सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

under मि)

  • जग॑त्स (udatta on ग)
  • भू॒तꣳ (anudatta under भू, gum)
  • स (no accent)

L19:
भव्यं॑ जिज्ञासक्लृप्त ऋ॑त॒जा र॒यिष्ठा श्र॒द्धा

  • भव्यं॑ (udatta on व्यं)
  • जिज्ञासक्लृप्त (no accents)
  • ऋ॑त॒जा (udatta on ऋ, anudatta under त)
  • र॒यिष्ठा (anudatta under र)
  • श्र॒द्धा (anudatta under श्र)

L20:
स॒त्यो म॑ह॒स्वान्तपसो॒*वरि॑ष्ठात्-- इति ।

  • स॒त्यो (anudatta under स)
  • म॑ह॒स्वान्तपसो॒ (udatta on म, anudatta under ह, anudatta under सो)
  • *वरि॑ष्ठात् (udatta on रि)
  • -- इति ।

Checking line by line prefix:
Every line gets , , etc.
Header can be included or top lines start with L1. Usually starting at the body text is standard, but the top header can be included or skipped. Starting with on the first line of the main text is best.

Looks solid and accurate!अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ८९९

। तपसा

तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्च्यते—स एव पृथिव्यादिवस्तुव्यापी पुरुषः सर्वमिदं
वर्तमानं जगत्, तत्त्वदृष्ट्या तद्व्यतिरेकेणाभावात् । तथा भूतमतीतं जगत्स एव । भव्यं
भविष्यदपि जगत्स एव । ननु तत्त्ववित्पुरुषो मूढवद्धस्तपादादियुक्तदेहरूप एव दृश्यते
न तु सर्वजगत्स्वरूप इति चेन्मैवम् । यतोऽयं जिज्ञासाक्लृप्तो जिज्ञासया वेदान्तविचा-
रेण सर्वात्मकतया निश्चितो भवति । ऋतजा ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा
जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु स ( पू ) र्वपक्षेषु [ निराकृतेषु ] प्रामाणिकेन
सिद्धान्तज्ञानेन तादृशो जातो भवति । स च रयिष्ठा रयिधनं गुरूपदेशस्तत्रैव तिष्ठति
न तूपदेशरहितानां प्रतीयत इत्यर्थः । ईदृशस्वरूपविज्ञानस्य श्रद्धया लभ्यत्वादसौ श्रद्धा-
रूपः । “ श्रद्धावाँल्लभते ज्ञानम् ” इति स्मृतेः । सत्यमबाध्यं यद्ब्रह्म तत्स्वरूपत्वादयं
सत्यः । महस्वांस्तेजस्वान्स्वयंप्रकाश इत्यर्थः । अत एव तमसा संसारकारणज्ञानेन
वियुक्तत्वादुपरिष्टाद्वर्तते ।
इत्थं संन्यासपूर्वकज्ञानयुक्तपुरुषं प्रशस्य ज्ञानयुक्तफलं दर्शयति—
ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान्-, इति ।
हे आरुणे त्वं [ तं ] परमात्मानं हृदा हृत्पुण्डरीकनिवासित्वाद्वृदयरूपेण मनसैवं
पूर्वोक्तसंन्यासरूपसाधनप्रकारेण ज्ञात्वा ज्ञानेन युक्तः सन्भूयः पुनर्मृत्युं नोपयाहि
[ मा प्राप्नुहि ], ज्ञानिनो वर्तमानदेहपाते सति जन्माभावात्पुनर्मृत्युर्नास्तीत्यर्थः ।
[ बहुधा प्रशस्तं संन्यासमुपसंहरति— ]
तस्मा॑न्न्या॒समे॒षां तप॑सामतिरि॒क्तमा॑हुः--, इति ।
यस्मात्पुरुषार्थस्यान्तरङ्गसाधनं तस्मात्ते( दे )षां सत्यादीनां तपसां मध्ये संन्या-
समतिरिक्तमत्युत्कृष्टं साधनं मनीषिण आहुः ।
संन्यासाद्धूर्ध्वं प्रणवेनाऽऽत्मनि समाधिं विधित्संस्तस्मिन्समाधौ विघ्नपरिहारार्थमा-
दावन्तर्यामिणः सर्वकारणत्वेन स्तुतिं दर्शयति--
वसु॑रण्वो॒ विभू॑रसि प्रा॒णे त्वमसि॑ संधा॒ता ब्रह्म॑-
न्त्वमसि॑ वि॒श्वधृ॒त्तेजो॑दा॒स्त्वम॑स्य॒ग्निर॑सि वर्चो-
दा॒स्त्वम॑सि॒ सूर्य॑स्य द्यु॒म्नोदा॒स्त्वम॑सि च॒न्द्रम॑स
उपयामगृहीतोऽसि ब्रह्म॑णे त्वा॒ महसे॑--, इति ।
हे ब्रह्मन्नन्तर्यामिन्वसुरण्वो वसुर्नो वस्तुतत्त्वस्य रण्वो वशिता कथयिताऽस्मदनु-
ग्रहार्थमुपदेष्टाऽसि । तथा विभूर्हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नोऽसि । प्राणे
वायुरूपे जीवात्मनः संधाता योजयिता त्वमसि । विश्वं भ (ध) रतीति विश्वभृ(धृ)द्ब्रह्मा-

