तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
७४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३१-३२]
भूम्यामवस्थितो यः पर्वतो मेरुनामकस्तस्य मूर्धन्युपरिभागे यदुत्तमं शिखरमस्ति
तस्मिन्नियं गायत्री देवी तिष्ठति । तस्मात्कारणाद्धे देवि ब्राह्मणेभ्यस्त्वदुपासकेभ्य-
स्त्वदनुग्रहेण परितुष्टेभ्योऽनुज्ञामभिव्याप्य यथासुखं स्वकीयसुखमनातिक्रम्यं स्वस्थाने
तस्मिन्नुत्तमशिखरे गच्छ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया-
रण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रिंशोऽनुवाकः ॥ ३० ॥
अथैकत्रिंशोऽनुवाकः ।
गायत्रीदेव्या विसर्जनादूर्ध्वं तत्त्वानुस्मरणभूतस्य ब्रह्मण उपस्थानमन्त्रमाह—
ओ॒मन्तश्च॑रति॒ भूते॑षु गुहायां वि॒श्वमू॑र्तिषु ।
त्वं य॒ज्ञस्त्वं विष्णु॒स्त्वं वषट्का॒रस्त्वं
रु॒द्रस्त्वं ब्रह्मा॒ त्वं प्र॒जाप॑तिः, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येक-
त्रिंशोऽनुवाकः ॥ ३१ ॥
विश्वमूर्तिषु देवमनुष्यगन्धर्वादिनानाशरीरयुक्तेषु भूतेषु प्राणिषु गुहायां बुद्ध्याव-
न्तर्मध्य ओं प्रणवप्रतिपाद्यः परमात्मा चरति वर्तते । हे परमात्मन्यो यज्ञो ज्योतिष्टो-
मादिः स त्वमेव । यश्च विष्णुर्जगत्पालको योऽपि वषट्कारो हविःप्रदानमन्त्रो यश्च
रुद्रः संहर्ता यश्च ब्रह्मा जगत्स्रष्टा यश्च प्रजापतिर्दक्षादिः प्रजापालकः स सर्वोऽपि
त्वमेव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषद्येकत्रिंशोऽनुवाकः ॥ ३१ ॥
अथ द्वात्रिंशोऽनुवाकः ।
अथ भोजनादावपां प्राशने मन्त्रमाह--
अ॒मृ॒तो॒प॒स्तर॑णमसि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
[प्रपा० १० अनु० ३२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५७
पीयमान हे जल त्वममृतं विनाशरहितं प्राणदेवताया उपस्तरणमसि । यथा
शयानस्य पुंसो मञ्चकस्योपरितनं पटादिकमुपस्तीर्यते तद्वत्प्राणदेवताया इदमुपस्तरणम् ।
तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवतायो जलवस्त्रत्वमामनन्ति—" तस्माद्-
शिष्यन्नाचामेदशित्वाऽऽचामेदेतमेव तदनमनग्नं कुरुते " इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
जलप्राशनादूर्ध्वं प्राणाहुतिमन्त्रान्दर्शयति—
प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । व्या॒नाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।
ब्रह्म॑णि म आ॒त्माऽमृत॑त्वाय॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥
पञ्चसु शरीरगतवायुभेदेषु मध्ये प्रथमे प्राणनामके वायौ निविष्ट आदरयुक्तोऽह-
ममृतं स्वादुभूतामिदं हविर्जुहोमि प्रक्षिपामि । तच्च प्राणदेवतायै स्वाहा स्वाहुतमस्तु ।
एवमपानादिषु योज्यम् । एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्षाय मे मदीय आत्मा
जीवो ब्रह्मणि परमात्मनि एकी भवत्विति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥
१ झ. ॰ या ब्रह्मणस्तत्त्वमा' । २ ख. 'तद्' । ३ ख. कुर्वन्ति ।
७४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३४-३५]
अथ चतुस्त्रिंशोऽनुवाकः ।
प्राणाहुतिष्वेव विकल्पितानि मन्त्रान्तराणि दर्शयति--
प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाम॑दाहाय ।
प्रा॒णाय॒ स्वाहा॑ । अपा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो
मा॑ वि॒शाप्र॑दाहाय । अपा॒नाय॒ स्वाहा॑ । व्या॒ने निवि॑-
ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒
स्वाहा॑ । उदा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑
वि॒शाप्र॑दाहाय । उदा॒नाय॒ स्वाहा॑ । समा॒ने निवि॑-
ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । समा॒नाय॒
स्वाहा॑ । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥
हूयमान हे द्रव्यविशेष त्वं शिवः शान्तो भूत्वा मां प्रविश। किमर्थम्। अप्रदाहाय
क्षुत्संपादितदाहशान्त्यर्थम् । अन्यत्पूर्ववद्व्याख्येयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥
अथ पञ्चत्रिंशोऽनुवाकः ।
भोजनादूर्ध्वमपां प्राशने मन्त्रमाह—
अ॒मृतापि॒धान॑मसि, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥
पीयमान हे जल त्वममृतमविनश्वरमपिधानमाच्छादकमसि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥
[प्रपा० १० अनु० ३६-३७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४९
अथ षट्त्रिंशोऽनुवाकः ।
भुक्तस्यानुमन्त्रणे मन्त्रमाह—
श्र॒द्धायां प्रा॒णे निवि॑श्या॒मृतꣳ॑ हु॒तम् । प्रा॒णमन्ने॑नाऽऽ-
प्यायस्व । अ॒पा॒ने निवि॑श्या॒मृ॒तꣳ॑ हु॒तम् । अ॒पा॒नमन्ने॑-
नाऽऽप्यायस्व । व्या॒ने निवि॑श्या॒मृतꣳ॑हुतम् । व्या॒न-
मन्ने॑नाऽऽप्यायस्व । उ॒दा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । उ॒दा॒-
नमन्ने॑नाऽऽप्यायस्व । समा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् ।
समा॒नमन्ने॑नाऽऽप्यायस्व । ब्रह्म॑णि म आ॒त्माऽमृ॑तत्त्वाय॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षट्त्रिंशोऽनुवाकः ॥ ३६ ॥
वैदिके कर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निविश्याऽऽदरा-
तिशयं कृत्वाऽमृतमविनश्वरं स्वादुभूतमिदं हविर्मया हुतम् । हे प्राणाभिमानिदेव हुते-
नाभ्नेनाऽऽप्यायस्व वर्धयस्व । स्पष्टमन्यत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि षट्त्रिंशोऽनुवाकः ॥ ३६ ॥
अथ सप्तत्रिंशोऽनुवाकः ।
अनुमन्त्रणादूर्ध्वं हृदयाभिमर्शने मन्त्रमाह—
प्रा॒णानां ग्रन्थिरसि रु॒द्रो मा॑ विशा॒-
न्तकः। तेनान्नेना॑ऽऽप्याय॒स्व, इति॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनि-
षदि सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
हे हृदयवर्तिन्नहंकार त्वं वायुरूपाणामिन्द्रियरूपाणां च प्राणानां ग्रन्थिरसि पर-
स्परमविश्लेषाय ग्रथनहेतुरसि । तादृशस्त्वं रुद्रस्त्वदभिमानिदेवतारूपोऽन्तको दुःखस्य
७५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३८-३९]
विनाशको भूत्वा मा मां विश मच्छरीरे प्रविष्टो भव । तेन मद्भुक्तेनान्नेनाऽऽप्या-
यस्व मामभिवर्धय ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
अथाष्टात्रिंशोऽनुवाकः ।
――――――――――
क्षुधादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वररूपत्वानुसंधाने हेतुभूतं
मन्त्रं दर्शयति—
अ॒ङ्गुष्ठमा॒त्रः पुरु॑षोऽङ्गु॒ष्ठं च॑ समा॒श्रितः॑ ।
ईशः॒ सर्व॑स्य॒ जग॑तः प्रभुः ²प्रीणातु॑ वि॒श्व॒भुक्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्यष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
हृदयमध्यगत आकाशः स्वाङ्गुष्ठपरिमितः । तत्र वर्तमाना बुद्धिरपि तावती
तयाऽवच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः । स च स्वकीयया ज्ञानक्रियाशक्त्याऽ
ङ्गुष्ठं समाश्रितः । चकारान्मस्तकं चाऽऽश्रितः । आपादमस्तकव्यापीत्यर्थः । स चोपा
धिसंबन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सर्वस्य जगत ईशो नियन्ता । अत एव
