रेण समिध आदधानः प्रियेण स्थानेन समृद्धो भवति । अपि
च तेजसा समृद्धो भवति ।
अधिकारिभेदादृग्व्यवस्थां विधत्ते-
गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याऽऽद॑ध्यात् । गा॒य॒त्रच्छ॑न्दा॒ वै
ब्राह्म॒णः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ । त्रि॒ष्टुभी॑
रा॒ज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॒ज॒न्य॑ः । स्वस्यै॒व च्छन्द॑सः
प्रत्यय॒नुस्त्वार्य॑ (६) । जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै
वैश्य॑: । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑, इति ।
प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या
५० (१.१.९) .तैत्तिरीयब्राह्मणम्
“समिधाऽग्निं दुवस्यत” इत्याद्या गायत्र्यः । “समिध्यमानः
प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या
जगत्यः । एताश्चोपरितनप्रपाठक आम्नास्यन्ते । गायत्रीब्राह्मणयोरेकमुखत्वं
संबन्धः। अतः स्वकीयस्यैव गायत्रीछन्दसः प्रत्ययनस्त्वाय पुनः प्राप्तये
गायत्रीभिर्ब्राह्मणास्याऽऽदध्यात् । एवमुत्तरयोर्वाक्ययोर्योज्यम् ।
समिद्धस्य ब्राह्मौदनिकाग्नेश्चिरावस्थानं विधत्ते-
त ँसंव॑त्स॒रं गोपायेत॒ । सं॒व॒त्स॒र ँहि॒ रेतो॑ हि॒तं वर्ध॑ते,
इति ।
यस्माल्लोके गर्भाशये स्थापितं रेतः संवत्सरं वर्धते
तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् ।
यदुक्तं सूत्रकारेण-“यद्येन ँ संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं
पक्त्वा समिध आधाय यदैवेनमुपनमेदथाऽऽदधीत” इति । तदिदं विधत्ते-
यद्ये॑न ँसंवत्स॒रे नोप॒नमे॑त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑
ए॒व तद्धि॒तं वर्ध॑मानमेति, इति ।
केनापि द्रव्यराहित्यादिना निमित्तेनास्य यजमानस्या-
ग्न्याधेयप्राप्तिर्यदि न स्यात्तदा संवत्सरगोपिते तस्मिन्ब्राह्मौदनिकेऽग्नौ
समिध आधाय तत्सिद्धिपर्यन्तं गोपायेत् । तेन गर्भाशये स्थापितं रेतः
संवत्सरं वर्धते । तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् ।
तेन गर्भाशये स्थापितं वर्धमानं रेतः प्राप्नोति ।
ब्राह्मौदनिकस्य रक्षणकर्तुर्नियमविशेषं विधत्ते-
न मा॒ ँसम॑श्नीयात् । न स्त्रिय॑मु॒पेयात् (७), इति ।
व्यतिरेकमुखेन नियमं प्रशंसति-
यन्मा॒ ँसम॑श्नी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यः स्यात् ।
नैन॑म॒ग्निरुप॑नमेत्, इति ।
अग्न्याधेयं न प्राप्नुयादित्यर्थः ।
आधानदिनात्पूर्वदिने पुनर्ब्रह्मौदनं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.९) ५१
श्व आधा॑स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त
उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । ते वा इ॒तो यन्तं॑ प्रति॒नुद॑न्ते ।
ए॒ते खलु॒ वावाऽऽदि॒त्याः । यद्ब्राह्म॑णाः । तैरे॒व स॒न्तवं॑
ग॑च्छति (८) । नैनं॒ प्रति॑नुदन्ते, इति ।
पुरा कदाचिदादित्या इतो भूलोकादुद्गततमाः स्वर्गं प्राप्ताः । ते
चान्यं पुरुषमितः स्वर्गे गच्छन्तं प्रतिबध्नन्ति । भूलोकवर्तित्वात् । ब्राह्मणा
