तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
१७४ (१.४.२) तैत्तिरीयब्राह्मणम्
यदिन्द्रा॑ अ॒ग्नि॒र॒र्चिर्भि॑रहं तदस्य मनसा शिवेन सोमँ राजानमिह
भक्षयामीति वा स्वयं पिबेत्" इति । अत्र सुरोच्छेषस्य ब्रह्मणे पातारं
किंचिन्मूल्यदानेन परिक्रीणीयात् । नाना हि वामिति मन्त्रेण यदिन्द्रेति
मन्त्रेण वा स्वयं पिबेदित्यर्थः । हे सोमग्रहसुराग्रहौ वां युवयोः सदों
निवासस्थानं नाना मितं पृथगेव संपादितम् । अतः परमेव्योमन्प्रकृष्टे
आकाशे भक्षणस्थाने मा संसृक्षाथां परस्परसंसृष्टौ मा भूताम् । हे
पात्रस्थद्रव्य त्वं शुष्मिणी बलवती सुराऽसि । एष खलु सोमः
सुप्रसिद्धविभवस्त्वं स्वां योनिं स्वकीयस्थानमुदररूपमाविशन्मामिह मा
हिंसीः । अत्र पात्रे रसिनो रसवतः सुतस्याभिषुतस्य यच्छिष्टमस्ति यच्चेन्द्रः
अचीर्भिः स्वशक्तिभिः सहापिबत्तत्रास्य पात्रस्थद्रव्यस्यैकदेशं सोमं
राजानमहं शिवेन भक्तियुक्तेन मनसेह कर्मणि भक्षयामि ।
द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम् । अ॒हं दे॒वाना॑मुत मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒ꣳ समे॑ति । अ॒न्त॒रा पूर्व॒मपरं॑ च
के॒तुम् ।
कल्पः-“द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा
वल्मीकवपायामवनयेत् " इति पितॄणामस्मत्पूर्वपुरुषाणां द्वे सृती अशृणवं
द्वौ मार्गाविति शास्त्रमुखेनाहं श्रुतवानस्मि । तयोर्मध्ये देवानामेको मार्गो
येन गत्वा ब्रह्म लोके देवा भूत्वा न पुरावर्तन्ते । उतापि च मर्त्या येन
गत्वा स्वर्गमनु भूय पुनरावर्तन्ते ताभ्यामुभाभ्यां मार्गाभ्यामिदं विश्वं भुवनं
शास्त्रार्थनुष्ठानपरं सर्वप्राणिजातं समेति सम्यग्गच्छति । पूर्वं केतुं चिह्नं
पृथिवीमपरं केतुं दिवं चान्तरा द्यावापृथिव्योर्मध्ये द्वे सृती वर्तेते इत्यर्थः ।
यस्तै॑ देव वरुण गाय॒त्रछ॑न्दाः पाश॑ः । तं त॑ ए॒तेनाव॑जये,
इति ।
कल्पः-“यस्ते देव वरुण गायत्रीच्छन्दाः, पाशस्तं त एतेनावयजे
स्वाहेत्याश्विनपात्रमभृथे प्रविध्यन्ति" इति । हे वरुणदेवतेत्वदीयः पाशों
गायत्र्याख्येण च्छन्दसा युक्तों यो विद्यते तं पासमेतेन पात्रेण
विनाशयामि ।
कल्पः-“एतेनैव त्रिष्टुप्छन्दा इति सारस्वतस्य जगतीछन्दा
इत्येन्द्रस्य' इति । एतेन देवेति मन्त्रेण त्रिष्टुप्छन्दा इतिविशेषयुक्तेन
सारस्वतस्य पात्रं प्रविध्यन्ति । एवमुत्तरत्रापि । पाठस्तु-
द्वितीयोऽनुवाकः ॥ २ ॥
तैत्तिरीयब्राह्मणम् (१.४.२) १७५
यस्तै॑ दे॒व॒ वरु॑ण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे ।
यस्तै॑ दे॒व॒ वरु॑ण॒ जग॑ती छन्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे,
इति ।
समाप्ताः सौत्रामणिशेषा मन्त्राः । अथ सोमशेषः कश्चिद्विधिः ।
यदुक्तं सूत्रकारेण-“राज्ञो राजभव्यस्य वाऽनूबन्ध्यायाः पशुपुरोडाशमष्टाै
देव सुवाँहवींष्यनु निर्वपति” इति । तदिदं विधत्ते-
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन््राज्यो वा॒
सोमे॑न॒ यज॑ते । दे॒व॒सुवामे॒तानि॑ ह॒वी ँ षि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॒ सवाः॑ । त ए॒वास्मै॑ स॒वा न्प्रर्य॑च्छन्ति।
स ए॒नं॒ पुन॑: सुवन्ते रा॒ज्या॑य दे॒व॒सू राजा॑ भवति, इति ।
सोमं॑ आवि॒शन्त्य॑जे रा॒ज्यायै॒कं च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
द्वितीयोऽनुवाकः ॥ २ ॥
यः पूर्वं राजा राजत्वयोग्यो वा भूत्वा सोमेन यजत एतस्य राज्यं
सोम देव गृह्णाति । अतस्तन्निवारणाय हविर्निर्वप । सुवन्ते प्रेरयन्ति
राज्यार्थायमिति सुवां देवाश्च ते सुवश्च देवसत्राऽग्न्यादयस्तत्संबन्धीनि
हवींष्यग्नये गृहपतये पुरोडाशमष्टाकपालमित्यनुवाकोक्तानि यावन्त
ऐश्वर्यविशेषास्तस्मिन्ननुवाके श्रूयन्ते-“अग्निरेवैनं गृहपतीनाँ सुवते
सोमो वनस्पतीनाम् ” इत्यादिना । एतावन्त एव गृहपतित्वाद्योऽपेक्षिता
देवानां संबन्धिन ऐश्वर्यविशेषाः ततस्तैर्हविर्भिस्तुष्टास्त एवाग्न्यादयो
देवा अस्मै यजमानाय तान्गृहपतित्वाद्यैश्वर्यविशेषान्प्रयच्छन्तीति ते देवा
एनं यजमानं पुनरपि राज्याय प्रेरयन्ति । असावपि देवैः प्रेरितो राजा
भवति । अत्र विनियोग संग्रहः-
युवं सुरामं याज्यनुवाक्ये सौत्रामणौ गते ।
अहाव्यस्मिन्निति द्वाभ्यां तत्र होमानुमन्त्रणम् ॥