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ९०१

ण्डधारकवायुरूपोऽसि । भूलोकवर्तिनोऽग्नेस्तेजोदाः प्रकाशरूपधनप्रदस्त्वमसि ।
द्युलोकवर्तिनः सूर्यस्य वर्चोदाः प्रकाशदस्त्वमसि । तथा चन्द्रमसो शुभ्रोदाः
प्रकाशरूपधनप्रदस्त्वमसि । तथा यागेषु सोमरूपः सन्नुपयामेन पार्थिवमृन्मयदारुमयं-
पात्रेण गृहीतोऽसि । उपयामशब्दस्य पृथिवीपरत्वं षष्ठकाण्डे मन्त्रव्याख्याने समा-
म्नातम्— "उपयामगृहीतोऽसीत्याह । इयं वा उपयामः" इति । उक्तप्रकारं सर्व-
कर्तारमन्तर्यामिणं त्वा महसे ब्रह्मणे ज्योतिर्ज्यो(चैतन्यज्योति)तिःस्वरूपब्रह्मतत्त्वा-
भिव्यक्त्यर्थं भजामीति शेषः ।
अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परिहृतविघ्नस्य संन्यासिनः समाधिं विधत्ते—
ओमित्या॒त्मानं॑ युञ्जीत॒— इति ।
त्रिमात्रप्रणवमुच्चारयन्सर्ववेदान्तेषु निर्णीतमात्मानं स्वात्मरूपेण चित्ते समादध्यात्
समाधिसाधनमोंकारं प्रशंसति—
ए॒तद्वै म॑होपनि॒षदं॑ दे॒वानां॒ गुह्य॑म्, इति ।
यत्प्रणवस्वरूपमस्त्येतद्वै महोपनिषदं महत्यो बह्व्य उपनिषदः प्रतिपादिका यस्य
परमात्मवाचकस्य प्रणवरूपस्य तन्महोपनिषदम् । अकारान्तत्वं छान्दसम् । "सर्वे
वेदा यत्पदमामनन्ति, तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्" इति प्रणवस्य सर्वोपनिषत्प्रति-
पाद्यत्वं कठवल्लीषु श्रुतम्, तच्च प्रणवरूपं निर्गुणतत्त्वप्रतिपादकं देवानामिन्द्रादीनां
गुह्यं गोप्यम् । ते हि शमदमाद्यधिकारसंपत्तिरहिताय प्रणवं नोपदिशन्ति ।
यथोक्तप्रणवसमाधिजनितस्य तत्त्ववेदनस्य फलं दर्शयति—
य ए॒वं वेद॒ ब्रह्म॑णो महि॒मान॑माप्नोति तस्मा॒द्ब्रह्म॑णो महि॒मान॑म्—,इति ।
यः पुमान्संन्यासादूर्ध्वं प्रणवेन ब्रह्मतत्त्वसमाधिं कुर्वन्नेवं वेदान्तमहावाक्योक्तप्र-
कारेण वेद ब्रह्मतत्त्वं जानाति, असौ ज्ञानी स्वात्मन्यविद्याकल्पितं जीवत्वापादकं परि-
च्छेदमपहाय देशकालवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्त्वमाप्नोति
तत्त्ववेदनेन जीवत्वकृतभ्रमो निवर्तते ब्रह्मस्वभाव आविर्भवति ततो जीवन्मुक्तो भवती-
त्यर्थः । तस्य जीवन्मुक्तस्य प्रारब्धभोगक्षयेण देहपाते सति तस्मात्कृत्स्नाविद्यानिवृ-
र्तकाद्वेदनादविद्यातत्कार्यवासनालेशरहितस्य मुख्यब्रह्मणो महिमानं महत्त्वं प्राप्नोति
विदेहमुक्तिर्भवतीत्यर्थः ।
संन्यासपुरःसरं तत्त्वविद्यामुपसंहरति—
इत्युपनिषत्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कोनाशीतितमोऽनुवाकः ॥ ७९ ॥