एवादितिसंबन्धादादित्याः । अनेन ब्रह्मौदनेन तुष्टैस्तैर्ब्राह्मणैरादित्यैः
सहस्वर्गप्राप्तौ संमतत्वं गच्छति । तत एनं न प्रतिबध्नन्ति ।
तस्य ब्राह्मौदनिकाग्नेः समिन्धनं तस्मिन्नरणिप्रतापनं च विधत्ते-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः कार्यः॑ । यो॑ऽ
स्मै॑ प्र॒जां प॒शून्प्र॑ज॒नयतीति॑ । शल्कै॒स्ता ँ रात्री॒म्
ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॑रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑
वा॒शिता॒यावि॑च्छा॒यति॑ । ता॒दृगे॒व तत्, इति ।
आधातव्यो योऽग्निरस्मा आहिताग्नये प्रजां पशूंश्च संपादयति
सोऽग्निः क्व कार्यः कुत्र संपादनीय इति ब्रह्मवादिनां प्रश्नः।
तस्यैतदुत्तरम् । तस्यां रात्रौ निरन्तरं तस्मिन्काष्ठालैशैरग्निं
समिन्ध्यऽग्नावुषः कालसमीपे मन्थनसाधनमरणिद्वयं निष्टपेन्निःशेषेण
तपेत् । तेन स ब्राह्मौदनिकोऽग्निररण्योः प्रविशति । यथा लोके
कस्मैचिदृषभाय प्रियाणि वाशितानि किकिटादिशब्दजातानि
तदागमनाय विशेषेण संपादयति । तदरणिप्रतापनं तादृगेवेति द्रष्टव्यम् ।
अथ देशविशेषे मन्थनं विधत्ते-
अपोदू॒ह्य भस्मा॒ग्निं मं॑न्थति (९) । सैव साऽग्नेः संत॑तिः,
इति ।
ब्राह्मौदनिकाग्निसंबन्धिभस्मान्यपोदूह्य निःसार्य तस्मिन्स्थाने
तप्ताभ्यामरणीभ्यामग्निं मन्थेत् । तस्मिन्स्थाने येयं मन्थनक्रिया सैव
ब्राह्मोदनिकस्याग्नेरुत्पत्स्यमानेनाग्निना सह सा संततिः । तथाविधो
विच्छेदाभावः।
५२ (१.१.९) तैत्तिरीयब्राह्मणम्
मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते-
तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं
प्र॒जन॑यति, इति ।
अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु
प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति
तद्वदेतद्भवति ।
ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ
विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति-
अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ
ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति ।
समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः ।
तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः।
तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते-
यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् ।
सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः ।
सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति ।
आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी
तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन
मिलित्वा संवत्सरसादृश्यम् ।
पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते-
यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।
तैत्तिरीयब्राह्मणम् (१.१.१०) ५३
द्वि॒तीय॑मपच॒च्चतु॑र्थमपच॒द्दितीर॑तोऽधत्त सं॒मिताघृ॒तवती॑भिरा॒र्दधा॑ति
