तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.१.४) २३
लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः ।
अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि
चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं
भवति ।
अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं
निराचष्टे-
इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा
अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒
आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् ।
साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा
परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒
श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ ।
इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च
मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः-
“मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी
यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां
श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं
पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय
दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा
चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति ।
एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती
तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या-
ऽऽहिताग्नेरप्यन्तं पराभवो भवति ।
अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-.
साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् ।
तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् ।
अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् ।
भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त
इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो
२४ (१.१.४) तैत्तिरीयब्राह्मणम्
भू॒त्वा सु॑व॒र्गं लो॒कमै॑ति । प्र॒जां तु न वि॑न्दते , इति ।
पूर्ववद्व्याख्येयम् । अत्र गार्हपत्यादूर्ध्वं प्राङ्मुखप्रवृत्तेर्देवानां श्रीरपि
प्राची प्रवृत्ता । प्रकृष्टं पूर्वदिगवस्थितं स्वर्गमञ्चति गच्छतीति प्राची ।
तस्माद्देवानां स्वर्गप्राप्तिर्भविष्यति, किंतु प्रजाहेतोर्गार्हपत्यस्य
पूर्वमाधानाभावात्प्रजां न लप्स्यन्ते । एवं तादृगाधानकर्तरि यजमानेऽपि
द्रष्टव्यम् ।
अथ गार्हपत्यस्य प्राथम्यं विधत्ते-
साऽब्र॑वीदि॒डा मनु॑म् । तथा॒ वा अ॒हं त्वा॒ग्निमधा॑स्यामि ।
यथा॒ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ (६) । प्रत्य॒स्मिँल्लो॒के
स्था॒स्यासि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॑ष्यसीति॑ । गार्ह॑पत्य॒मग्र॑
आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते ।
गार्ह॑पत्येनै॒वास्मै॑ प्र॒जां प॒शून्प्रार्ज॑नयत् ।
अथा॑न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः ।
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑ऽऽहव॒नीय॑म् ।
तेनै॒व सु॑व॒र्गं लो॒कम॒भ्यज॑यत् (७) । यस्यै॒वम॒ग्निरा॑धी॒यतै॑ ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जायते । प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति ।
अ॒भि सु॑व॒र्गं लो॒कं ज॑यति, इति ।
गार्हपत्यस्य प्रजापशुस्वामित्वात्तस्य प्रथमाधानेन तत्प्राप्तिः।
गार्हपत्यस्य दक्षिणभागे स्थितो योऽ यमन्वाहार्यपचनस्तस्य तिर्यक्त्वेन
वर्तमानस्योर्ध्वगमनाभावेन मनुष्यलोकसदृशत्वात्तदाधानेन मनुष्यलोके
प्रतिष्ठा। तत ऊर्ध्वमाहवनीयाधानाय प्राङ्मुखप्रवृत्तेः स्वर्गस्य च
प्राग्वर्तित्वात्तत्प्राप्तिः ।
अथाधिकारिभेदेनाऽऽधानमन्त्रविशेषान्विधत्ते-
यस्य॑ वा अय॑थादेवत॒मग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो
वृ॒श्च्यते॑ । पापी॑यान्भवति । यस्य॑ यथादे॒वत॑म् । न
दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । भृगू॒णां
त्वाऽङ्गिर॑सां व्रतपते व्र॒तेनाऽऽद॑धामीति॑
तैत्तिरीयब्राह्मणम् (१.१.४) २५
भृ॒ग्वङ्गि॑रसा॒माद॑ध्यात् । आ॒दि॒त्यानां॑ त्वा दे॒वानां॑ व्रतपते
व्र॒तेनाऽऽद॑धामी॒ त्यन्यासां॑ ब्राह्म॑णीनां॑ प्र॒जाना॑म् । वरु॑णस्य
त्वा॒ राज्ञो॑ व्र॒तप॑ते व्र॒तेनाऽऽद॑धामी॒ति राज्ञः॑ । इन्द्र॑स्य
त्वे॒न्द्रिये॑ण व्रतपते व्र॒तेनाऽऽद॑धामीति॑ रा॒जन्य॑स्य ।
मनौ॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ति वैश्य॑स्य ।
ऋ॒भूणां॑ त्वा॑ दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामीति॑
र॒थ॒का॒रस्य॑ । य॒थादे॒व॒तम॒ग्निनाधी॑यते । न दे॒वता॑भ्य॒
आवृ॑श्च्यते । वसी॑यान्भवति (८), इति ।
ध्यायति रात्रिञ्चावरुन्द्धे भविष्यन्तीत्य॑ब्र॒वाञ्ज॒निष्य॒सें-
ऽज्जय॒द्वसी॑यान्भवति नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
यस्य पुरुषस्य याऽभिमानिनी देवता तामनतिक्रम्याऽऽधानं तस्य
पुरुषस्य यथादैवतमित्युच्यते । तदतिक्रमे सति देवताद्रोहो दारिद्र्यं च
भवति । अनतिक्रमे तु देवताप्रसादो धनसंपत्तिश्च भवति । ये मनुष्या