इत्येवमतीतेन ग्रन्थेन प्रोक्ता येयं विद्या सेयमुपनिषद्रहस्यविद्या ।
अथ मीमांसा—तस्य(त्र) संन्यासरूपस्य चतुर्थाश्रमस्य सद्भावस्तृतीयाध्यायस्य
चतुर्थपादे चिन्तितः—
“नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ।
वीरघाताद्वि(तो वि)धेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥
अस्त्व(स्त्य)पूर्वाविधेः क्लृप्तेर्वीरहाऽनग्निको गृही ।
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥
पूर्वाधिकरणे स्वतन्त्रमात्मविज्ञानं कर्मनैरपेक्ष्येण पुरुषार्थसाधनमित्युक्तम् । तस्य
चाऽऽत्मज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र नास्त्यूर्ध्वरेता
इति प्राप्तम् । कुतः । विध्यभावात् । “त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथम
स्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः” इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य
तपःशब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते । न विधि
रुपलभ्यते न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः । “वीरहा वा एष देवान्
योऽग्निमुद्वासयते” इत्यान्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात्
चत्वार आश्रमा इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतानन्धपङ्ग्वादिविषया भविष्यति
न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारः । नापि पङ्गोर्विष्णुक्रमणाद्युपेते कर्मण्य
धिकारः । तस्माच्चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्तीति
प्राप्ते ब्रूमः । अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्य
त्वात् । न च वीरघातदोषः । उत्सन्नाग्निविषयत्वाद्वीरहत्यायाः । यत्त्वन्धविषयत
स्मृतेरुक्तं तदसत् । “अथ पुनरव्रती वा व्रती वाऽस्नातको वा स्नातको वोत्सन्नाग्निरन
ग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति विरक्तानां गार्हस्थ्यानधिकृतानां पृथ
क्संन्यासविधानात् । न च चक्षुरादिपाटववतामाश्रमान्तरविध्यभावः । जाबालश्रुतौ
प्रत्यक्षविध्युपलम्भात्—‘‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्” इति
तस्मादस्त्याश्रमान्तरम्” ।
तत्रैवान्यच्चिन्तितम्—
“लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ।
यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥
त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानाधिकृत्य सर्व एते पुण्यलोका भवन्तीत्याश्रमानु
ष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृतत्वमेतीति मोक्षसाधनत्वे[न] ब्रह्मनिष्ठ