रा॒जन्य॑:स्व॒स्य छन्द॑सः प्र॒त्यय॑न॒स्त्वो॑र्येयाद॒गच्छ॑ति । म॑न्थति रा॒त्र॑यश्च॒त्वारि॑
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
प्रथमाध्याये नवमोऽनुवाकः ॥ ९ ॥
पूर्ववद् व्याख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः ।
नवमे ब्रह्मौदनाऽभिहितः । अथ दशमं पञ्चाग्न्याधानमभिधीयते ।
पूर्वं पञ्चमेऽनुवाके यत्रेधाऽग्निरधीयत इत्यग्नित्रयाधानपक्ष
एवाभिहितः। इह तु पञ्चाग्न्याधानं विधातुमाख्यायिकामाह-
प्र॒जाप॑तिः प्र॒जा असृ॑जत । स रि॑रिचा॒नोऽम॑न्यत । स
तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत ।
तद॑स्मा॒त्सह॑सो॒र्ध्वमसृ॑ज्यत । सा वि॒राड॑भवत् । तां
दैवा॑सु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा
(१) । दोहो॑ ए॒व यु॒ष्माक॒मिति॑, इति ।
प्रजापतिः प्रजाः सृष्ट्वा स्वकीयस्य वीर्यस्योपक्षयेण रिक्तोऽहमिति
मत्वा वीर्यलाभाय स तपस्तप्त्वा स्वात्मनि किंचिद्वीर्यमपश्यत् । तच्च
वीर्यं कालेनावर्धत । तत्प्रवृद्धं वीर्यं धारयितुमशक्यं
सच्छीघ्रमेवास्मात्प्रजापतेरूर्ध्वं निर्गत्य केनचिद्रूपेण सृष्टमभूत् । सा सृष्टा
निष्पन्ना विविधं राजमाना काचिद्गौरभवत् । तामुद्दिश्य देवाश्चासुराश्च
वयमेवैतां गृह्णीम इत्येवं परस्परं विग्रहमकुर्वन् । तदा विग्रहशान्तये
प्रजापतिरेवमब्रवीत् । एषा गौर्ममैवेति । युष्माकं तु दोहा एव
क्षीराण्येवेति ।
सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । अथ॑र्व
पि॒तुं मे॑ गोपायेति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः
पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपायेति॑ । सा तृ॒तीय॒मुद॑क्रामत् ।
५४ (१.१.१०) तैत्तिरीयब्राह्मणम्
तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शस्य॑ ँ॑प॒शून्मै॑ गोपा॒येति॑ (२) ।
सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ
सभां॑ मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒
पर्य॑गृह्णात् । अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्वाव
सा तान्व॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑
पा॒ङ्क्तमे॒व, इति ।
येयं गौः प्रजापतिना स्वार्थमेव स्वीकृता विराट् सा प्रजापतेः
सकाशात्प्राङ्मुखी सत्युदक्रामत् . तदा प्रजापतिरथर्वेति मन्त्रेण तां विराजं
परितो निरुद्धवान् । हेऽथर्व चतुर्थवेदप्रवर्तकाचार्यरूप दक्षिणाग्ने, यद्वा
हिंसारहितं मे पितुं मदीयमन्रं गोपाय । एवमुत्तरेषु चर्तुषु योज्यम् । नरेभ्यो
मनुष्येभ्यो हितो नर्यो गार्हपत्यः । ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य
आहवनीयः । प्रथया कीर्त्या सह वर्तमानत्वात्सप्रथः सभ्यः ।
अहिंसकत्वादबुध्ने मूले जगदादावुत्पन्नत्वादहिर्बुध्निय आवसथ्यः ।
ऋगादिर्भन्त्रः । इत्थं सैव विराट् तानग्नीन्पञ्चधा विवेक्तुं पञ्चवारं
व्यक्रामत् । तान्यञ्चाग्नीन्प्रजापतिः परितः स्वीकृतवान् । अपि च
क्रमेणावस्थानात्पञ्चसंख्यान्वयाद्वा पङ्क्तमेवैतावदग्निविषयां
गृहीतवान् ।
इदानीं विधत्ते-
