तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 904, कुल 914 में से
संदर्भ में पढ़ेंHere is the complete and accurate line-by-line transcription of the provided page, preserving the original Vedic svara accents, text divisions, and punctuation:
तस्य पूर्वोक्तस्य संन्यासिन एवं विदुषः पूर्वोक्तेन प्रकारेण ब्रह्मणो महत्त्वं साक्षा-
त्कृतवतो जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यज्ञस्य देहेन्द्रियादिसाक्षी य
आत्मा स एव यजमानसदृशः, तस्य स्वामित्वात् । या तु तदन्तःकरणे श्रद्धा सा
पत्नी । यच्च शरीरं तदिध्मम् । एवमुरआद्यवयवानां वेद्यादिरूपत्वोपचारो योजनीयः ।
यस्तु दमः शमयिता सर्वेन्द्रियोपशमकारी चित्तवृत्तिविशेषस्तस्य दक्षिणारूपत्व-
मुन्नेयम् ।
जघनस्या नुवाकस्य द्वितीयभागेन योगिव्यवहारस्य ज्योतिष्टोमावयवक्रियारूपत्वं
दर्शयति--
याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्ध॒विर्यत्पिब॑ति॒
तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदुप॑सदो॒ यत्संच॑र॒त्युप॑-
[