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ९०३
प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रमक-
र्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात् । न हि लोककामी ब्रह्म न
जानीयादिति निषेधोऽस्ति । तस्मादस्ति सर्वस्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः
ब्रह्मनिष्ठा नाम सर्वव्यवहारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः । न
चासौ कर्मशूरे संभवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यागिन
एव ब्रह्मनिष्ठेति स्थितिः ” ।
अस्मिन्नर्थे श्रुतिस्मृतिवाक्यानि संक्षिप्य प्रदर्श्यन्ते—
“त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।
त्यजन्तैव हि विज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नर्रान् ।
ततस्ते कर्मसूयुक्ताः प्रा(प्र)वर्तन्ते विचक्षणाः ॥
अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः ।
हत्वाऽविद्यां धिया प्राप त(यैवेयात्त)द्विष्णोः परं पदम्” ॥
इति भाल्लविशाखायामामनन्ति ।
“सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखी(स्वा) ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः” ॥
इत्याथर्वणिका आमनन्ति ।
“कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञान्यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः” ॥
इति बाष्कलशाखायामामनन्ति ।
“स शिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् ।
त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टब्धमुपानहौ ।
शीतोपघातिनीं कन्थां कौपिनस्य तु च्छादनम् ॥
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः” ॥
इति कठा आमनन्ति ।

५०४ परिशिष्टत्वेन संगृहीतः— [ अनु० ८० ]
“अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय
भवति” इति जाबालिका आमनन्ति । “अथ परिव्राडेकशाटी[परिवृतो] मुण्डोदर-
पात्र्यरण्यनित्यो भिक्षार्थं ग्रामं प्रविशेद्ग्रासायं प्रदक्षिणेनाविचिकित्सन्सार्ववर्णिकभैक्षाचर-
णमभिशस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवं दण्डमाददीत” इति
मैत्रायणीशाखायामामनन्ति । “कन्थाकौपीनोत्तरासङ्गानां त्यागिनो यथाजातरूप-
धरा निर्ग्रन्था निष्परिग्रहाः” इति संवर्तश्रुतिः । “गृहस्थो ब्रह्मचारी वानप्रस्थो [वा]
लौकिकाग्नीनुदराग्नौ समारोपयेद्गायत्रीं च स्वमुखाग्नौ समारोपयेदुपवीतं भूमौ वाऽप्सु
वा विसृजेत्” इति वारुणीश्रुतिः ।
“यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥
एतद्द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥
यदा तु विदितं तत्स्यात्परं ब्रह्म सनातनम् ।
तदैकदण्डं संगृह्य उपवीतं शिखां त्यजेत्” ॥
इत्यादयः स्मृतय उदाहार्याः ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्य एकोनाशीतितमोऽनुवाकः ॥ ७९ ॥

अथाशीतितमोऽनुवाकः ।
संन्यासस्यैव ब्रह्मज्ञानं प्रत्यन्तरङ्गसाधनत्वाज्जिज्ञासोः संन्यास एव युक्तो न तु कर्मा-
नुष्ठानमित्युक्तम् । तर्हि निष्पन्ने तत्त्वसाक्षात्कारे कर्माण्यनुष्ठीयन्तामित्येतां शङ्कां
निवारयितुं तत्त्व[ज्ञानि]व्यवहाराणां लौकिकानां सर्वेषां यागरूपत्वमुच्यते । न हि
यागस्य यागाधिकारशङ्काऽस्ति । अतोऽस्मिन्ननुवाके पूर्वभागे योगिनोऽवयवा यज्ञा-
ङ्गद्रव्यत्वेनाऽऽम्नायन्ते—
तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒ऽऽत्मा यज॑मानः श्र॒द्धा
पत्नी॒ शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दः
शिखा॒ हृद॑यं॒ यूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽ-
ग्निर्द॑मः शमयि॒ता दक्षि॑णा वाग्घोता॑ प्रा॒ण उद्गा॒ता
चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीत्—, इति ॥

Here is the complete and accurate line-by-line transcription of the provided page, preserving the original Vedic svara accents, text divisions, and punctuation:

तस्य पूर्वोक्तस्य संन्यासिन एवं विदुषः पूर्वोक्तेन प्रकारेण ब्रह्मणो महत्त्वं साक्षा-
त्कृतवतो जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यज्ञस्य देहेन्द्रियादिसाक्षी य
आत्मा स एव यजमानसदृशः, तस्य स्वामित्वात् । या तु तदन्तःकरणे श्रद्धा सा
पत्नी । यच्च शरीरं तदिध्मम् । एवमुरआद्यवयवानां वेद्यादिरूपत्वोपचारो योजनीयः ।
यस्तु दमः शमयिता सर्वेन्द्रियोपशमकारी चित्तवृत्तिविशेषस्तस्य दक्षिणारूपत्व-
मुन्नेयम् ।
जघनस्या नुवाकस्य द्वितीयभागेन योगिव्यवहारस्य ज्योतिष्टोमावयवक्रियारूपत्वं
दर्शयति--
याव॒द्‌ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्ध॒विर्यत्पिब॑ति॒
तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदुप॑सदो॒ यत्संच॑र॒त्युप॑-
[

अहर्गणा द्विरात्रादयः । सर्ववेदसं सर्व [ स्व ] दक्षिणाकम् । अत्रैतच्छब्देन
प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमु ( मष्टयु ) पलक्षितं योगिन आयुर्विवक्ष्यते ।
यदायूस्तत्सर्वस्वदक्षिणोपेतं सत्रमित्यर्थः ।
अस्यानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं योगिन उपासीनस्य क्रममुक्तिलक्षणं
फलमाह--
ए॒तद्वै ज॑रामर्यमग्निहो॒त्रꣳ स॒त्रं य ए॒वं वि॒द्वानुद॑ग-
यने प्र॒मीय॑ते दे॒वाना॑मेव म॑हि॒मानं॑ ग॒त्वाऽऽदि॒-
त्यस्य॑ सायुज्यं गच्छत्यथ यो दक्षि॑णे प्र॒मीय॑ते
पि॒तॄणा॑मेव म॑हि॒मानं॑ गत्वा च॒न्द्रम॑सः सायु॑ज्यꣳ
सलो॒कता॑माप्नो॒त्येतौ वै सूर्या॑चन्द्र॒मसो॑र्महि॒मानौ॑
ब्रा॒ह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्रह्म॒णो महि॒-
मान॑माप्नोति॒ तस्मा॑द्ब्रह्म॒णो महि॒मान॑म्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्य-
शीतितमोऽनुवाकः ॥ ८० ॥
जरामरणावधिकं यद्योगिचरितमस्ति त [ देत ] द्वेदोक्ताग्निहोत्रादिसहस्रसंवत्सरसत्रा-
न्तकर्मस्वरूपमित्येवं यः पुमान्‌विद्वानुपासीन उत्तरायणे म्रियते, स उपासको देवा-
नामिन्द्रादीनां महिमानमैश्वर्यं प्राप्य तदूर्ध्वमादित्य [ स्य ] सायुज्यं सहवासं
तादात्म्यं वा भावनातारतम्येन प्राप्नोति । अथ पूर्वोक्तवैलक्षण्येन य उपासको दक्षि-
णायने म्रियते स उपासकः पितॄणामग्निष्वात्तादीनामैश्वर्यं प्राप्य चन्द्रमसः
सायुज्यं पूर्ववत्प्राप्नोति । य एवमेतौ सूर्याचन्द्रमसोर्महिमानावनुभवन्ब्राह्मणस्तत्त्वं(त्र)
सगुणब्रह्मरूपं हिरण्यगर्भं विद्वांस्तल्लोकवासिनामुपदेशिनामुपासीनोऽभिजयति हिर-
ण्यगर्भसाक्षात्काररूपं प्राप्नोति । अ(त)स्मात्साक्षात्कारा[त्त]ल्लोकवासिदेहपातादूर्ध्वं
हिरण्यगर्भलोके गत्वा तत्र ब्रह्मणो हिरण्यगर्भस्य महिमानमैश्वर्यं प्राप्नोति ।
तत्रोत्पन्नब्रह्म[तत्त्व]साक्षात्कारात्तस्माज्ज्ञानाद्ब्रह्मलोकविनाशादूर्ध्वं सत्यज्ञानादिलक्षणस्य
ब्रह्मणो महिमानं महत्त्वं च प्राप्नोति । ( * इत्युपनिषदिति वाक्येन यथोक्तविद्या-
यास्तत्प्रतिपादकस्य ग्रन्थस्य चोपसंहारः क्रियते )