पा॒ङ्क्तिर्वा ए॒षा ब्राह्म॑णे प्रवि॑ष्टा (३) । तामा॒त्मनोऽधि॑
निर्मि॑मीते । यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॑
आधी॑यन्ते । पा॒ङ्क्त वा इद ँसर्व॑म् । पा॒ङ्क्तेनै॒व पा॒ङ्क्त ँ
स्पृणोति, इति ।
पूर्वोक्तानामाथर्वंत्यादीनां मन्त्राणां ब्राह्मणेनाधीतत्वात्प्रजापति-
प्रतिपाद्यत्वाद्वा पङ्क्तिर्विप्रे प्रविष्टा । तथा सत्यग्न्याधानेन तां पङ्क्तिं
तस्मादुत्पादयति । तस्मादेतावन्तः पञ्चाग्नय आधातव्याः । यदिदं
मनुष्यपश्वादिरूपं जगत्सर्वं पञ्चसंख्यॉपेतत्वात्पाङ्क्तम् । शिरो हस्तौ
पादौ चेत्येवं मनुष्याणां पञ्चावयवाः । शिरसा पुच्छेन वा सह चत्वारः
पादाः पशूनां पञ्चावयवाः। अतः पञ्चसंख्यायुक्तेनैवाग्निना
पञ्चसंख्यायुक्तं जगत्प्रीणयति ।
अथ मन्त्राणां तात्पर्यं क्रमेण दर्शयति-
तैत्तिरीयब्राह्मणम् (१.१.१०) ५५
अथ॑र्व पि॒तुं मे॑ गोपायेत्या॑ह । अ॒न्नमे॒वैतेन॑ स्पृणोति । नर्य॑
प्र॒जां मे॑ गोपायेत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ ँ
प॒शून्मे॑ गोपायेत्या॑ह (४) । प॒शूने॒वैतेन॑ स्पृणोति । स॒प्रथ॑
सभां मे॑ गोपायेत्या॑ह । स॒भामे॒वैतेनै॑न्द्रि॒य ँ स्पृ॑णोति । अ॒हे॑
बु॒ध्निय॒ मन्त्रं॑ मे गोपायेत्या॑ह । मन्त्र॑मे॒वैतेन॑ । श्रिय॑ ँ
स्पृणोति, इति ।
मन्त्रे तानिन्द्रियावत इत्यभिधानादिन्द्रियप्रीतिः । सा हि
श्रीरित्यभिधानाच्छ्रियः प्रीतिः ।
पञ्चानामग्नीनां पृथगुपयोगं दर्शयन्प्रशंसति-
यद॑न्वाहार्यपच॑नेऽन्वाहार्यं॒ पच॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑:
प्री॒तः । यद्गा'हपत्य॒ आज्य॑मधिश्रय॑न्ति संपत्नी॑र्य॒जय॑न्ति ।
तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑हव॒नीये॑ जु॒ह्वति॑ (५) । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यत्स॒भायां वि॒जय॑न्ते । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑वस॒थेऽन्न॑ ँ हर॑न्ति । तेन॒
सो॑ऽस्या॒भीष्ट॑: प्री॒तः । तथा॑ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒
आधी॑यन्ते, इति ।
दर्शपूर्णमासकर्मणि ऋत्विजामनु दक्षिणार्थं आह्नियत इत्योदनो
ऽन्वाहार्यः । स च पच्यते यस्मिन्दक्षिणाग्नौ सोऽयमन्वाहार्यपचनः ।
तेनौदनपाकेनोपयुक्तत्वात्स दक्षिणाग्निरस्य यजमानस्याभीष्टोऽपि भवति ।
एतदीयपरिचर्यया प्रीतश्च भवति । एवमुत्तरत्रापि । गार्हपत्ये ह्याज्यं
विलापयन्ति । देवपत्नीश्च संयाजयन्ति । अतः पत्नीसंबन्धाद् गृहपतिना
संयुक्त इति गार्हपत्यः । प्रधानाहुति जुहोत्यस्मिन्नित्याहवनीयः । अथ
सभाया मध्येऽधिदेवनमुद्धृत्येत्यादिना द्यूतविजयः सूत्रेऽभिहितः । तां
द्यूतसभामर्हतीति सभ्यः । “तदन्नं संस्कृत्य सभासद्भ्य-उपहरन्त्यावसथे
भुञ्जते” इति .सूत्रेऽन्नहरणमुक्तम् । तद् गृहमावसथः ।
तमर्हतीत्यावसथ्यः । तेनोक्तप्रकारेण सर्वेऽप्यग्नयोऽस्य यजमानस्य
प्रीतिपूर्वकमभीष्टं संपादयन्त आहिता भवन्ति ।
५६ (१.१.१०) तैत्तिरीयब्राह्मणम्
पूर्वोक्तैरथर्व पितुमित्यादिमन्त्रैरुपस्थानं विधत्ते-
प्र॒वस॒न्मेष्य॒न्नेवमु॑पतिष्ठे॒तैक॑मे॒कम् । यथो॑ ब्राह्म॒णाय॑