नानेति वा यदत्रेति वा मन्त्राद्भक्षयेद्धविः ।
द्वे स्रुतीति च वल्मीकवपायां वा क्षिपेद्धि तत् ॥
यस्ते देवाश्विनादीनि विध्यन्त्यवभृथे त्रिभिः ।
अनुवाके द्वितीयेऽस्मिन्दश मन्त्रा उदाहृताः ।। (इति) । ।
१७६ (१.४.३) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ चतुर्थप्रपाठके तृतीयोऽनुवाकः ।
द्वितीये सौत्रामणिमन्त्रा उक्ताः । तृतीयचतुर्थयोरग्निहोत्रविषयं
प्रायश्चित्तमुच्यते । तत्राप्यस्मिन्ननुवाके दोहविषयं प्रायश्चित्तम् । तत्र
कंचिन्मन्त्रं पठति-
उद॑स्थाद्दे॒व्यदि॑तिर्वि॒श्वरू॑पी । आयु॑र्य॒ज्ञप॑तावधात् ।
इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च, इति ।
येयमग्निहोत्रहविर्दोहनार्था धेनुः सेयं देवी देवतारूपोदस्थादुत्तिष्ठतु
। कीदृशी । देव्यदितिर्भूमिरूपा विश्वरूपी कृष्णशुक्लादिनानारूपयुक्ता
सेयं यज्ञपताव्वायुः संपादयतु । किं कुर्वती । इन्द्रमित्रावरुणेभ्यो हविर्भागं
संपादयन्ती ।
तमेतं मन्त्रं विनियुङ्क्ते-
इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति ।
यस्या॑ग्निहो॒त्री नि॒षीद॑ति । तामुत़्था॑पयेत् ।
उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः (१) ।
इ॒मामे॒वास्मा॒ उत्था॑पयति, इति ।
यस्याग्निहोत्रहविर्दोहनाय प्रवृत्तस्याग्निहोत्री धेनुरुपविशति, एतस्य
पुरुषस्यास्याग्निहोत्री भूमिरूपेति कृत्वा भूमिदेवतैव दोहं प्रतिबध्नन्ती
निषीदति । तस्मादुदस्थादिति मन्त्रेण तामुत्थापयेत् मन्त्रगतस्यादि-
तिशब्दस्य भूमिवाचित्वाद्भूमिमेवोत्थापयति ।
मन्त्रस्य द्वितीयपादतात्पर्यं दर्शयति-
आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति, इति ।
उत्तरार्धस्य यथार्थतां दर्शयति-
इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒-
य॒जुरे॒वैतत्, इति ।
तैत्तिरीयब्राह्मणम् (१.४.३) १७७
प्रायश्चित्तान्तरं विधत्ते-
अव॑र्ति॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्र॒तिरू॒याय॒ निषी॑दति॒
यस्या॑ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तां दु॒ग्ध्वा ब्राह्म॑णाय
दद्यात् । यस्यान्नं॒ नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒
प्रति॑मुञ्चति (२), इति ।
वर्तिर्वर्तनं जीवनोपायः। अवर्तिर्दारिद्य्रम् । यस्यानुष्ठातुर्दोहनार्थे
वत्सेन संसृष्टा धेनुरुपविशति, एतस्यावर्ति दारिद्र्यहेतुं पाप्मानमेषा धेनुः
प्रतिरूयाय सर्वत्र प्रख्याप्योपविशति । अतस्तां धेनुं दुग्ध्वा
पश्चाद्ब्राह्मणाय दद्यात् । कीदृशाय । यस्य ब्राह्मणस्यान्नमित ऊर्ध्वं
.यजमानो नाद्यात्तादृशाय । तेन दानेन स्वकीयं दारिद्र्यहेतुं
पाप्मानमस्मिन्ब्राह्मणे कवचादिवत्प्रतिमुञ्चति ।
दोहनपूर्वकं दानं प्रशंसति-
दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यतै, इति ।
यस्मात्प्रतिग्रहीत्रा पुरुषेणादृष्टा दक्षिणा दानयोग्या न भवति, तस्माद्
दुग्ध्वा क्षीरं तस्यै प्रदर्श्य त्वमेवं दुग्ध्वा भुङ्क्ष्वेत्येवं दद्यात् ।
अथ प्रायश्चित्तान्तरं विधातुं प्रस्तौति-
पृ॒थि॒वीं वा ए॒तस्य॒ पयः॑ प्रवि॑शति । यस्या॑ग्निहो॒त्रं
दु॒ह्यमा॑न् ̐ स्कन्द॑ति, इति ।
यस्य यजमानस्याग्निहोत्रार्थं हविर्दोहनकाले स्वल्पमपि पतति,
एतस्य कृत्स्नमपि पृथिवीमेव प्रविशति ।
एतत्प्रायश्चित्तरूपं मन्त्रपाठं विधत्ते-
यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑
गृ॒हेषु॒ पयो॑ अ॒घ्निया॑सु । पयो॑ व॒त्सेषु॒ पयो॑ अस्तु
तन्मयीत्या॑ह । पय॑ ए॒वाऽऽत्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते, इति ।
अद्यास्मिन्दिने यद्दुग्धं पृथिवीमसक्त पृथिव्यां पतितं यच्च
बिन्दुरूपेणौषधीरपो वा प्राविशत्तत्पयो मदीयेषु गृहेष्ववस्थितमस्तु । तथा
तत्पयो मदीयासु गोषु स्थितमस्तु । तथा तत्पयो मदीयवत्सेषु स्थितमस्तु ।
तथा तत्पयो मयि स्थितमस्तु . तमेतं मन्त्रं पठेत् । तेन स्कन्नं पय आत्मनि
गृहेषु पशुषु च स्थापितं भवति ।
एतदभिमन्त्रणानन्तरमुदकस्पर्शं विधत्ते-
अप॒ उप॑सृजति (३) । अ॒द्भिरे॒वैन॑दाप्नोति, इति ।
स्वेनोपसृष्टाभिरद्भिरेव स्कन्नमेतत्पयः पुनः प्राप्नोति ।
प्रायश्चित्तान्तरं विधत्ते-
यो वै य॒ज्ञस्याऽऽर्त्तेनानार्तं ॅस ॅ सृज॑ति । उ॒भे वै ते