  • धनुश्चिह्नान्तर्गतोऽधिको ग्रन्थः प्रमादात्पतितः ।
    १ ङ. तु. भि. ने(ग) ।

हिरण्यबा-Wait, look at the words in Line 26:वामदे॒वायै॒कमघोरे᳚भ्यस्तत्पुरु॑षाय द्वे द्वे ईशानो॒ नमो॒ हिरण्यबा-Wait! Is there an avagraha or ardhavisarga before हिरण्यबा? Look:नमो॒ हिरण्यबा-orनमो हिरण्यबा-? Let's look between नमो॒andहिरण्यबा: There is no extra character, just नमो॒ हिरण्यबा-. Wait, look at वामदे॒वायै॒कमघोरे᳚भ्यस्तत्पुरु॑षाय द्वे द्वे ईशानो॒`:

  • वामदे॒वायै॒क:
    • वा
    • म
    • दे॒ (line below)
    • वा
    • यै॒ (line below)
    • क
  • मघोरे᳚भ्यः:
    • म
    • घो
    • रे᳚ (double vertical line / svarita / udatta? It looks like two vertical strokes: ᳚ or ॑॑)
    • भ्यः
  • `तत्पुरु॑षाय:
    • त
    • त्पु
    • `रु॑

द्वे नमो॑ रु॒द्रायै॒कं त्वम॑ग्ने द्यु॒भिर्दे॑Wait, look atद्वे द्वे: Between the two द्वे? It is द्वे द्वे. सुप॒र्णाः: anudatta under प॒. प्रा॒णानां॒: anudatta under प्रा॒, anudatta under नां॒. ग्रन्थि॑रसि॒: svarita on न्थि॑, anudatta under सि॒. द्वे द्वे: no accents. नमो॑: svarita on मो॑. रु॒द्रायै॒कं: anudatta under रु॒, anudatta under यै॒? No, look at रु॒द्रायै॒कं: रु॒has anudatta.द्रायै॒कं: anudatta under यै॒? Yes, horizontal line under यै. Svarita on कं? No, look at रु॒द्रायै॒कं: svarita on कं॑? No, द्रायै॑कम्? त्वम॑ग्ने: svarita on म॑.
द्यु॒भिर्दे॑: anudatta under द्यु॒, svarita on दे॑.

Line 17:
`शि॒वेन॑ मे॒ संति॑

८० ] सभाष्यो दशमप्रपाठकः । ९०१
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके परिशिष्टत्वेन संगृहीतं दशम-
प्रपाठकभाष्यं समाप्तम् ॥ १० ॥
समाप्तमिदं सपरिशिष्टं सभाष्यं तैत्तिरीयारण्यकम् ।

This page contains no Vedic or Devanagari text; it only bears a library seal:

RAMAKRISHNA MISSION INSTITUTE OF CULTURE
LIBRARY
★ CALCUTTA ★

The provided image is completely blank and contains no text to transcribe. Please upload a clear image of the manuscript or page.

इस पृष्ठ पर कोई वैदिक मन्त्र अथवा देवनागरी पाठ उपलब्ध नहीं है। पृष्ठ पर केवल पुस्तकालय की एक अण्डाकार मुहर (Library Stamp) अंकित है:

[RAMAKRISHNA] MISSION INSTITUTE OF CULTURE
LIBRARY
★ CALCUTTA ★

The provided image is completely blank and contains no text. Please upload an image with visible text to transcribe.

अस्मिन् पृष्ठे कोऽपि वैदिकः/देवनागरी ग्रन्थपाठो न दृश्यते। केवलं पुस्तकालयस्य मुद्रा (Library stamp) अङ्किता वर्तते:

RAMAKRISHNA MISSION INSTITUTE OF CULTURE
LIBRARY
CALCUTTA

The provided image is completely blank (solid white) and does not contain any visible text. Please check and re-upload the image of the page you would like transcribed.