भृगुगोत्रोत्पन्ना ये चाङ्गिरोगोत्रोत्पन्नास्तेषामुभयेषां तत्प्रतिपादकं भृगू
णामिति मन्त्रेणाऽऽधानम् । हे व्रतपते कर्मस्वामिन्नग्ने (ग्न)
भृगूणामङ्गिरसां च संबन्धिना व्रतेन कर्मविशेषेण निमित्तभूतेन
त्वामाधामीहाऽऽयतने स्थापयामीति मन्त्रार्थः । एवमुत्तरत्रापि योज्यम् ।
गोत्रान्तरगतानां ब्राह्मणानामादित्या एव देवताः । अभिषिक्तस्य राज्ञो
वरुणो देवता । इतरस्य क्षत्रियस्येन्द्रो देवता । इन्द्रियेण
व्रतेनेन्द्रियाभिवृद्धिहेतुना कर्मणेत्यर्थः । वैश्यस्य ग्रामनिर्वाहको
मनुर्देवता । रथकारोऽनुलोमजः संकीर्णजातिः । तस्य ऋभवो देवता ।
एतैर्मन्त्रैर्यथादेवतमाधानं संपद्यते ।
अत्र मीमांसा । षष्ठाध्यायस्य प्रथमपादे चिन्तितम् -
विप्रादिरेव रथकृदन्यो वाऽऽद्योऽस्तु योगतः ।
रूढवर्णान्तरं तस्याऽऽधाने वर्षर्तुरुच्यते ॥ (इति) ।
आधाने श्रूयते- “वर्षासु रथकार आदधीत” इति । तत्र रथं करोतीति
व्युत्पत्या त्रैवर्णिको रथकार इति चेत् । मैवम् । संकीर्णजातिविशेषे
रूढत्वात् । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना
२६ (१.१.५) तैत्तिरीयब्राह्मणं
करिणी तस्यां करिण्यां माहिष्यादुत्पन्नो रथकारः । तथा च याज्ञवल्क्यः-
माहिष्येण करिण्यां तु रथकारः प्रजायते । इति ।
तस्य च रथकारस्याऽऽधानकालो वर्षर्तुः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
अथ पञ्चमोऽनुवाकः
चतुर्थे त्रयाणामाहवनीयादीनामाधानमुक्तम् । पञ्चमे तत्रैव
कंचिद्विशेषं पवमानहवींषि चाभिदधाति । तत्राऽऽदौ
व्याहृतिमन्त्रान्विधत्ते-
प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत् । तेना॒ग्निमार्ध॑त् । तेन॒ वै स
आर्ध्नो॑त् । भूर्भुव॒: सुव॒रित्या॑ह । ए॒तद्वै वा॒चः स॒त्यम् ।
य ए॒तेना॒ग्निमा॒धत्ते॑ । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व
भ॑वति । अथो॒ य ए॒वं वि॒द्वान॒भिचर॑ति । स्तृ॒णुत ए॒वैन॑म्
(१), इति ।
वाचः संबन्धि यत्सत्यमवश्यंभाविफलसाधनं मन्त्ररूपं
तच्छास्त्रमुखेन (ण) दृष्ट्वा प्रजापतिस्तेनाग्निमाधाय समृद्धोऽभूत् । किं
तत्सत्यमिति पृच्छद्द्यः शिष्येभ्यो भूर्भुवः सुवरिति मन्त्रस्वरूपं प्राह ।
एतस्य वाक्संबन्धिसत्यत्वादेतेनाग्निमादधानः समृद्धो भवति । अपि
चासौ सत्याप्राशूर्भवत्येव । प्रकर्षेणाश्यते व्याप्यतेऽभिमतमनेनेति प्राशूः
पराक्रमः। सत्यः कदाचिदप्यविसंवादी प्राशूः । अपि चैवं
व्याहृतिमहिमानं विद्वान् शत्रुं मारयितुमभिचरन्नेनं हिनस्त्येव ।
सामर्थ्यप्रदर्शनेन व्याहृतित्रयं प्रशंसति--
भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानः सृजते । भुव॒ इत्या॑ह ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व
लो॒के प्रति॑तिष्ठति, इति ।
योऽयं भूरिति मन्त्रमुच्चारयत्यसौ तन्मन्त्रसामर्थ्येन प्रजाः
पुत्रपौत्रादिका उत्पादयति । एवमुत्तरयोरपि योज्यम् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २७
सामान्येन विहितं व्याहृतित्रयं पुनर्विशेषाकारेण विधत्ते -
त्रि॒भि॒र॒क्षरै॒र्गा॑ह॑'पत्य॒माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॒वैनं॑
लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वैः॑ प॒ञ्चभि॑राहव॒नीय॑म् (२) ।
सु॒वर्गा॑य॒ वा ए॒ष लो॒काया॒ऽधीय॑ते । यदा॑हव॒नीयः॑ सु॒वर्ग॑
ए॒वास्मै॑ लो॒के, वाचः॑ स॒त्य ँस॑र्ठमा॒प्नोति॑, इति ।
भूर्भुव इत्येतानि त्रीण्यक्षराणि तैराधीयमानस्त्रित्वसाम्याल्लोकत्रये
प्रतिष्ठितोऽग्निराहितो भवति । भूर्भुवः सुवरिति पञ्चाक्षराणि
तैराधीयमानस्याऽऽहवनीयस्य स्वर्गाश्रयत्वात्स्वर्गे वाक्संबन्धि कृत्स्नं
सत्यमस्मै प्राप्नोति ।
अथ त्रयं पञ्चकं च मिलित्वा प्रशंसति-
त्रि॒भिर्गा॑र्हपत्य॒माद॑धाति । प॒ञ्चभि॑राहव॒नीय॑म् । अ॒ष्टौ
संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ ।
यावा॑ने॒वाग्निः॑ । तमाध॑त्ते (३), इति ।
अग्नेर्मुखजत्वेन गायत्रीसंबन्धित्वम् ।
यदुक्तं सूत्रकारेण-“गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति ।
सिकताश्चोपयमनीरुपकल्पयंते तमुद्यच्छति” इति । तदेतद्विधत्ते-
प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन् ।
ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा
अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद॑गृ॒हीया॒दुद्धर॑न् ।
ज्योति॑रेव॒ पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते, इति ।
प्रजापतिना सृष्टाः प्रजाः पराच्यः पुनरावृत्तिरहिता यदा गतास्तदा
प्रजापतिस्ताभ्यो ज्योतिरुदगृह्णात् । अन्धकारे पलायमानानां प्रजानां
दर्शनार्थं कंचिद्दीपमूर्ध्वं धृतवान् । ताश्च प्रजा ज्योतिर्दृष्ट्वा तं
प्रजापतिमभिलक्ष्य समावृत्ताः । अतो गार्हपत्यादाहवनीयं
प्रत्यग्निमुद्धरन्नूर्ध्वमेव गृह्णीयान्नतत्त्वधो धारयेत् । तेन सर्वाः प्रजा ज्योतिः
पश्यन्त्यो यजमानं प्रत्यावर्तन्ते ।
यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति” इति ।
तदेतद्विधत्ते-
२८ (१.१.५) तैत्तिरीयब्राह्मणम्