गृ॒हेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत्, इति ।
आहिताग्निर्यदा देशान्तरं गमिष्यति तदा पूर्ववदुपतिष्ठेत ।
पूर्ववत्प्रजापतिर्विराजः क्रमेणाथर्व पितुमित्यादिमन्त्रैर्विराजं
परिगृहीतवानित्यर्थवाद उक्तः । तेनार्थवादेनाऽऽधानकालीनस्यो-
पस्थानस्य विधिरुन्नेयः । अत एव सूत्रकार आधानादूर्ध्वं पवमानेष्टिभ्यः
पूर्वमेतदुवाच-“अथ विराट् क्रमैर्यजमान उपतिष्ठते, अथर्वपितुं मे
गोपाय” इत्यादि । अत आधानाकालीनमुपस्थानं
दृष्टान्तीकर्तुमेवमित्युक्तम् । यथा लोके गृहस्वामी कश्चिदन्यं कंचिद्ब्राह्मणं
गृहरक्षार्थं वासयित्वा तस्मै ब्राह्मणाय गृहान्परिदाय त्वमेवमेवं रक्षेति
बुद्धिप्रदानं कृत्वा ग्रामान्तरं गच्छति तादृगेव तदुपस्थानं द्रष्टव्यम् ।
उपस्थानान्तरं विधत्ते-
पुन॑रा॒गत्योप॑तिष्ठते । साऽभा॒गेय॑मे॒वैषां॒ तत् । सा तर्त॑
ऊ॒र्ध्वाऽऽरो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै
रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॑
प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन (६), इति ।
एषा पशून्मे॑ गोपायेति॒ प्रवि॑ष्टा पशून्मे॑ गोपायेत्या॑हु जुहो॑ति तिष्ठ॑ते
सप्त च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
ग्रामान्तरादागत्य पुनरप्याहिताग्नीनथर्व पितुमित्यादिमन्त्रै-
रुपतिष्ठेत । ते च प्रत्येकमुपस्थानमन्त्राः संध्योपस्थानमन्त्रस्तु पञ्चधाऽ
ग्नीन्व्यक्रामदित्यादिः । स चैवमुत्तरप्रपाठके पठिष्यते-‘
‘पञ्चधाऽग्नीन्व्यक्रामत् । विराट् सृष्टा प्रजापतेः। ऊर्ध्वाऽऽरोहद्रोहिणी ।
योनिरग्नेः प्रतिष्ठितिः” इति । गेयमित्यादिना तदीयतात्पर्यमुच्यते । येयं
प्रजापतिसृष्टा विराट् सेयं तदानीमेषामग्नीनां भागरहिताऽभूत् । अन्वाहार्यं
पचन्त्याज्यमधिश्रयन्तीत्याद्युपयोगो यथाऽग्नीनामभिहितो न तथा विराजः
कश्चिदुपयोग उक्तः । तस्मादभागत्वम् । सा च भागरहिता ततो देशादूर्ध्वा
अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके।
तैत्तिरीयब्राह्मणम् (१.१.१०) ५७
भूत्वा दिवमारोहत् । आरुह्य च रोहिणीनक्षत्ररूपाऽभूत् । रोहनीति
व्युत्पत्या रोहिणी नाम संपन्नम् । एवं च सति रोहिण्यामग्न्याधानेन
स्वकारण एवाग्निः प्रतिष्ठित आहितोभवति । रोहिण्या विराड्-
रूपेणाग्निकारणत्वात् । तथा च सत्युपयुक्तत्वाद्विराट् सभागा संपद्यते।
आधाता च समृद्धिं प्राप्नोति। अत एव पूर्वत्र-यो रोहिण्यामग्निमाधत्ते ।
ऋध्नोत्येव' इति विहितम् । अत्र तु तद्विध्यनुवादेन विराण्मन्त्रः प्रशस्यते ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके दशमोऽनुवाकः॥ १० ॥
ब्रह्म॒ संध॑त्तं कृत्तिकासूद्ध॑न्ति द्वादशसु॑ प्र॒जाप॑तिर्वाचो॒ दैवा॑सुरा धर्मः
शिर॒ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑तिः स रिंरिचा॒नः स तपः स आ॒त्मन्वी॒र्यं॑
दश॑ ।।
ब्रह्म॒ संध॑त्तं तौ दि॒व्यावथौ॑ शन्त्वा॒य प्राच्यैषां॒ यदु॒पर्य॑परि॒ यत्स॒द्यः