त॒र्ह्यृ॑र्च्छतः । आ॒ऽर्च्छति॒ खलु॒ वा ए॒तद॒ग्निहो॒त्रम् । यद्दु॒ह्यमा॑नं ॅ
स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्त्तेनानार्तं य॒ज्ञस्य॒ स ॅ
सृ॑जेत् । तदे॒व या॒दृक्की॒दृक् च॑ होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा
पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽर्त्तं य॒ज्ञस्य॒ निष्क॑रोति (४),
इति ।
यज्ञस्य संबन्धि हविर्द्विविधम् । आर्त्तमनार्तं चेति । दुह्यमानस्य
स्कन्दने सति तदार्तं भवति । इतः परं धोक्ष्यमाणमनार्तं भवति । तथा
सति स्कन्दनादूर्ध्वं तदेव पात्रस्थमभिलक्ष्य यदि पुनर्दुह्यात्तदानी-
मार्तस्योपर्यनार्तस्य स्थापनादुभयमपि पयः संसृजेत् । तत्संसर्गे च
द्वितीयमप्यार्तमेव भवेत् । तस्मादार्तस्योपरि दोहनं न कुर्यात् । किंतु
तदेवाऽऽर्तं यादृशं पर्याप्तमपर्याप्तं वा होतव्यम् । तावता
नित्यानुष्ठानसिद्धिः । अथाऽऽर्तपरिहारा र्थमन्यां दुग्ध्वा पुनर्होतव्यम् ।
तेन पुनर्होमेनैव यज्ञस्य यत्पूर्वमार्तं तत्समादधति ।
प्रायश्चित्तान्तरं विधत्ते-
यद्युद्द्रु॑तस्य॒ स्कन्दे॑त् । यत्ततो हु॒त्वा पुन॑रिया॒त् । य॒ज्ञं
विच्छि॑न्द्यात् । यत्र॒ स्कन्दे॑त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीया॒त् ।
यत्रै॒व स्कन्दे॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑
होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽ
र्तं य॒ज्ञस्य॒ निष्क॑रोति (४), इति ।
दोहनादूर्ध्वमुद्द्रुतस्याऽऽहवनीयं प्रत्युन्नीतस्य लेशो यदि भूमौ
पतेत्तदा नीमहुत्वा यदि ततो देशात्पुनरागच्छेत्तदानीं यज्ञो विच्छिद्येत् ।
तैत्तिरीयब्राह्मणम् (१.४.३) १७९
अतस्तत्परिहाराय यस्मिन्देशे स्कन्नं तस्मिन्नेव देशे स्वयमुपविश्य
तत्पतितं पुनः पात्रे गृह्णीयात् । तथा सति यस्मिन्नेव देशे स्कन्नं तस्मिन्देशे
पुनर्गृहीतत्वात्तेन दुग्धान्तरं न भवेत् । तदेव पुनर्गृहीतेन सहितं पात्रस्थं
नित्यार्थं हुत्वा प्राय श्चित्तार्थमन्यां दुग्ध्वा जुहुयात् ।
पुनरपि प्रायश्चित्तान्तरं विधत्ते-
वि वा॑ ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । य॒स्या॒ग्नि॒हो॒त्रेऽधि॑श्रिते
श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः ।
यद्गाम॑न्व॒त्याव॑र्तये॑त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।
अ॒प॑शु॒र्यज॑मानः स्यात् । यद॒पोऽन्व॑तिषि॒ञ्चेत् १
अ॒ना॒द्यम॒ग्नेराप॑: । अ॒ना॒द्याभ्या॑मपि॑ दध्यात् ।
गार्ह॑पत्या॒द्भस्मा॒ऽऽदाय॑ । इ॒दं विष्णुर्विच॑क्र॒म॒ इति॑
वैष्ण॒व्यर्चाऽऽह॑व॒नीया॒दध्व॒ ँस॑यन्नु॒द्रवे॑द्य॒ज्ञो वै विष्णु॑:
य॒ज्ञेनै॒व य॒ज्ञ ँसं॑तनोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै॑
(६), इति ।
वै दे॒व्यर्दिति॑र्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्यात्प॒ञ्च
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
यस्य यजमानस्याग्निहोत्रहविषि पाकार्थं गार्हपत्येऽधिश्रिते
सत्याहवनीयगार्हपत्योर्मध्ये यदि श्वा धावेत्तदानीमेतस्य यज्ञो
विच्छिद्येत । अतस्तत्परिहाराय यदि तेन शुनो मार्गेण गामतिनीय
पुनरावर्तयेत्तदानीमग्नेः क्रूरत्वेन रुद्ररूपत्वात्तस्मै रुद्राय पशून्समर्पयेत् ।
ततो यजमानः पशुरहितः स्यात् । यदि तु शुनः पदे जलमनुक्रमेणातिशयेन
निषिञ्चेत्तदानीमग्नेरनाद्यभूता आपः संपन्नाः तादृशमनाद्यं वस्तु
द्वाभ्यामग्निभ्यां समर्पयेत्ततो गोर्नयनमुदकस्य निषेचनं न कुर्यात् । किन्तु
गार्हपत्यात्किञ्चिद्भस्माऽऽदाय “इदं विष्णुः” इति मन्त्रेणाऽऽहवनीयपर्यन्तं
भस्म प्रसारयंस्तस्योपरि स्वयं गच्छेत् । ततो यज्ञस्य
विष्णुत्वाद्विष्णुरूपेणेव यज्ञेन वर्तमानं यज्ञं संततं करोति । तेन भस्मना
शुनः पदमाच्छादयेत् । तच्च दोषस्य शान्त्यै भवति । अत्र
विनियोगसंग्रहः-
अनुवाके तृतीयेऽस्मिन्मन्त्रास्त्रयं उदीरिताः ॥
१८० (१.४.४) तैत्तिरीयब्राह्मणम्
उदस्थादित्यग्निहोत्रीमुत्थापयति दोहने ।
यदद्य दुग्धमित्येतत्स्कन्नक्षीराभिमन्त्रणे ॥
इदं विष्णुश्चान्तराये ध्वंसयेद्बस्म वह्निगम् ।
अनुवाके तृतीयेऽस्मिन्मन्त्रास्त्रयं उदीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके तृतीयोऽनुवाकः । ३ ।
अथ चतुर्थप्रपाठके चतुर्थोऽनुवाकः ।