प्र॒जाप॑तेर॒क्ष्य॑श्वयत् । तत्परा॑पतत् । तदश्वो॑ऽभवत् ।
तदश्व॑स्याश्व॒त्वम् (४) । ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः ।
प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पुर॒स्तान्नय॑ति । स्वमे॒व चक्षु॑-
र्पश्य॑न्प्र॒जाप॑तिर॒नूदै॑ति, इति ।
पुरा कदाचित्प्रजापतेरक्षिगोलकं केनापि व्याधिनोच्छूनं भूत्वा भूमौ
पतितं सदश्वरूपेणोद्भूत् । अश्वयदश्वमिति व्युत्पत्या तस्याश्वनाम
संपन्नम् । अग्निश्च प्रजापतिसृष्टत्वात्प्रजापतिरेव । अश्वश्चोक्तरीत्या
प्राजापत्यः । तस्मादाहवनीयं प्रति गच्छन्नश्व पुरस्तान्नयेत् । तथा सति
स्वकीयमेव चक्षुः पश्यन्प्रजापतिरूपोऽग्निरनुगच्छति ।
एतदेवाश्वस्य पुरोगमनं पुनः प्रशंसति-
व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्तान्नय॑ति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते, इति ।
वज्रिवद्युद्धेशत्रुविनाशहेतुत्वादश्वो वज्री । स च पुरस्तान्नीयमानो
यजमानस्य पूर्वमुत्पन्नान्भ्रातृव्यान्विनाशयति । वज्रसमानदन्तो-
पेतत्वाद्वाऽस्य वज्रित्वम् । एतदेवाभिप्रेत्याग्निब्राह्मणे समाम्नातम्-“वज्री
वा एष यदश्वो दद्भिरन्यतो दद्ध्यो भूयान्” इति ।
आहवनीयपर्यन्तं नीतस्याश्वस्य तेनैव पथा पुनरावृत्तिं विधत्ते-
पु॒न॒रा॒वर्त॑यति (५) । ज॒नि॒ष्यमा॑णानेव प्रति॑नुदते, इति ।
आहवनीयात्पुनरावृत्या भविष्यतः शत्रून्प्रतिबध्नाति ।
यदुक्तं सूत्रकारेण-“पूर्ववाडश्वो भवति ” इति । तदिदं विधत्ते-
न्या॑ह॒वनी॑यो॒ गार्ह॑पत्यमकामयत । नि गार्ह॑पत्य
आह॑व॒नीय॑म् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑: पूर्व॒वाड्
भू॒त्वा । प्राञ्चं॑ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑: पूर्व॒वाट् त्वम् ।
यदश्वं॑ पुर॒स्तान्नय॑ति । वि॒भक्ति॑रे॒वैन॑योः॒ सा । अथो॒
नाना॑वीर्या॒वे॒वैनौ॑ कुरुते (६), इति ।
पुरा कदाचिदाहवनीयो गार्हपत्य नितरामकामयत । गार्हपत्यधर्मं
धृतवानित्यर्थः । गार्हपत्यश्च नितरामाहवनीयधर्मं धृतवान् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २९
ततस्तावूभावग्नी संकीर्णधर्मतया प्रजापतिर्विभाजं विभक्तुं नाशक्नोत् ।
ततस्तद्विभागाय स्वयं पूर्ववाडश्वो भूत्वा धर्मसांकर्यं परिहृत्य प्राञ्चं
प्राग्देशनिवासयोग्यमाहवनीयं पूर्वमुद्वहत् । पूर्वदेशं प्रत्युद्धृत्य
नीतवान् । पूर्ववाडित्यश्वविशेषः । सेनामध्य इतरेभ्योऽश्वेभ्यः । पूर्वं
वहतीति वा पूर्वस्मिन्वयस्यत्यन्तबाल्य एव वहतीति वा पूर्ववाट् ।
अतस्तादृशमश्वमत्र पुरस्तान्नयेत् । तस्य च विभागक्षमत्वादेनयोरग्न्योः
सैव विभक्तिर्विभागः संपद्यते । पूर्वदेशेऽवस्थित आहवनीयः
पश्चिमदेशेऽवस्थितो गार्हपत्य इति विभागः । अपि च य
धर्मसांकर्यपरिहारादेनावूभावग्नी भिन्नवीर्यावेव करोति ।
पत्नीसंयाजहोमाधारत्वलक्षणं वीर्यं गार्हपत्यस्यैव । आग्नेयादि-
हविराधारत्वलक्षणमाहवनीयस्यैव ।
यदुक्तं सूत्रकारेण-“न कर्णदघ्नमत्युद्गृह्णाति” इति । तदिदं विधत्ते-
यदु॑र्पर्युप॒रि शिरो॒ हरे॑त् । प्रा॒णान्वि॑च्छिन्द्यात् अधो॒ऽधः
शिरो॑ हरति । प्रा॒णानां॑ गोपी॑थाय, इति ।
हस्तेनोद्धृत्याऽऽहवनीयं प्रति नीयमानमग्निं शिर उपर्युपरि
शिरःसमीपवर्तिन्यूर्ध्वभागे धृत्वा यदि हरेत्तदा प्राणा विच्छिद्येरन् । अतः
प्राणरक्षणाय शिरसः समीपवर्तिन्यधः प्रदेशे धृत्वा नयेत् ।
यदुक्तं सूत्रकारेण-“जानुदघ्न धारयमाणस्तृतीयमध्वनोऽग्नि ँ
हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम्” इति ।
तदेतदङ्गुल्याऽभिनयन्विधत्ते-
इ॒यत्यग्रे॑ हरति । अथे॒यत्यथेय॑ति । त्रय इ॒मे लो॒काः ।
ए॒ष्वेवैनं॑ लो॒केषु॒ प्रति॑ष्ठितमाधत्ते, इति ।
इयति जानुदघ्ने । एवं नाभिदघ्नास्यदघ्नयोरपि ।
एतस्मादग्निप्रणयनात्पूर्वमग्नेर्विभागं विधत्ते-
प्र॒जाप॑तिर॒ग्निम॑सृजत । 'सोऽबि॑भेत्प्र मां ध॑क्ष्य॒तीति॑ (७) ।
तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्यै॒ अप्र॑दाहाय ।
यत्रे॒धाऽग्निराधी॒यते॑ । म॒हि॒मान॑मेवास्य॒ तद्व्यू॑हति ।
शान्त्यै॒ अप्र॑दाहाय, इति ।
३० (१.१.५) तैत्तिरीयब्राह्मणम्
अग्निं सृष्ट्वा तदीयदाहाद्बिभ्यत्प्रजापतिस्तदीयसामर्थ्यं त्रेधा व्यभजत् ।
सोऽयं विभागो ज्वालायाः शान्त्यै स्वविषये दाहाभावाय च संपन्नः ।
एवमत्राऽऽधित्सुरपि गार्हपत्यादग्नेरेकं भागमाहवनीयार्थमपरं भागं
दक्षिणाग्न्यर्थं च विभज्य शान्त्यर्थमपदाहार्यं च त्रेधा कुर्यात् ।
तत्राऽऽहवनीयार्थस्याग्नेराहवनीयायतनं प्रति नयनं विधत्ते-
पुन॒राव॑र्तयति । म॒हिमान॑मे॒वास्य॒ संद॑धाति, इति ।
विभागेन योऽग्नेर्महिमा शान्तस्तं महिमानं पुनः संधातुं
विभक्तमग्निमाहवनीयायतने स्थापयेत् ।
तत्र स्थापने कंचिद्विशेषं विधत्ते-
प॒शुर्वा ए॒षः। यदश्व॑ः । ए॒ष रु॒द्रः (८) । यद॒ग्निः ।
यदश्व॑स्य प॒दैऽग्निमा॒दध्या॑त् रु॒द्राय॑ प॒शूनपि॑दध्यात् ।
अ॒प॒शुर्यज॑मानः स्यात् । यन्नाऽऽक्र॒मये॑त् । अन॑वरुद्धा अस्य
प॒शव॑: स्युः । पा॒र्श्वत॒ आक्र॑मयेत् ।
यथाऽऽहि॑तस्या॒ग्नेर॒ङ्गारा॑ अ॒भ्यव॒वर्तेर॑न् । अवरु॑द्धा अस्य