सोऽश्वं॒ वारो॑ भू॒त्वा जग॑तीभिरशी॒तिः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके प्रथमोऽध्यायः ॥ १ ॥
अस्य प्रपाठकस्य विनियोगसंग्रहः-
अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके।
शुक्रामन्थिगता मन्त्रा आधाने कालनिर्णयः ॥ १ ॥
संभारविधिरोधानं तत्प्रकारस्तथेष्टयः ।।
आधानमन्त्रव्याख्यानं ब्रह्मोदनविधस्तथा ।
पञ्चाग्निपक्ष इत्येवमनुवाका उदीरिताः ।। २ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थंश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।।
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमः प्रपाठकः समाप्तः ॥ १ ॥
(मूलक्रमेण-अष्ट० १ अध्या. १ अनु. १०)
(भाष्यक्रमेण-का. १ प्रपा. १ अनु. १०) ।
५८ (१.२.१) तैत्तिरीयब्राह्मणम्
अथ द्वितीयप्रपाठकारम्भः ।
तत्र प्रथमोऽनुवाकः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। १ ।।
आद्ये प्रपाठके प्रोक्तो विधिराधानगोऽखिलः ।
गवामयनशेषोऽयं द्वितीयेऽस्मिन्नुदीर्यते ।। २ ।।
आद्यानुवाक आधाने ये मन्त्रा नोदिताः पुरा ।
ते सर्वेऽप्यभिधीयन्ते पूर्वशेषो भवेत्ततः ।। ३ ।।
उ॒द्धन्यमा॑नमस्या अमे॑ध्यम् । अप॑ पा॒प्मानं॑ यज॑मानस्य
हन्तु । शिवा न॑ः सन्तु प्र॒दिश॒श्चत॑स्रः । शं नौ॑ मा॒ता
पृ॑थि॒वी तो॒कसा॑ता ।
कल्पः-‘‘उद्धन्यमानमस्याः अमेध्यमप पाप्मानं यजमानस्य हन्तु
शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसाता, इति
प्राचीनप्रवणं देवयजनमुद्धत्य’’ इति । अस्याः पृथिव्याः संबन्धि यत्स्थानं
निष्ठीवनादिभिरुपहतत्वादमेध्यं यज्ञायोग्यं तदिदानीमुद्धन्यमानं
सद्यजमानस्य पाप्मानमपहन्तु । प्राच्यादिचतस्रः प्रकृष्ट दिशो
नोऽस्मान्प्रति शिवाः सुखप्रदाः सन्तु । तोकसाता तोकसातयेऽपत्यलाभाय
पृथिवी माता नोऽस्माकं शं सुखं करोतु ।
शं नौ॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये॑ । शं योर॒भिस्र॑वन्तु
नः॒ ।
कल्पः-‘‘शं नो देवीरभिष्टय आपो भवन्तु पीतये शं योरभिस्रवन्तु
नः, इत्यद्भिरवोक्ष्य’’ इति । आपो देवीरिमा जलदेवता
नोऽस्माकमभिष्टयेऽभीष्टप्राप्त्यर्थं पीतये पानाय शं भवन्तु सुखप्रदा भवन्तु ।
किंच नोऽस्माकं शं सुखं संपादयितुर्दुःखं पृथक्कर्तुं चाभिस्रवन्तु सर्वतः
प्रवर्तन्ताम् ।
वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्यां परि॑स्र॒सा । स्यो॒नमावि॑शन्तु
नः॒ (१) ।
तैत्तिरीयब्राह्मणम् (१.२.१) ५९
कल्पः-"सप्त पार्थिवा संभारानाहरत्येवं वानस्पत्यान्यञ्च पञ्च वा
भूयसो वा पार्थिवान्संभारानाहरेदिति वाजसनेयकम्। वैश्वानरस्य रूपं
पृथिव्यां परिस्रसा स्योनमाविशन्तु नः, इति सिकताः" इति। विश्वेषां
नराणां हितकारी वैश्वानरोऽग्निस्तस्याग्नेः स्वरूपं पृथिव्यां परिस्रसा
परितः पारयन्त्यः सिकताः स्योनं सुखं यथा भवति तथा नोऽस्माकं
देवयजनमाविशन्तु।
यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः। सं॒ज्ज्ञा॒ने रोद॑सी
संब॑भूवतुः। ऊषा॒न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः॑।
इ॒होभयो॑र्य॒ज्ञिय॒मार्ग॑मिष्ठाः।