तृतीये दोहविषयं प्रायश्चित्तमुक्तम् । चतुर्थे वह्निविषयं
प्रायश्चित्तमुच्यते । तत्रैकं प्रायश्चित्तं विधत्ते-
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्यं
आहव॒नीय॑म् । यस्या॒ग्निमनु॑द्धृत॒ ँ॒ सूर्यो॑ऽभिनि॒म्रोच॑ति ।
दर्भे॑ण हिर॑ण्यं प्र॒बध्य॑ पु॒रस्ता॑द्धरेत् । अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॑द्धर॑ति । ज्योति॒र्वै
हिर॑ण्यम् । ज्योति॑रे॒वैनं॑ पश्य॒न्नुद्ध॑रति । यद॒ग्नि पूर्व॑ ँ
हर॑त्यथा॑ग्निहो॒त्रम् (१) । भा॒ग॒धेये॑नै॒वैनं॑ प्रण॑यति, इति ।
यस्य पुरुषस्यानुद्धतमग्निमुपलक्ष्य सूर्योऽस्तमेति सायंकालीनाग्नि-
होत्रार्थादाहवनीयं प्रत्यग्निप्रणयनात्प्रागेव यद्यस्तमियात्तदानीमेतस्य
पुरुषस्याऽऽहवनीयो गार्हपत्यं न्यक्कर्तुं कामयते । गार्हपत्यश्चैनं
न्यक्कामयते । ततोऽग्निद्वयमपि फलप्रदं न भवति । ततोऽस्तमयादूर्ध्वं
प्रणयन्पुरुषः केनचिद्दर्भेण हिरण्यं प्रकर्षेण बद्ध्वा तत्पुरस्तान्नयेत् । तस्य
पृष्ठतोऽग्निं नयेत् । तस्यापि पृष्ठतोऽग्निहोत्रहविर्नयेत् । तत्रहिरण्यनयनेन
ज्योतिरूपं हिरण्यं पुरतः पश्यन्पृष्ठतोऽग्नेरुद्धारादस्तमयदोषं न प्राप्नोति ।
पुरतोऽग्निं पश्चाद्धविर्नयनं तदीयेन भागधेयेन युक्तमेवाग्निं प्रणयति ।
अस्मिन्नुद्धरणे कंचिद्विशेषं विधत्ते-
ब्राह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ देवा॑ताः ।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिरुद्ध॑रति, इति ।
स्वकीयानृषीन्यो वेत्ति स आर्षेयः प्रचऱाभिज्ञ इत्यर्थः । तादृशो
ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव
तैत्तिरीयब्राह्मणम् (१.४.४) १८१
ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव
सूत्रकारेणोक्तम्- “अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत्” इति ।
“यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति”, इति
श्रुत्यन्तरात्सर्वदेवताकर्तृकमिदमुद्धरणं भवति ।
अत्रैवापरं विशेषं विधत्ते-
अ॒ग्नि॒हो॒त्रमु॑पसाद्यातमि॑तोरासीत् । व्र॒तमे॒व हु॒तम॑नुं प्रियते,
इति ।
आर्षेयस्य ब्राह्मणस्य पृष्ठतोऽग्निहोत्रहविर्नीत्वा तदधस्तादुपसाद्य
श्वासं निरुध्य ग्लानिपर्यन्तमवतिष्ठेत् । एवं सति सूर्यास्तमयेन विनाशितं
व्रतमनु स्वयमपि मरणोपचारं नाटयति । लोकेऽपि हि प्रियमन्
स्निग्धमनुम्रियन्ते । पुनरपि विशेषान्तरं विधत्ते-
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति॑ । यस्ताम्य॑ति । अन्त॑मे॒ष
य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति
(२) । पुनः॑ स॒मन्य॑ जुहोति । अन्तै॑नै॒वान्तं॑ य॒ज्ञस्य॒ ·
निष्क॑रोति, इति ।
यो ग्लानिं प्राप्नोति, एष विनाशमिव प्राप्नोति । यस्य
चाग्न्युद्धरणात्पुरा सूर्योऽस्तमेति, एष यज्ञस्य विनाशं प्राप्नोति । अतो
दोषद्वयनिवृत्यर्थं पुनः श्वासं कृत्वा जुहुयात् । तथा सति स्वकीयेन
विनाशेन सह यज्ञस्य विनाशं समादधाति ।
पुनरप्यपरं विशेषं विधत्ते-
वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ
सूर्यो॑ऽभिनिम्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं
निष्क्री॑णीते, इति ।
वरुणेनापहतो यज्ञश्चरुणा मूल्येन पुनः क्रीतो भवति ।
हिरण्यबन्धनमारभ्य चरुपर्यन्तमेकमिदं प्रायश्चित्तम् ।
अस्तमयनिमित्तं प्रायश्चित्तमभिधायोदयनिमित्तं प्रायश्चित्तं विधत्ते-
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य
आहव॒नीय॑म् । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभ्युदेति॑ ।
१८२ (१.४.४) तैत्तिरीयब्राह्मणम्
चतु॑र्गृही॒तमाज्यं॑ पुर॒स्ता॑द्धरेत् (३) । अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् । यदाज्यं॑ पुर॒स्ता॑द्ध॒रति॑ । ए॒तद्वा अ॒ग्नेः प्रि॒यं
धाम॑ । यदाज्य॑म् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्नि-
पूर्व॒ ँहर॑त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॑ प्रणयति । ब्राह्म॒ण
आ॒र्षेय॒ उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ दे॒वता॑: (४) ।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति, इति ।
पूर्ववद्व्याख्येयम् ।
अत्र पूर्वस्मादधिकं कंचिद्विशेषं विधत्ते-