प॒शवो॑ भवन्ति । न रु॒द्रायापि॑दधाति (९), इति ।
अत्रेदं चिन्त्यते । पुरस्तादानीतमश्वं किमाहवनीयायतनमाक्रमयेन्न
वेति । उभयमप्येतदनुपपन्नम् । अश्वस्य पशुत्वात् । अग्नेः
क्रूरदेवतावत्वाच्च । अश्वपदलाञ्छिते प्रदेशेऽग्निस्थापने सति क्रूरदेवाय
पशून्समर्पयेत् । ततो यजमानः पशुरहितः स्यात् । अनाक्रमणे तु
यजमानस्य पशवो न संभवेयुः । अत उभयदोषपरिहारार्थमायतनस्य
कस्मिंश्चित्पार्श्वे तमश्वमाक्रमयेत् । स्वायतने स्थापितस्य
प्रज्वाल्यमानस्याग्नेरङ्गारा येन प्रकारेण तदश्वपदमभिलक्ष्य स्वत एव
प्रवृत्ता भवन्ति तथा समीपवर्तिप्रदेशमाक्रमयेत् । एवं
सत्यङ्गाराणामश्वपदे प्रविष्टत्वात्पशवोऽपि लभ्यन्ते । स्वयं
बुद्धिपूर्वकमश्वपदेऽग्नेरप्रतिष्ठापनादुग्रदेवाय पशवोऽपि न समर्पिता
भवन्ति ।
इत्थमाधानगतो विशेषो निरूपितः । अथ पवमानहवींषि विधत्ते-
त्रीणि॑ ह॒वी * षि॒ निर्व॑पति । वि॒राज॑ ए॒व वि॒क्रांतं॒
यज॑मा॒नोऽनु॒विक्र॑मते, इति ।
तैत्तिरीयब्राह्मणम् (१.१.५) ३१
विशेषेण राजत इति विराडग्निरस्तस्य विक्रान्तं सामर्थ्यमनु
यजमानोऽपि विक्रमते समर्थो भवति ।
सामान्येन विहितानां हविषां देवताविशेषान्विधत्ते-
अ॒ग्नये॑ प॒वमा॑नाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये ।
यद॒ग्नये॑ प॒वमा॑नाय॒ निर्व॑पति । पु॒नात्ये॒वैन॑म् । यद॒ग्नये॑
पाव॒काय॑ । पू॒त ए॒वास्मि॒न्नन्नाद्यं॑ दधाति । यद॒ग्नये॑
शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति (१०), इति ।
ए॒न॒मा॒ह॒व॒नी॒यं ध॑त्ते॒ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒
शुच॑य॒ एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
पवमानः स्वयं शुद्धः । पावकोऽन्यस्य शोधकः । शुचिर्दीप्यमानः ।
तत्र प्रथमं यजमानशुद्धिः। द्वितीयेनान्नप्राप्तिः । तृतीयेन
फलद्वयस्योपरिष्टाद्ब्रह्मवर्चसप्राप्तिः । अत्र मीमांसा । तृतीयाध्यायस्य
षष्ठपादे चिन्तितम्-
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्ट्यः ।
वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥
चोदकः पवमानेष्टौ न ता प्रापयितु प्रभुः ।
अनङ्गत्वेष्यसिद्धिभ्यामिष्ट्यस्तदसंस्कृते ॥ (इति ) ॥
पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते ।
संस्कृतेष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते । तथा सति विमताः
पवमानेष्ट्यस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्या इष्टत्वादितरेष्टिवत् ।
चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ
प्रकृत्यनुष्ठानादिति प्राप्ते ब्रूमः । यद्यपि पवमानेष्टेर्विकृतिस्तथाऽपि
चोदको न तस्यां पवमानेष्टौ तां पवमानेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ
प्रयाजादिवत्पवमानेष्टेरङ्गत्वभावात् । किंचेतरस्याः पवमानेष्टेः
संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारं तत्रापि
तथेत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ
पवमानेष्टयः कर्तव्याः। दशमाध्यायस्य द्वितीयपादे चिन्तितम्-
३२ (१.१.६) तैत्तिरीयब्राह्मणम्
लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा ।
लुप्यते साधनः भावात्तेन मुख्यो न लुप्यते ॥ (इति) ।
आधानप्रकरणाग्नाताया पवमानेष्टौ निर्वापसाधनं नास्ति ।
अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनं सा चाऽऽधानकाले न
संभवति । अग्निहोत्रस्याऽऽधानोत्तरकालीनत्वेन तद्धोमसाधनभूता-
यास्तस्या अपि तथात्वादिति प्राप्ते ब्रूमः। मुख्यो निर्वापस्तं प्रति
गुणभूताऽग्निहोत्रहवणी । न हि गुणलोपेन मुख्यो लोप्तुमर्हति ।
किञ्चाऽधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं
दूरापेतम् । ततः साधनाभावादित्यनुपन्यासः । तस्मान्निर्वापो न लुप्यते ।
पञ्चमाध्यायस्य तृतीयपादे- चिन्तितम्-
आहिते पवमानेष्टिसंस्कृते वाऽग्निहोत्रकम् ।
आधानेनाग्निनिष्पातेस्तन्मात्रे कर्म संभवेत् ॥
आधानस्यानपेक्षस्य नाप्युत्पादकता मता ।
समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते ॥ (इति)।
अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते । द्वादशसु
रात्रीष्वनुनिर्वपेदितीष्टिकालविधानात् । ताभ्यः पुरा द्वादशसु
दिनेष्वग्निहोत्रमनुष्ठेयम् । आधानमात्रेणाऽऽहवनीयाद्यग्नेर्निष्पन्नत्वादिति
प्राप्ते ब्रूमः । आधानेन पवमानेष्टिनिरपेक्षेण नाऽऽहवनीयाद्यग्निरुत्पद्यते ।
अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् । न च .विकल्पः । आधानमुपजीव्य
तस्मादुत्तरकाले विधानात् । तत इष्टिभिः समुच्चित्यैवा ·
ऽऽधानमग्न्युत्पादकमितीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
पञ्चमे पवमानहवींषि संक्षिप्योक्तानि । अथ षष्ठे तद्विस्तारो
हविरन्तराणि दक्षिणाश्चोच्यन्ते। तत्र प्रथमं तावत्पवमानहविषां
देवताविशेषस्य पूर्वमुक्तत्वानदनुवादेन हविर्विशेषं विधत्ते-
दे॒वा॑सु॒रा संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमुप॑यन्तः॒ अ॒ग्नौ
वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो
तैत्तिरीयब्राह्मणम् (१.१.६) ३३