कल्पः-"यदिदं दिवो यददः पृथिव्याः संजज्ञान रोदसी
संबभूवतूरूपाङ्कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठा इत्यूषान्"
इति। आहरतीत्येवं सर्वत्रानुवर्तते। दिवः संबन्धि यदिदमूषररूपं
पृथिव्यां स्थापितं पृथिव्याः संबन्धि यददः कृष्णरूपं चन्द्रमसि स्थापितं
तत्र यद्रूपद्वयं संजज्ञानेसम्यगवगच्छन्त्यौ रोदसी द्यावापृथिव्यौ संबभूवतुः
परस्परसंगते अभूताम्। तत्र यत्कृष्णरूपं द्यावापृथिवीरूपमस्ति
तदेतदूषान्दिवः स्वरूपभूतानवतु रक्षतु। ते चोषास्तत्कृष्णमवन्तु।
उभयोर्द्यावापृथिव्योः संबन्धि यज्ञियं यज्ञयोग्यमंशद्वयमिह देवयजन
आगमिष्ठा आगच्छतु।
ऊ॒तीः कृ॑ण्वा॒णो यत्पृ॑थि॒वीमच॑रः। गु॒हाका॑रमाखु॒रूपं॑
प्र॒तीत्य॑। तत्ते॑ न्य॒क्तमि॒ह संभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑
सवी॑राः।
कल्पः-“ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य
तत्तं न्यक्तांमेह संभरन्तः शतं जीवम शरदः सवीरा इत्याखुकरषिम्"
इति। हेऽग्नेत्वामाखुरूपं मूषरूपं स्वीकृत्य गुहाकारं पर्वतगुहाया आकारो
यथा भवति तथोतीर्बिलानि कुर्वाणः पृथिवीमचरो भूम्यां चरितवानसीति
यत्तत्तत्र न्यक्तं निगूढं ते त्वदीयं सारमिह देवयजने संभरन्तः संपादयन्तो
वयं सवीराः पुत्रभृत्यसहिताः शरदः शतं शतसंख्याकान्संवत्सराञ्जीवेम।
ऊर्जं॑ पृथि॒व्या र॒समाभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑ पु॒रूचीः॑
(२)। व॒म्रीभि॑रनु॒वित्तं॑ गुहा॑सु। श्रोतं॑ त उ॒र्व्यर्ब॑धिरा
भवामः।
६० (१.२.१) तैत्तिरीयब्राह्मणम्
कल्पः-“ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः
पुरूचीर्वम्रीभिरनुवितं गुहासु श्रोत्रं त उव्य॓बधिरा भवाम इति
वल्मीकवपाम्” इति । पृथिव्या रसः सारमूर्जं क्षीरादिवत्समानं
वल्मीकवपारूपं संभरन्तो वयं शतं शरदो जीवेम । कीदृशीः शरदः
पुरूचीः पुरूणि बहूनि भोग्यान्यञ्चन्ति संपादयन्तीति पुरूच्यस्तादृशीः ।
कीदृशं रसं गुहासु, भूच्छिद्रेषु वम्रीभिः पिपीलि-
कासदृशीभिरनुवित्तमनुक्रमेण लब्धम् । हे उर्वि तच्छ्रोत्रं
त्वदीयंश्रोत्रस्थानीयां वल्मीकवपामाहृत्य वयमबधिरा अनुपहतश्रोत्रेन्द्रिया
भूयास्म ।
प्र॒जाप॑तिसृष्टानां प्र॒जाना॑म् । क्षु॒धोप॑हत्यै सु॒वितं॑ नो अस्तु ।
उ॒प॒प्रभि॑न्न॒मिष॒मूर्जं॑ प्र॒जाभ्यः॑ । सूदं॑ गृ॒हेभ्यो॒ रस॒माभ॑रामि ।
कल्पः-“प्रजापतिसृष्टानां प्रजानां क्षुधोपहत्यै सुवितं नो अस्तु,
उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामि, इति सूदम्” इति ।
या प्रजापतिसृष्टाः प्रजास्तासां क्षुन्निवारणाय नोऽस्मत्सं-बन्धीदं कर्दमरूपं
सुवितं सुष्ठु प्राप्तमस्तु । येयमिडन्नं या चोर्ग्रसः, उभयं प्रजाभ्यः
प्रजार्थमुपप्रभिन्नमत्यन्तसामीप्यं यथा भवति तथैकीभूतं तादृशं सूदरसं
पङ्करूपं गृहेभ्यो वह्नीनामायतनार्थमाहरामीहाऽऽनयामि ।
यस्य॑ रू॒पं बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टा ँस॑रिर॒स्य
मध्ये॓ । तस्ये॒दं विह॑तमा॒भ॑रन्तः । अच्छं॑बट्का॒रम॒स्यां
वि॑न्धेम (३) ।
कल्पः-“यस्य रूपं बिभ्रदिमामविन्दुद्गुहा प्रविष्टा ँसरिरस्य मध्ये