परा॑ची॒ वा ए॒तस्मै॒ व्युच्छ॑न्ती॒ व्यु॑च्छति । यस्या॒ग्निम॑नु॒द्धृत॒
सूर्यो॒ऽभ्युदेति॑ । उषाः॑ के॒तुना॑ जुषताम् । य॒ज्ञं
दे॒वेभि॑रि॒न्वितम्॑ । दे॒वेभ्यो॒ मधु॑मत्त॒म ँ स्वाहेति॑
प्रत्यङ्ङुप॑नि॒षद्या॒ऽऽज्येन॑ जुहुयात् । प्र॒तीची॑मे॒वास्मै॒
विवा॑सयति, इति ।
यस्य पुरुषस्याग्न्युद्धरणात्प्राक्सूर्योदयो भवेदेतस्मै पुरुषायोषः
कालदेवता व्युच्छन्ती प्रभातं कुर्वती पराची वै पुनरावृत्तिरहितैव व्युच्छति
प्रभातं करोति । एकस्मिन्दिने प्रभातं कृत्वा विनश्यति दिनान्तरेषु प्रभातं
कर्तुं न तिष्ठतीत्यर्थः । एतद्दोषपरिहाराय प्रत्युङ्मुख उपविश्य"उषाः"
इत्यादि मन्त्रमुच्चार्याऽऽज्येन जुहुयात् । ततोऽस्मै यजमानार्थं प्रतीचीं
पुनरावृत्तियुक्तां स्वाकृतिं कृत्वा विवासयति । दैनंदिनं प्रभातं
संभावयति । मन्त्रस्यायमर्थः-इयमुषः कालदेवता केतुना
दिवसचिह्नभूतेनाऽऽदित्येन सह देवेभिरन्वितमन्यैर्देवैः प्रीतिपूर्वकं
स्वीकृतमिमं यज्ञं जुषताम् । देवेभ्योऽन्तमाधुर्योपेतमाज्यं
स्वादुतममस्त्विति ।
होमानन्तरकर्तव्यं विधत्ते-
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यात॑मि॒तोरासी॑त् । व्र॒तमे॒व हु॒तमनु॑प्रियते ।
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति (४) । यस्ताम्य॑ति ।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धृ॒त ँ
सूर्यो॒ऽभ्युदेति॑ । पुन॒ः संम॑न्य जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॑
तैत्तिरीयब्राह्मणम् (१.४.४) १८३
निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति ।
यस्या॒ग्निम॑नु॒द्धृत॒ꣳ॒ सूर्यो॑ऽभ्यु॒देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व
य॒ज्ञं निष्क्री॑णीते, इति ।
पूर्ववत्सर्वं व्याख्येयम् । आज्योद्धरणमारभ्य मैत्रचरुपर्यन्तमेकं
प्रायश्चित्तम् ।
अथाग्न्युद्वाननिमित्तं प्रायश्चित्तं विधत्ते-
यस्या॑ऽहव॒नीये॑ऽनु॒द्द्वाते॒ गार्ह॑पत्य॒ उद्वाये॑त् (६) ।
यदा॑हव॒नीय॒मनु॑द्द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे॑त् । विच्छि॑न्द्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वा॒स्त्व्यं॑ क्रि॒यते । तद॑नु॒
रु॒द्रोऽव॑चरति । यत्पूर्वं॒मन्वव॑सृ॒जेत् । वा॒स्त्व्य॑म॒ग्निमुपा॑-
सीत । रु॒द्रोऽस्य॑ प॒शून्घातु॑कः स्यात् । आ॒ह॒व॒नीय॑मुद्द्वाप्य॑ ।
गार्ह॑पत्यं॒ मन्थे॑त् (७), इति ।
यस्य पुरुषस्याऽऽहवनीयाग्नौ विद्यमाने सति
गार्हपत्याग्निर्नश्येत्तदानीमयं पुरुषस्तं विद्यमानमाहवनीयमविनाश्य यदि
गार्हपत्यार्थं मन्थनं कुर्यात्तदानीमाहवनीयजनकस्य गार्हपत्यस्याभावाद्यज्ञो
विच्छिद्येत । पूर्वा ह्याहवनीयजनको गार्हपत्यो विनष्टः । इत ऊर्ध्वं
मन्थनीयस्तु नैतस्याऽऽहवनीयस्य जनकः । किंच तन्मन्थनेन यजमानस्य
भ्रातृव्यमुत्पादयेत् । मन्थनीयस्य पूर्वाहवनीयविरोधित्वात् । एवं तर्हि
शास्त्रीयो गार्हपत्याहवनीयौ मा भूताम् । लौकिकमेवाग्निहोत्रं
क्रियतामिति चेत् । तदप्यनुपपन्नम् । यज्ञस्य संबन्धि यदङ्गं वास्तव्यं
लौकिकं क्रियते । वास्तवे लोकव्यवहारे भवं वास्तव्यम् ।
तल्लौकिकमङ्गमनु रुद्रः क्रूरो देवो यज्ञशालायां प्रविशति । एवं सति
यदि पूर्वं विद्यमानमाहवनीयमनु कर्म समापयेत्तदानीं
लौकिकमेवाग्निमुपासितवान्भवति । ततो रुद्रोऽस्य पशून्विनाशयेत्
तस्मात्पूर्वसिद्धमाहवनीयं विनाशय पश्चाद्गार्हपत्यार्थमग्निं मन्थेत् ।
तत्र मन्थनमन्त्रं विधत्ते-
इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स
गाय॒त्रिया त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु
प्रजा॒नन्नि॑ति । छन्दो॑भिरे॒वैनं॒ ꣳ॒स्वाद्योने॑: प्रज॑नयति, इति ।
१८४ (१.४:४) तैत्तिरीयब्राह्मणम्
जातवेदा उत्पन्नसर्वजगदभिज्ञोऽग्निः स्वाद्योनेः
स्वकीयात्कारणादितोऽरणेः प्रथममुत्पन्नः । स च गायत्र्यादिच्छन्दस्त्रयेण
सहकारिणा देवान्हविश्च प्रकर्षेण जानन्नस्मदीयं हव्यं देवेभ्यो
वहत्वित्यनेन मन्त्रेण मन्थनं कुर्यात् । तथा सति
गायत्र्यादिच्छन्दोभिरेवानुगृहीतः स्वकीयात्कारणादुत्पादितो भवति ।
यथोक्तं मन्थनविधिमनूद्यानुमन्त्रणं विधत्ते-
गा॒र्हप॑त्यं मन्थति । गा॒र्हप॑त्यं वा अन्वहि॑ताग्नेः प॒शव॒
उप॑तिष्ठन्ते । स यदु॒द्वास॑यति । तदनु॑ प॒शवोऽप॑क्रामन्ति .