जे॒ष्यन्तीति॑ । तद॒ग्निनो॑त्स॒हम॑शक्नोत् । तत्त्रे॒धा
वि॒न्य॑दधात् । प॒शुषु तृतीय॑म् । अ॒प्सु तृतीय॑म् । आ॒दि॒त्ये
तृतीय॑म् । (१) । तद्दे॒वा वि॒जित्य॑ । पुन॑रवा॑रुत्सन्त । ते॑ऽ
ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । प॒शवो॒
वा अ॒ग्निः पव॑मानः। यदे॒व प॒शुष्वासी॑त् । ततेनावा॑रुन्धत ।
ते॑ऽग्नये॒ पाव॒काय॑ । आपो॒ वा अ॒ग्निः पा॑व॒कः ।
यदे॒वाप्स्वा॑सी॑त् । ततेनावा॑रुन्धत (२) । ते॑ऽग्नये॒ शुच॑ये ।
अ॒सौ वा आ॑दि॒त्योऽग्निः शुचिः॑ । यदे॒वाऽऽदि॒त्य
आसी॑त् । ततेनावा॑रुन्धत, इति ।
यदा देवासुराः परस्परं युद्धोद्युक्तास्तदानीं विजयमपेक्षमाणा देवाः
स्वकीयं वामं वमनीयं वसु धनमग्नौ सम्यक्स्थापितवन्तः ।
तेषामयमभिप्रायः । यद्यस्मानसुरा जेष्यन्ति तदानीमा-
पत्कालेऽस्माकमिदमेव धनं जीवनाय भविष्यतीति ।
अग्निस्तद्भाराधिक्येन तद्धनमुद्धृत्य सोढुं नाशक्नोत् । तत्त्रेधा विभज्य
पश्वादिषु स्थापितवान् । तदानीं देवाश्चासुरान्विजित्य पुनः स्वकीयं धनं
प्राप्तुमैच्छन् । तदा पश्वाद्यभिमानिदेवतासु स्थापितं धनं
बलादवरोद्धुमशक्ताः सन्तस्तदुत्कोचार्थं पवमानगुणकायाग्नये पुरोडाशं
निरवपन् । पशवश्च पवमानाग्न्यधीनत्वात्तत्स्वरूपाः । तेन च हविषा
पवमानमग्निं तर्पयित्वा पशुष्ववस्थितं धनं स्वीकृतवन्तः । एवं ते देवाः
पावकगुणकायाग्नये पुरोडाशं निरवपन्नित्यमनुवर्तते । अपां
पावकाग्न्यधीनत्वात्तन्मुखेनाप्सु स्थितं धनं प्राप्नुवन् । तथा
शुचिगुणकायाग्नये पुरोडाशं तस्याग्नेरादित्यरूपत्वादादित्ये स्थापितं
धनमवाप्नुवन् । तस्मादेताभ्यो देवताभ्यः प्रत्येकमष्टाकपालं पुरोडाशं
निर्वपेदिति द्रव्यविधिरुन्नेयः ।
अथैतेषां हविषामाग्नेयेन हविरन्तरेण सह निर्वापं विधत्ते-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावै॒ता अ॑ग्न्य॒ाधेय॑स्य ।
आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्य॒ाधेय॒मिति॑ । यत्तं निर्व॑पेत् ।
नैतानि॑ । यथाऽऽत्मा स्यात् (३) । नाङ्गा॑नि । ता॒दृगे॒व
३४ (१.१.६) तैत्तिरीयब्राह्मणम्
तत् । यदे॒तानि॒ निर्वपे॑त् । न तम् । यथा॑ऽङ्गानि॒ स्युः ।
नाऽऽत्मा । ता॒दृगे॒व तत् , उ॒भया॑नि॒ सह॒ निरू॑प्याणि ।
य॒ज्ञस्य॒ सात्म॒त्वाय॑, इति ।
याः पूर्वोक्ताः पवमानाग्न्यादिदेवतास्तिस्रस्ता अग्न्याधेयरूपस्य
देवविशेषस्य शरीराणि। यस्तु ताभ्योऽतिरिक्तोऽष्टाकपाल आग्नेयः
सोऽग्न्याधेयस्य स्वरूपभूतः पूर्वोक्तशरीरत्रयस्वामी । एवं सत्याग्नेयं
निरूप्य पवमानहविषामनिर्वापेऽवयवरहितः केवल आत्मैव स्यात् । अथ
तानि हवींषि निरूप्याऽऽग्नेयस्य निर्वापो न क्रियेत् तदानीमात्मरहिताः
केवला अवयवा एव स्युः । तस्मादाग्नेयेन सह पूर्वाणि त्रीणि हवींषि
निरूप्याणि । तथा सति यज्ञस्य सावयवत्वं सात्मत्वं च संपद्यते ।
अथानुनिर्वाप्यहविर्द्वयं विधत्ते-
उ॒भयं॒ वा ए॒तस्ये॑न्द्रि॒यं वी॒र्य॑माप्यते (४) । यो॑ऽग्निमाध॒त्ते ।
ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॑मयात॒यामा॑नौ । ये ए॒व दे॒वते॑
अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑रुन्द्धे ।
आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व
प्रति॑तिष्ठति, इति ।
अग्निमादधानस्येन्द्रियवीर्यस्य प्राप्त्या भवितव्यम् ।
अतस्तत्सिद्ध्यर्थमिन्द्राग्निदेवताकं पुरोडाशमनिर्वपेत् । देवानां मध्य
इन्द्राग्न्योरगतसारत्वात्तत्प्रसादेनेन्द्रियवीर्यप्राप्तिर्भवति । अगतसारत्वं
चानयोर्जेतृत्वlinkत्वात्तदवगन्तव्यम् । जयश्च राजसूयप्रकरणे पठ्यते - “देवा वा
ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम्” इति । आदित्यचरुनिर्वापेन
भूम्यां प्रतितिष्ठति । भूमेरखण्डनीयत्वेनादितित्वात् ।
अस्य चरोः सहकारि द्रव्यं घृतं विधत्ते-
धे॒न्वै वा ए॒तद्रेतः॑ (५) यदाज्य॑म् । अन॒डुह॑स्तण्डुलाः॑ ।
मि॒थु॒नमे॒वाव॑रुन्द्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालू॑क्षान्तत्वाय,
इति ।
तैत्तिरीयब्राह्मणम् (१.१.६) ३५
आज्यस्य धेनुनिष्पाद्यत्वात्तद्रेतस्त्वम् । तण्डुलानां चानडुहाकृष्टायां
भूमौ निष्पाद्यत्वात्तद्रेतस्त्वम् । अत उभयमेलने सति मिथुनं संपद्यते ।
तस्माद्ङ्गरूनिष्पत्तये घृते तण्डुलाः प्रक्षेप्सव्याः । एतेन घृतेन
यज्ञस्यालूक्षान्तत्वं संपद्यते । लूक्षो रुक्षः स्नेहरतिः परुषः ।
तद्वैपरीत्याञ्चालूक्षः । तादृशोऽन्तः समीपवर्ती द्रव्यविशेषो यज्ञस्य
सोऽयमलूक्षान्तस्तस्य भावोऽलूक्षान्तत्वं तत्सिद्धये घृतस्वीकारः ।
यदुक्तं सूत्रेण-(सूत्रकारेण) “चतुर्धाकरणकाल आदित्यं ब्रह्मणे
परिहरित , तं चत्वार आर्षेयाः प्राश्नन्ति ” इति । तदिदं विधत्ते-
च॒त्वार॑ आर्षे॒याः प्राश॑नन्ति । दि॒शामे॒व ज्योति॑षि जुहोति,
इति ।
योऽयमादित्यस्यश्वरुस्तस्यैतद्धविषश्चतुर्धाकरणं नास्ति, किंतु ब्रह्मणे
हस्ते सर्वं दत्वा चत्वार ऋत्विजः प्राश्नीयुः। तेषां
श्रुताध्ययनसंपन्नत्वादार्षेयत्वम् । अत एवान्यत्राऽऽम्नातम्-“आर्षेयो यः
शुश्रुवान्’’ इति । चतुःसंख्यासाम्येन दिशां चतसृणां संबन्धिनि ज्योतिषि