तस्येदं विहतमाभरन्तोऽच्छंवटकारमस्यां विधेम, इति वराहविहतम् ”
इति । पुरा प्रजापतिर्यस्य वराहस्य रूपं बिभ्रद्धार्यमाण इमां
पृथिवीमविन्ददलभत। कीदृशीं सरिरस्य मध्ये
प्रलयकालीनजलस्यान्तर्गुहा गोप्यं स्थानं पातालरूपं प्रविष्टाम् ।
अयमर्थस्त्रिरात्रब्राह्मणे स्पष्टमाम्नातः-“आपो वा इदमग्ने सलिल-
मासीत्तस्मिन्प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहो भूत्वाऽहरत्”
इति । तस्य वराहस्य विहतं पोत्रोत्खातमिदं मृद्द्रव्यमाभरन्त आनयन्तो
वयमस्यां पृथिव्यामच्छंबट् कारं वैयर्थ्यं यथा न भवति तथा विधेम
कर्माण्यनुतिष्ठेम ।
यत्पु॑र्य॒पश्य॒त्सरि॒रस्य॒ मध्ये॓ । उ॒र्वीम॑पश्य॒ज्जग॑तः प्रति॒ष्ठाम् ।
तैत्तिरीयब्राह्मणम् (१.२.१) ६१
तत्पुष्कर॒स्याऽऽय॑त॒नाद्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न ँ
हरामि ।
कल्पः-“यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम्
तत्पुष्करस्याऽऽयतनाद्धि जातं पर्णं पृथिव्याः प्रथन ँहरामीति पर्णम् ”
(इति) । जगतः स्थावरजङ्गमरूपस्य प्रतिष्ठामाधारभूतामुर्वी लब्धकामः
प्रजापतिः सरिरस्य मध्ये प्रलयकालीनजलस्यान्तर्यत्पुष्करपर्णमपश्यत् ।
तथा च पूर्वमाम्नातम्-“सोऽपश्यत्पुष्करपर्णं तिष्ठत् ” इति । तत्पुष्करस्य
पर्णं हरामि । देवयजनभूमौ नयामि । कीदृशम् । आयतनाद्धि जलमध्ये
निमग्नादाधारादुत्पन्नम् । हि शब्दो ब्राह्मणप्रसिद्धिं सूचयति । तञ्च ब्राह्मणं
पूर्वमेवोक्तम्-“सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधितिष्ठति ” इति
तादृशाधारादिदमुत्पन्नम् । तथा पृथिव्याः प्रथमभूमेर्विस्तारस्थानम् ।
एतदपि पूर्वत्राऽऽम्नातम्-“तत्पुष्करपर्णे प्रथयत्” इति ।
याभि॒र्दृ॑ ँह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॒श्वज॑नस्य
भ॒र्त्रीम् । ता न॑ः शि॒वाः शर्क॑राः सन्तु॒ सर्वा॑ः ।
कल्पः-“याभिर्दृ ँहज्जगतः प्रतिष्ठामूर्वीमिमां विश्वजनस्य भर्त्रीम्,
ता नः शिवाः शर्कराः सन्तु सर्वा (इति शर्कराः)” इति । जगतः स्थावरादेः
प्रतिष्ठामाश्रयभूतां विश्वजनस्य भर्त्रीं सस्यादिद्वारा सर्वजनस्य
पोषयित्रीमिमामुर्वी याभिः शर्कराभिर्दृ ँ हद्दृढीकृतवान्प्रजापतिः ।
एतदपि पूर्वमुक्तम्- “ता ँ शर्कराभिर्दृ ँ हत्” इति । तास्तादृश्यः
शर्कराः क्षुद्रपाषाणोऽस्मदर्थं सुखप्रदाः सन्तु ।
अ॒ग्नेरेत॑श्च॒न्द्र ँहिर॑ण्यम् । अ॒द्भ्यः संभू॑त॒ममृतं॑ प्र॒जासु॑ ।
तत्संभर॑न्नुत्त॒रतो॑ नि॒धाय॑ (४)। अ॒ति॒प्रय॑च्छन्दुरि॒तं त॑रेयम् ।
कल्पः-“अग्नेरेतश्चन्द्र ँ हिरण्यमद्द्भ्यः संभूतममृतं प्रजासु
तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितं तरेयमिति हिरण्यम्' इति ।
तद्धिरण्यं तत्संभरन्संपादयन्नग्नेर्बीभत्सानिवारणायोत्तरपार्श्वे तद्धिरण्यं
निधाय द्वेष्याय रजतमतिप्रयच्छन्नहं दुरितं दुर्गतिं तरेयम् ।
अश्वो॑ रूपं कृ॒त्वा यदश्व॑त्थेऽति॑ष्ठः । सं॒व॒त्स॒रं दे॒वेभ्यो॑
नि॒लाय॑ । तत्ते॒ न्य॑क्त॒मिह संभर॑न्तः । श॒तं जी॑वेम श॒रदः॑
सवी॑राः ।