इ॒षे र॒य्यै रम॑स्व (८), इति । सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे
पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शुने॒वास्मै॑ रमयति,
इति ।
मन्थनेन निष्पन्नो यो गार्हपत्यस्तदनु पशवोऽस्य संपद्यन्ते ।
तदुद्वासने तु पशवो नश्यन्ति । अतस्तदुद्वासनं वारयितुमिष
इत्यादिमन्त्रेणाभिमन्त्रयेत् । मन्त्रस्य चायमर्थः-हेऽग्ने इषऽन्नार्थं रय्यै
धनार्थं सहसे बलार्थं द्युम्नाय यशोर्थमूर्जे क्षीरादिरसार्थं पत्याय
स्वामित्वार्थं च रमस्व त्वामत्र क्रीडां कुरु । अस्मिन्मन्त्रे धनवाचिना
रयिशब्देन पशूनामप्यभिमतत्वात्पशूनस्मै संपादयति ।
अथ मन्त्रेण समिन्धनविधिमभिप्रेत्य तस्य भागमनूद्य व्याचष्टे-
सार॑स्व॒तौ त्वो॒त्सौ स॒मि॑न्धाता॒मित्या॑ह । ऋ॒क्सामे॒ वै
सार॑स्व॒तावु॒त्सौ । ऋ॒क्सा॒माभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
हेऽग्न उत्सावत्युत्सुकौ सारस्वतौ
सरस्वतिसंबन्धिनावृग्वेदसामवेदौ त्वां समिन्धातां सम्यग्दीपयताम् ।
भागान्तरमुदाहृत्य व्याचष्टे-
स॒म्राड॑सि वि॒राड॑सीत्या॑ह । र॒थ॒न्तरं॒ वै स॒म्राट् । बृ॒हद्वि॒राट्
(९) । ताभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
सम्यग्राजत इति सम्राट् । विविधं राजत इति विराट् । हेऽग्ने
सामद्वयरूपस्त्वमसि ।
अथ निमित्तान्तरकृतं प्रायश्चित्तं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.४) १८५
वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑न्दन्ति । यस्या॒नौ-
वा॒ रथो॑ वा॒न्तराग्नी॒ याति॑ । आ॒ह॒व॒नीय॑मुद्वाप्य॑ ।
गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द ँहि ते॑ । सूर्य॑स्य
र॒श्मीनन्वात॑तान॑ । तत्र॑ र॒यिष्ठामनु॒सम्भ॑रैतम् । सं नः॑ सृज
सु॒म॒त्या वाज॑व॒त्येति॑ । पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒संत॑नोति,
इति ।
शकटस्य रथस्य वा यच्चक्रं तल्लोहबद्धतया वज्रसमानम् ।
“रथतृतीयम्” इति वज्रांशत्वश्रुतेश्च । तथा सत्याहवनीयगार्हपत्ययोर्मध्ये
रथस्य शकटस्य वा गमने सति वज्रेण यज्ञो विच्छिद्येत् ।
अतस्तत्परिहारार्थमाहवनीयं विनाशय यदग्नय इत्यादिकमन्त्रेण
गार्हपत्यात्पुनरुद्धरेत् । मन्त्रस्य चायमर्थः-हेऽग्ने तव प्रभृतं प्रकर्षेण पुष्टं
यत्पदं स्वरूपं सूर्यस्य रश्मीनन्वनुक्रमेण सर्वतः प्रसारयामास । तत्र
यद्रयिष्ठां धनसमृद्धाववस्थितमेतमाहवनीयमनुक्रमेण संभर सम्यक्पोषय ।
नोऽस्मान्वाजवत्यान्नेनोपेतया सुमत्याशोभनबुद्ध्या संसृज संयोजय ।
अनेन मन्त्रेणाऽऽहवनीयोद्धरणे सति पूर्वसिद्धेनैव यज्ञेनास्य यजमानस्य
करिष्यमाणं यज्ञमनुक्रमेण संततं करोति ।
अस्मिन्नेवोद्धरणे मन्त्रान्तरं विधत्ते -
त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह अ॒ग्निः सर्वा॒ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञ ँसंत॑नोति, इति ।
हेऽग्ने त्वं सप्रथाः कीर्तियुक्तोऽसि । अस्य मन्त्रस्योत्तरभाग
उपहोमकाण्डे समाम्नास्यते । अस्मिन्पादे प्रशस्यमानोऽग्निः
सर्वदेवतात्मकः । ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुराग्निः
सर्वदेवता इत्यन्यत्राऽऽम्नानात् । अतो देवताभिरेव सहायभूताभिर्यज्ञं संततं
करोति ।
अत्रैव कर्तव्यशेषं विधत्ते-
अ॒ग्नये॑ पथि॒कृते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व
प॑थि॒कृत् ँस्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॑
पन्था॑मपि॑ नयति । अ॒न॒ड्वा न्द॑क्षिणा । वृ॒ही ह्ये॑ष समृ॑द्ध्यै
(१०), इति ।
१८६ (१.४.५) तैत्तिरीयब्राह्मणम्
हर॒त्यथा॑ग्निहो॒त्रं निम्रो॑चति हरे॒द्देव॑ता गच्छ॒त्युद्वाये॑न्मन्थे॑द्रमस्व
बृ॒हद्वि॒राडेति॑, नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
(नि वै पूर्वं त्रीणि निम्नो (म्रो)र्चति दर्भेण यद्धिरण्यमग्निहोत्रम् ।
पुनर्वरुणोवारुणं नि वा एतस्यावाभ्युदेति चतुर्गृहीतमाज्यं यदाज्यं यदग्निं
परोच्युषाः । पुनर्मित्रो मैत्रं यस्याऽऽहवनीयेऽनुद्गाते गार्हपत्ये यद्वै
मन्थेदुद्धरेत ॥ (१)
पन्थानं करोतीति पथिकृत्तादृशोग्निर्निरुप्तेन स्वकीयेन भागधेयेन
सेवित एनं यजमानं यज्ञयोग्यं पन्थानं प्रापयति । तत्र चानड्वान्दक्षिणा
देया । स च भारवाहित्वात्समृद्धयै संपद्यते ।
अत्र विनियोगसंग्रहः-
उषामन्त्रेण होमः स्यात्पुरा सूर्योदये सति ।
इतः प्रथेति मन्त्रेण पश्चिमानलमन्थनम् ॥
इषे रय्यै तु मथितं मन्त्रयेतानलं तदा ।
सारस्वतौ त्वेति मन्त्राद्देतमग्निं समिन्धयेत् ॥
यदग्न इत्यन्तराये रथेनाग्निं समुद्धरेत् ।
त्वमग्न इत्यपि तथा षण्मन्त्रा इति कीर्तिताः ॥
इति श्रीमत्सायणाचार्यविरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ चतुर्थप्रपाठके पञ्चमोऽनुवाकः ।
चतुर्थेऽग्निविषयं प्रायश्चित्तमुक्तम् । पञ्चमे सोमविषयं
प्रायश्चित्तमुच्यते । तत्र प्रातः सवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ प्रातः स॒वने॒ सोमो॑ऽति॒रिच्य॑ते । माध्यं॑दिन॒ꣳ सव॑नं
का॒मय॑मानो॒ऽभ्य॑ति॒रिच्य॑ते । गोध॑यति म॒रुता॒मिति॑
धर्य॑द्वतीषु कुर्वन्ति॑ ॥ हि॒नस्ति॒ वै सं॒ध्यधी॑तम् । सं॒धीव॒
खलु॒ वा ए॒तत् । यत्स॑वनस्याति॒रिच्य॑ते । यद्धर्य॑द्वतीषु
कु॒र्वन्ति॑ । सं॒धेः शान्त्यै॑, इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८७
यस्य यजमानस्य प्रातः सवनेऽनुष्ठिते सति तत्राभिषुतः सोमः
कियानप्यवशिष्यते तस्यासौ सोमो माध्यंदिनसवनेऽपि
स्वस्योपयोगमपेक्ष्यातिरिक्तो भवति । तस्यातिरेकदोषस्य परिहाराय
धयच्छब्दोपेतास्वृक्षु गौर्धयति मरुतामित्यादिषु स्तोत्रं कुर्वन्ति । यद्वेद-
वाक्यमहोरात्रयोः संघावधीतं तदध्येतारं हिनस्ति । तथा चाध्ययननिषेधेषु
प्रस्तुतेष्वापस्तम्बः स्मरति-“तावन्तं कालं नाधीयीताध्यापयेद्वा
संध्योस्तथा” इति प्रातः सवनस्य सोमातिरेको यत्तदेतत्संधीव । यथा
संध्याकालोऽहोरात्रोभयस्पर्शैंवमतिरिक्तसोमोऽपि प्रातःसवने
संपादितत्वान्माध्यंदिनसवनकामित्वाच्चोभयस्य स्पर्शी । ततः