हुतं भवति ।
उक्तानां हविषां कालविशेषं विधत्ते-
प॒शवो॒ वा ए॒तानि॑ ह॒वी ँषि॑ । ए॒ष रुद्रः॑ । यद॒ग्निः (६) ।
यत्स॒द्य ए॒तानि 'ह॒वी ँषि॑ निर्व॑पेत् । रु॒द्राय॑ प॒शूनपि॑
द॒ध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नानु॒निर्व॑पेत्
अन॑वरुद्धा अस्य प॒शवः॑ स्युः । द्वाद॑शसु रात्री॒ष्वनु॒निर्व॑पेत् ।
सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒त्स॒रेणै॒वास्मै॑ रु॒द्र ँ
श॑म॒यित्वा॑ । प॒शूनव॑रुन्द्धे, इति ।
अत्रेदं विचिन्त्यते-यस्मिन्दिनेऽग्नय आहितास्तस्मिन्दिने किमेतानि
हवींषि निर्वपेत्किंवा नेति । तत्र निर्वापो न युक्तः । एतेषां हविषां
पशुसाधनत्वेन पशुरूपत्वात् । आहितस्य चाग्नेः क्रूरदेवत्वात्तस्मै क्रूराय
पशुसमर्पणप्रसङ्गाद्यजमानोऽप्यपशुः स्यात् । अनिर्वापपक्षे तु पशवो न
संपादिताः स्युः । अतो दोषद्वयपरिहारायाऽऽधानादूर्ध्वं द्वादशसु रात्रीषु
गतासु पश्चाद्धवींषि निर्वपेत् । द्वादशसंख्याया मासद्वारेण तासां
संवत्सरसदृशत्वादेतद्यजमानार्थं संवत्सरेणैवाग्निं शान्तं कृत्वा
पशून्प्राप्नोति ।
३६ (१.१.६) तैत्तिरीयब्राह्मणम्
तन्निर्वापे कंचिद्विशेषं विधत्ते-
यदेक॑मे॒कमे॒तानि॑ ह॒वीꣳषि॒ निर्व॑पेत् (७) । यथा॑
त्रीण्या॑वप॑नानि पू॒रये॑त् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑-
॑षेत् । एकं॒ निरू॑प्य । उत्तरे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑
लो॒कमुच्छि॑ꣳ'षति प्र॒जन॑नाय । तं प्र॒जया॑
प॒शुभि॒रनुप्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभि॑क्रा॒न्तिः, इति ।
एतानि त्रीणि पवमानहवींषि पृथक्पृथगेव निर्वपेदिति
केषांचिन्मन्दानां पक्षः । तस्मिन् पक्षे यथा लोके त्रीणि
बीजावापस्थानानि । क्षेत्राणि बीजैः पूरितानि भवन्ति तथा लोकत्रयस्यापि
त्रिभिर्हविर्भिः पूरितत्वाद्यजमानस्य स्वातन्त्र्येण प्रजोत्पत्तिस्थानं किमपि
नावशिष्येत । तस्मात्प्रथममेकं हविः पृथङ् निरूप्य द्वितीयतृतीये हविषी
संभूय निर्वपेत् । तथा सति निर्वापद्वयेन लोकद्वयस्यैव पूरितत्वात्तृतीयो
लोको यजमानस्य प्रजोत्पादनायावशेषितो भवति । ततस्तं
लोकमनुयजमानः प्रजापशुसमृद्धो भवति । अपि च
यत्तृतीयलोकावशेषणमेषा यज्ञस्यैवाभिक्रान्तिरभितो व्याप्तिः ।
प्रजापशुरूपस्य तत्फलस्य निष्पन्नत्वात् ।
यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति दक्षिणतो ब्रह्मा
रथं रथचक्रं वा प्रवर्तयति यावच्चक्रं त्रिः परिवर्तते” इति । तदेतद्विधत्ते-
रथ॑च॒क्रं प्र॒वर्त॑यति । म॒नु॒ष्य॒रथे॑नैव दे॑व॒रथं॒ प्रत्यव॑रोहति
(८), इति ।
गार्हपत्यादाहवनीयं प्रत्यग्नेः प्रणयनकाले रथचक्रस्य प्रवर्तनम् ।
अनेन मनुष्यरथप्रवर्तनेन नीयमानांग्न्यर्थं देवरथ एव प्रवर्तितो भवति ।
अथ मीमांसामुखेन होमनिर्णयं करोति-
ब्रह्म॒वा॒दिनो॑ वदन्ति । होत॒व्यम॒ग्नि॒हो॒त्रा३ न
होत॒व्या३मिति । यद्यजुषा जुहुयात् । अय॑थापूर्व॒माहु॑तीजु
(तीर्जु) हुयात् । यन्न जु॑हुयात् । अ॒ग्निः परा॑भवेत् ।
तूष्णीमे॒व होत॑व्यम् । यथा॑पूर्व॒माहु॑ती जु (तीर्जु) होति ।
नाग्निः परा॑भवति, इति ।
तैत्तिरीयब्राह्मणम् (१.१.६) ३७
नेयं नित्याग्निहोत्रविषया मीमांसा । तस्य पवमानेष्टिभ्य ऊर्ध्वं
प्रवर्तिष्यमाणत्वात् । किंवाधानाङ्गमेतत्किंचित्कर्म । पूर्णाहुतेः
प्राक्प्रवर्तमानत्वात् । “पूर्णाहुत्यन्तमग्न्याधेयम्” इत्याश्वलायनेनोक्तम् ।
अस्य चाऽऽधानाङ्गस्याग्निहोत्रस्य मन्त्रेण होमे सत्ययथापूर्वत्वं प्रसज्येत ।
तथा हि अग्निहोत्रशब्दोऽत्र नित्याग्निहोत्रधर्मानतिदिशति । नित्याग्निहोत्रे
च- “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा” इति । अयमहनि पठितो
होममन्त्रः सोऽत्र प्रसक्तः । अहन्येव हूयमानत्वात् । प्रकृतिभूते त्वग्निहोत्रे
रात्रावेवोपक्रमात् । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा” इति मन्त्रस्य
रात्रिहोमाङ्गत्वात्तेन मन्त्रेण प्रथममनुष्ठाय पश्चात्प्रातः काले “सूर्यो ज्योतिः”
इति मन्त्रेणानुष्ठानमित्येव क्रमः । इह त्वादावेव “सूर्यो ज्योतिः” इति
मन्त्रेणानुष्ठानं प्रकृतिवैलक्षण्यादयथापूर्वत्वम् । अहोमपक्षे
त्वाधानेनोत्पन्नोऽग्निराहाराभावात्पराभूतो भवेत् । अतो दोषद्वयं परिहर्तुं
मन्त्रं परित्यज्य तूष्णीमेव होतव्यम् । तथा सति
मन्त्रवैपरीत्याभावादयथापूर्वत्वदोषो न भवति । होमस्यानुष्ठितत्वादग्नेः
पराभवोऽपि न भवति ।
यदुक्तं सूत्रकारेण-“आग्नेयस्य दक्षिणाकाले दक्षिणां ददात्यजं
पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीध उपबर्हणं ददात्यश्वं ब्रह्मणेऽध्वर्यवे
वाऽऽ हवनीयदेशेऽनड्वाहमध्वर्यवेऽपरं गार्हपत्यं धेनु ँ होत्रे वासो
गावौ मिथुनौ गावौ नवं च रथं ददाति तानि साधारणानि सर्वेषामा
द्वादशभ्यो ददातीत्युक्त्वाऽऽ ह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति
विज्ञायते । ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश
देयाश्चतुर्विंशतिर्देया इति ता विकल्प्यन्ते ” इति । तदेतत्सर्वं क्रमेण
विधत्ते-
आ॒ग्नीधे॑ ददाति (९) । अ॒ग्निमु॑खाने॒वर्तूंन्प्री॑णाति ।
उ॒प॒ब॒र्ह॒णं द॑दाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे॑ ।
इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे । धे॒नु ँ होत्रे॑ । आ॒शिष॑ ए॒वाव॑रुन्द्धे ।
अ॒न॒ड्वाह॑मध्व॒र्यवे॑ । व॒हिर्र्वा अ॑न॒ड्वान् । व॒हिर्ह्य॑ध्व॒र्युः
(१०) । वह्नि॑नैव वह्निं॑य॒ज्ञस्याव॑रुन्द्धे । मि॒थु॒नौ गावौ॑
ददाति । मि॒थु॒नस्याव॑रुन्द्ध्यै (द्ध्यै) । वासौ॑ ददाति ।
स॒र्व॒दे॒व॒त्यं॒ वै वास॑:। सर्वा॑ ए॒व दे॒वता॑: प्रीणाति । आ
द्वा॒द॒श॑भ्यो ददाति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒र
३८ (१.१.६) तैत्तिरीयब्राह्मणम्
ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै
(११) इति ।
आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे-
क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन
द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य
वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः
सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य
प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु-
रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति ।
अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च
वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन
मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा-
प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति-
पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड्
देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं
यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा ।
एकादशाध्यायस्य चतुर्थपादे चिन्तितम्-
पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः ।
साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति ।
आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये
पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः
साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः
कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ
पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति
वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् ।
नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-
तैत्तिरीयब्राह्मणम् (१.१.७) ३९
एका देया समुच्चेयं विकल्प्यं वाऽऽद्य आनतेः ।
सौलभ्यादन्तिमौ नैरपेक्ष्यात्संख्यान्तरादपि ॥ इति ।
आधाने श्रूयते- “एका देया षड् देया द्वादश देयाः” इत्यादि । तत्र
सोमक्रयन्यायेनाऽऽनतेः सौलभ्यात्समुच्चय इति चेत् । मैवम् । संख्यानां
व्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात् । समुच्चये तु श्रूयमाणाभिः संख्याभिः
संख्यान्तरस्य दुर्वारत्वाच्च । तस्माद्विकल्पः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथम प्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
षष्ठे हविर्विशेषा दक्षिणाश्चोक्ताः । अथ सप्तम आधानमन्त्रा
उच्यन्ते । तत्राऽऽदौ गार्हपत्यविषयं मन्त्रमाह-
घ॒र्मः शिर॒स्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । छ॒-
र्दिस्तो॒काय॒ तन॑याय॒ यच्छ॑, इति ।
घर्मो दीप्तिज्वाला स च घर्मोऽग्निशरीरस्य शिरः स्थानीयः । तच्च
शिरोऽयं पुरोवर्ती गार्हपत्योऽग्निः । तादृश हे गार्हपत्याग्ने त्वमस्मदीयैः
पशुभिः सहसंप्रियो भुवत्सम्यक्प्रीतियुक्तो भव । ततोऽस्मदपत्याय
तदीयापत्याय च च्छर्दैर्यच्छ तेजो देहि ।
अथान्वाहार्यपचनविषयं मन्त्रमाह-
वातः॑ प्रा॒णस्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । स्व॒दि॒तं
तो॒काय॒ तन॑याय पि॒तुं प॑च, इति ।
योऽयमग्निसखो वायुः सोऽग्नेः प्राणस्तत्प्राणरूपमयमाधीय-
मानोऽन्वाहार्यपचनोऽग्निः । हेऽन्वाहार्यपचन त्वमस्मदीयैः पशुभिः सह
संप्रियो भव । अस्मत्पुत्राय तत्पुत्राय च स्वदितं स्वादुयुक्तं पितुमन्नं पच
पक्वं कुरु ।
अथाऽऽहवनीयदेशं प्रति गमनमन्त्रमाह-
प्राची॒मनु॑प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् अ॒ग्नेर॒ग्ने पु॒रो अ॒ग्निर्भ॑वे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि । द्वि॒पदे॒
चतु॑ष्पदे (१), इति ।
हेऽग्ने त्वं विद्वान्मागं जानन्प्राचीं प्रदिशमनु प्रागाख्यां प्रकृष्टां
दिशमनु लक्ष्य प्रेहि प्रकर्षण गच्छ । गत्वा चेहाऽऽयतने प्रथममाहितस्य
गार्हपत्यस्याग्नेः पुरोऽग्निः पूर्वदिग्वर्ती वह्निर्भव । ततो॑ दीद्यानः
प्रकाशमानो विश्वाआशाः सर्वा दिशो विभाहि विशेषेण प्रकाशय ।
नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे चोर्जं धेहि देह्यन्नरसं
संपादय ।
अथाऽऽहवनीयविषयं मन्त्रमाह-
अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तदयम॒ग्निः । संप्रि॒यः प॒शुभ॑र्भुवत् ।
यत्ते॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् ।
तेन॑ दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा, इति ।