संध्याकालाध्ययनसमानो दोषः प्राप्नुयात् । तत्र धयद्वतीषु स्तोत्रे क्रियमाणे
सत्यतिरिक्तस्य सोमस्यापि प्रातःसवनान्तःपातित्वसंधित्वं शाम्यति ।
तदेतत्सूत्रकारेणापि स्पष्टमुक्तम्-“यदि प्रातःसवने प्राग्धोमात्सोममतिरिक्तं
पश्येत्तं चमसेष्वभ्युन्नयदुपाजुहुयाद्वां हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात् ”
इति । एवं सति प्रातःसवनस्यैतदन्तत्वादनन्तरभाविनो
माध्यंदिनसवनत्वादुभयव्यतिरिक्तः संधिर्नाम कश्चिन्न भविष्यति ।
अतिरिक्तसोमस्य स्तोमार्थं धयद्वतीषु यत्स्तोत्रे क्रियते तत्र
सामस्तोमविशेषौ विधत्ते-
गा॒य॒त्र ँसाम॑ भवति पञ्चद॒शः स्तोम॑ः । तेने॑व प्रा॒तः
सव॒नान्नय॑न्ति (१) , इति ।
प्रातः सवने हि बहिष्पवमानस्तोत्रं गायत्रसाम्ना निष्पाद्यते । आज्य-
स्तोत्राणि पञ्चदशस्तोमेन । तस्योभयस्यात्र क्रियमाणत्वेन प्रातः
सवनलक्षणसद्भावादतिरिक्तसोमस्यानुष्ठातारः प्रातःसवनान्नाप
गच्छन्ति ।
धयद्वतीष्वृक्षु मरुच्छब्दस्य विद्यमानत्वात्तत्प्रयुक्तं गुणं दर्शयति-
म॒रुत्व॑तीषु कुर्वन्ति । तेनै॑व माध्यंदि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।
मरुतो हि माध्यंदिनसवनसंबन्धिनः । तत्र हि दतीया ग्रहा आम्नाताः
“यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते” इति श्रुतेः । अतो मरुत्वतीषु
स्तोत्रकरणेनमाध्यंदिनसवनलक्षणसद्भावादतिरिक्तसोमेन कामित-
माध्यंदिनसवनं नापगच्छन्ति ।
अतिरिक्तसोमानुष्ठानप्रकारं विधत्ते-
१८८ (१.४.५) तैत्तिरीयब्राह्मणम्
होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ
स॒माद॑धाति, इति ।
दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन
पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार
आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः
समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो
न भवति तथा करोतीत्यर्थः ।
अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं
तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑
भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं
यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति ।
यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य
विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् ।
अत्र सामाधारमृग्विशेषं विधत्ते-
ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑
सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति,
इति ।
बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द
आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र
विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्”
इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं
सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं
करोति ।
ऋचं विधाय सामविशेषं विधत्ते-
गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८९
माध्यंदिनसवने गौरिवीतसाम्नः पृष्ठस्तोत्रे विहितत्वात्तत्साम
तत्सवनलक्षणम् । अतस्तेन साम्ना माध्यंदिनसवनान्नापगच्छन्ति ।
स्तोमविशेषं विधत्ते-
स॒प्त॒द॒शः स्तोम॑ः । तेनै॒व तृ॑तीयसव॒नान्नर्य॑न्ति, इति ।
तृतीयसवनगतस्याऽऽर्भैवपवमानस्य सप्तदशस्तोमयुक्तत्वादसौ
स्तोमस्तत्सवनलक्षणम् । तेन तृतीयसवनान्नापगच्छन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतृ॑श्चम॒समनून्न॑यन्ते । होता॑ऽनुशँस॑ति (३) । म॒ध्य॒त ए॒व
य॒ज्ञ ꣳ॒समाद॑धति, इति ।
पूर्ववद्व्याख्येयम् ।
अथ तृतीयसवने प्रायश्चित्तविशेषं विधत्ते-
यस्य॑ तृती॒यस॑वने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत ।
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रेऽ
ति॒रिच्ये॑त । तत्त्वै दु॑ष्प्र॒ज्ञान॒म् । यज॑मानं॒ वा ए॒तत्प॒शव॑
आ॒साह्य॑ यन्ति । बृ॒हत्सा॒मं भ॑वति । बृ॒हद्वा
इ॒माँल्लो॒कान्दा॑धार । बा॑र्ह॒ताः प॒शव॑ः । बृ॒हतै॒वास्मै॑
प॒शून्दा॑धार, इति ।
द्वादशस्तोत्रयुक्तेऽग्निष्टोमे प्रयुक्ते सति तृतीयसवने यदि
सोमातिरेकस्तदानीं तस्योपयोगाय द्वादशभ्य उपरि स्तोत्रत्रयोपेतमुक्थ्यं
कुर्वीत । तत्रापि सोमातिरेके सत्येकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत ।
तत्रापि सोमातिरेके ततोऽधिकस्तोत्रयुक्तस्य क्रतोरभावादतिरेकसमाधानं
ज्ञातुं दुःशकं तर्हि मा भूत्ससमाधानमिति चेत् । न । पशुहानिप्रसङ्गात् ।
तेनातिरेकेण पशवो यजमानमासाह्य सर्वतोऽभिभूय यत्र क्वापि यन्ति ।
तस्मात्कार्यमेतत्समाधानम् । बृहत्सामगानेन तत्समाहितं भवति । बृहतः
सर्वलोकधारणसमर्थत्वात्पशूनां च तत्सामलभ्यत्वेना
ऽऽहृतत्वात्पलायमानान्पशून्यजमानार्थं तेन साम्नाधारयति ।
तस्य साम्न आधारभूता ऋचो विधत्ते-
पञ्चमोऽनुवाकः ॥ ५ ॥
१९० (१.४.६) तैत्तिरीयब्राह्मणम्
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ ।
पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति ।
शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः ।
शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः”
इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु
गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ
समा॒र्दधा॑ति, इति ।
य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
पञ्चमोऽनुवाकः ॥ ५ ॥
पूर्ववत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम-
वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते-
एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता
विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष
विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा
ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः ।
पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि
भवन्त्य॒भिजित्यै॑ (१), इति ।
तैत्तिरीयब्राह्मणम् (१.४.६) १९१