अर्कोऽर्चमानो मण्डलात्मा वह्निशरीरस्य चक्षुःस्थानीयस्तच्चक्षुः
स्वरूपमसौ दिवि दृश्यमानः सूर्यरूपः स सूर्योऽयमाधीयमान
आहवनीयोऽग्निः । ह आहवनीयास्मदीयैः पशुभिः संप्रियो भव । हे शुक्र
ऽऽहवनीय ते त्वदीयं यच्छुक्रं वर्चो बहिः प्रसृतं दीप्तिरूपं तेजो या च
शुक्रा तनूर्ज्वालाः रूपं शरीरं यदप्यजस्रं शुक्रं ज्योतिः सर्वदा वर्तमानो
भारूपशरीरगतप्रकाशस्तेन सर्वेण मे दीदिहि मां प्रकाशय । हेऽग्ने
परिवृढेन-“अर्कश्चक्षुः” इति मन्त्रेण तेन पूर्वोक्तगुण-
युक्तेनाग्निनाऽऽहवनीयरूपेण त्वामिहाऽऽदधे ।
अथाऽऽहितस्याग्नेरभिमन्त्रणमन्त्रमाह-
आन॑शे॒ व्यान॑शे॒ सर्व॒मायु॒र्व्यान॑शे, इति ।
अयमग्निरानशे जाठराग्निरूपेण भोक्तृशरीरं व्याप्तवान् । तथा
व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा
सर्वमायुर्व्यानशेऽपमृत्युपरिहारेण संपूर्णमायुः संपादितवान् ।
ये ते॑ अग्न शिवे॒ तनुवौ॑ । वि॒राट् च॑ स्व॒राट् च॑ । त मा॑
विश॑तां॒ ते मा॑ जिन्वताम् (२) । ये ते॑ अग्ने शिवे॒ तनुवौ॑ ।
स॒म्राट् चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये
सप्तमोऽनुवाकः ॥ ७ ॥
तैत्तिरीयब्राह्मणम् (१.१.७) ४१
ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा॑ वि॒शता॒न्
त मा॑ जिन्वताम् । ये ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । प्र॒भ्वी च॑
प्र॒भूति॑श्च । ते मा॑ वि॒शता॒न् ते मा॑ जिन्वताम् । यास्तै॑ अग्ने
शि॒वास्त॒नुवः॑ ताभि॒स्त्वाऽऽद॑धे, (इति) ।
कल्पः-“अथ यजमानः शिवा जपति-ये ते अग्ने शिवे तनुवौ
विराट् च स्वराट् च ते मा विशतां ते मा जिन्वतां ये त अग्ने शिवे
तनुवौ सम्राट् चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिव
तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे
तनुवौ प्रभ्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वतां यास्ते अग्ने
शिवास्तनुवस्ताभिस्त्वाऽऽदधे ” इति । विराडादिभिः प्रभूतिपर्यन्तैरष्टाभिः
शब्दैरुक्ता अग्नेः शिवाः शान्तास्तनुवः । हेऽग्ने ते त्वदीये विराट्-
स्वराडाख्ये ये शान्ते तनू ते उभे मां प्रविश्य प्रीणयताम् । एवमुत्तरत्रापि ।
विविधं राजत इति विराट् । स्वयमेव राजत इति स्वराट् । सम्यग्राजत
इति सम्राट् । वैरिणोऽभिभवतीत्यभिभूः । विशिष्टेन रूपेण भवतीति
विभूः । परितो भवतीति परिभूः । आज्ञालक्षणेन प्रभुत्वेन युक्ता प्रभ्वी ।
प्रकृष्टैनैश्वर्येणोपेता प्रभूतिः । हेऽग्ने या एतास्ते त्वदीयाः
शिवास्तनुवस्ताभिर्युक्तं त्वामिहाऽऽदधे ।
यास्तै॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॒र॒मुं ग॑च्छ (३), (इति) ।
चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके प्रथमाष्टके प्रथमाध्याये
सप्तमोऽनुवाकः ॥ ७ ॥
कल्पः-“यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति यजमानो
द्वेष्याय प्रहिणोति” इति । घोरतनवः क्षुत्तृष्णादिरूपाः । तथा
चाऽऽरण्यकाण्डे समाम्नातम् “यास्ते अग्ने घोरास्तनुवः क्षुञ्च तृष्णा च”
इत्यादि । ताभिर्घोराभिस्तनुभिरमुं शत्रुं गच्छ प्राप्नुहि ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
४२ (१.१.८) तैत्तिरीयब्राह्मणम्
अथाष्टमोऽनुवाकः ।
आधानमन्त्राः सप्तमेऽभिहिताः । अष्टमे तद्ब्राह्मणमुच्यते । तत्र
त्रीनाधानमन्त्रान्विनियुङ्क्ते-
इ॒मे वा ए॒त लो॒का अ॒ग्नय॑ः। ते यद॒व्या॑वृत्ता आधी॒येर॑न् ।
शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॑ गार्हप॒त्यमाद॑धाति ।
वातः॑ प्रा॒ण इत्य॑न्वाहार्यप॒चन॑म् । अ॒र्कश्चक्षु॒रित्या॑-
हव॒नीय॑म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शौच॑यन्ति॒
यज॑मानम्, इति ।
एते त्रयोऽग्नयस्त्रित्वसाम्यादिमे त्रयो लोका भवन्ति । ते यदि
परस्परम्-व्यावृत्ताः समुदिता आधीयेरंस्तदा दाहाधिक्येन यजमानं
संतापयेयुः । अतस्त्रिभिर्मन्त्रैः पृथगादध्यात् । तेन व्यावृत्ताः सन्त
स्तापाधिक्याभावाद्यजमानं नैव संतापयन्ति ।
अथाऽऽधानकाले सामगानं विधत्ते-
र॒थं॒त॒र॒म॒भिगा॑यते गार्हपत्य आधी॒यमा॑ने । राथन्त॒रो वा
अ॒यं लो॒कः (१) । अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते ।
वा॒म॒दे॒व्य॒म॒भिगा॑यत उ (द्) ध्रिय॒माणे॑ । अ॒न्तरि॑क्षं॒ वै
वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॑ प्रति॑ष्ठित॒माध॑त्ते । अथो॒
शान्ति॒र्वै वा॑मदे॒व्यम् । शान्त॑मे॒वैनं॑ पशू॒व्यमुद्ध॑रते ।
बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने बाह॑तो॒ वा अ॒सौ
लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते, इति ।
“अभि त्वा शूर नोनुमः ” इत्यस्यामृच्युत्पन्नं रथंतरम् । “कया
नश्चित्र आभुवत् ” इत्यस्यामृच्युत्पन्नं वामदेव्यम् । “त्वामिद्धि हवामहे”
इत्यस्यामृच्युत्पन्नं बृहत् । रथंतरादीनां भूरादिलोक-
भोगहेतुत्वाल्लोकरूपत्वम् । अत एतेषां गाने सति तत्तल्लोकेऽग्निः
प्रतिष्ठितो भवति । अपि च वामदेव्यस्योपद्रवशान्ति-
करत्वात्पशुप्राप्तिहेतुत्वाच्चैनमुद्ध्रियमाणमग्निं शान्तं पशुसाधनं च
कृत्वोद्धरति ।
पुनरपि सामद्वयं विधत्ते-