सत्येकग्रामवर्तिन्यामेकस्यां जनतायां मध्य यौ द्वौ यजमानौ संसुनुतः
संभूय सोमयागं कुरुतः । एकस्मिन्काले कुरुत इत्यर्थः । तावेतावुभौ
यजमानावेकमेवेन्द्रमभिलक्ष्य संभूयैकस्मिन्कालेऽनुतिष्ठतः । तथा सति
ममायमिन्द्रोऽस्त्वित्येवं तयोर्विप्रतिपत्तिर्भवेत् । अत एवाऽ
ऽश्वलायनेनोक्तम्-“विमतानां प्रसवसंनिपातेऽशंवः” इति । तत्र यो यज्ञः
स एष प्रजापतिरूप एव भूत्वा विस्तार्यते । तस्य प्रजापति रूपस्य
यज्ञस्योपांशुसवनादयो ग्रावाणस्तीक्ष्णदन्तस्थानीयाः । एते ग्रावाणः संभूय
सोममभिषुण्वतोर्द्वयोर्यजमानयोर्मध्येऽन्तरं यजमानं निर्वप्सति निःशेषेण
भर्त्सयन्ति । एकेन यजमानेनेन्द्रस्य परिगृहीतत्वादितरस्येन्द्रभावेन
यागाभाव एव भर्त्सनम् । अत एवाभिज्ञाः पूर्वेण प्रथमप्रवृत्तेन यजमानेन
देवता उपसृत्याः प्राप्या इत्याहुः । लोकेऽपि हि प्रथमं सेवमाने भृत्ये
स्वामी पक्षपातं करोति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं यजमानं ग्रावरूपा
दन्ता दशन्ति । अतस्तत्परिहारायाऽऽज्यस्तोत्राण्येतिवन्ति कर्तव्यानि ।
इण् गतावित्यस्य धातोरर्थमतिशब्दो ब्रूते । क्तिन्प्रत्ययान्तस्यास्य
धातोराङ्पूर्वेत्वे सत्यतिशब्दनिष्पत्तेस्तदर्थवाचिनः शब्दा येषु स्तोत्रेषु
विद्यन्ते तादृशानि स्तोत्राणि प्रातःसवने कर्तव्यानि । तथा
सतीन्द्राभावदोषपरिहारेणास्याभिजयो भवति ।
तत्रापरं विशेषं विधत्ते-
म॒रुत्व॑तीः प्रति॒पदः॑। म॒रुतो॒ वै दे॒वाना॑मप॑राजितमा॒
यत॑नम्। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते, इति ।
मरुच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः । तथाविधा ऋच आज्यस्तोत्रे
प्रतिपदः प्रथमभाविनीः कुर्यात् । देवानां मध्ये मरुतो बलवत्त्वेन पराजय-
रहितं स्थानम् । ततो देवसंबन्धिन्यपराजिते स्थाने प्रयत्नं करोति ।
ऋग्विशेषं विधाय सामविशेषं विधत्ते-
उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । इ॒यं वाव र॑थंत॒रम् । अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒वैन॑मन्त॒रैति॑ । वा॒चश्च॒ म॒न॑सश्च ।
प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्यश्च॑ (२)। सर्व॑स्माद्वि॒त्ता
द्वेद्या॑त्, इति ।
एकस्मिन्स्तोत्रे बृहतसामान्यस्मिन्न्रथंतरमित्येवं चतुर्ष्वाज्यस्तोत्रेषु
पर्यायेणोभे सामनी भवतः । रथंतरस्य भूलोकरूपत्वात् । बृहतो
द्युलोकरूपत्वात् । एतद्रूपाभ्यां सामभ्यामेवैनं यजमानं संसवदोषादन्तरितं
१९२ (१.४.६) तैत्तिरीयब्राह्मणम्
व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि
व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् ।
आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं
विधत्ते-
अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑,
इति ।
ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं
ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना
स्वर्गोऽभिमुखत्वेन वर्तते ।
अथाहर्विशेषं विधत्ते-
अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै ।
वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति ।
अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु
त्वात् ।
अथापरं विशेषं विधत्त-
यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ ।
यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।।
यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑
दे॒वता॑ वृङ्क्त, इति ।
उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः
प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध-
र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य
यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं
कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं
स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य
फलाधिक्याभाव एव विनाश इत्युच्यते ।
विशेषान्तरं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.६) १९३
यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति ।
सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑
उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति ।
यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते
स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि
च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं
कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम
संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।।
एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च ।
स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः
स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति ।
पुनरप्यन्यं विशेषं विधत्ते-
इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः
क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह ।
प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा
हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः,
इति ।
इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं
विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत
ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः
क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ
मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन
प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा
कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन
शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः ।
इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः ।
अथ सत्रविषये कंचिद्विशेषं विधत्ते-
आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं
यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र