विश्वभुक्सर्वं जगद्भुङ्क्ते । तादृशः स प्रभुरीश्वरः प्रीणातु, अनेन भोजनेन प्री³तो भवतु ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्यष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
अथैकोनचत्वारिंशोऽनुवाकः ।
जीवात्मन ईश्वरेणाभेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनमतं
मेधाभिमानिदेवतां प्रार्थयितुमेकामृचमाह—
मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॒द्विश्वा॑ची भ॒द्रा
सु॒मन॒स्यमा॑ना । त्वया॒ जुष्टा॒ जुष॑माणा दु॒रु-
――――――――――――――――――――――――
१ ग. ॰धाने हेतुं म॰ । २ ग. झ. प्रीणाति । ३ ग. प्रसन्नो ।
[प्रपा० १० अनु० ४०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५१
क्तांन्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑:, इति ।
ग्रन्थतदर्थयोर्धारणशक्तिर्मेधा, तदभिमानिनी देवी जुषमाणा प्रीयमाणा सती
नोऽस्मान्प्रत्यागादागच्छतु । कीदृशी देवी । विश्वमश्नुत इति विश्वाची सर्वावगाहनक्ष-
मेत्यर्थः । अत एव भद्रा कल्याणी । सुमनस्यमाना शोभनं मनोऽस्मदनुग्राहकामि-
च्छन्ती । हे देवि त्वया जुष्टाऽनुगृहीता वयं दुरुक्ताञ्जुषमाणाः पुरुषार्थानुपयोगिनो
वेदबाह्याञ्शब्दान्सेवमाना वेदैकनिष्ठाः सुवीराः शोभनपुत्रशिष्यादिरूपा विदथे यज्ञेऽ-
नुष्ठिते सति शुद्धान्तःकरणा भूत्वा बृहद्वदेम परब्रह्मतत्त्वं कथयाम ।
तत्रैव द्वितीयामृचमाह—
त्वया॑ जु॒ष्ट ऋ॒षि॑र्भवति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒-
तश्री॑रु॒त त्वया॑ । त्वया॒ जु॒ष्टश्चि॒त्रं वि॑न्दते
वसु॒ नो॑ जुषस्व॒ द्रवि॑णेन मेधे, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
हे देवि मेधाख्ये त्वया जुष्टः सेवितोऽनुगृहीतः पुरुष ऋषिरतीन्द्रियदर्शी भवति ।
तथा त्वया जुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवति । उतापि च त्वया जुष्टः पुरुष
आगतश्रीः प्राप्तसंपद्भवति । अत एव त्वया जुष्टः पुरुषश्चित्रं गवाश्वभूहिरण्यधा-
न्यादिकं विविधं वसु धनं विन्दते लभते । हे मेधे देवि सा तादृशी त्वं नोऽस्मान्द्र-
विणेन धनेन जुषस्व सेवस्वानुगृहाणेत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
अथ चत्वारिंशोऽनुवाकः ।
――――
मेधाप्रदानिन्द्रादीन्प्रार्थयते—
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां
मे॑ अ॒श्विना॑वु॒भौ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजौ, इतिः॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चत्वारिंशोऽनुवाकः ॥ ४० ॥
७५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १०अनु०४१-४२]
योऽयमिन्द्रो देवो या च सरस्वती देवी यौ च पुष्करस्रजौ पद्ममालायुक्तावुभा-
वश्विनौ देवौ ते सर्वे मे मह्यं मेधां प्रयच्छन्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चत्वारिंशोऽनुवाकः ॥ ४० ॥
अथैकचत्वारिंशोऽनुवाकः ।
मेधाप्रदं मन्त्रान्तरं दर्शयति—
अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मन॑: । दैवी॓ मे॒धा
*मनुष्यजा सा मां मे॒धा सु॒रभि॑र्जुष॑ताम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येक-
चत्वारिंशोऽनुवाकः ॥ ४१ ॥
अप्सरासु देवस्त्रीषु या मेधा प्रसिद्धा वर्तते गन्धर्वेषु च देवगायकेषु यन्मनो
मेधात्मकमस्ति दैवी हिरण्यगर्भादिदेवेषु स्थिता या मेधा विद्यते मनुष्यजां मनु-
ष्येषु वेदशास्त्रवित्सु या मेधाऽस्ति सा सर्वा मेधा सुरभिः शोभनगन्धा सर्वकामदुघा
वा भूत्वा मां जुषतां सेवेताम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषद्येकचत्वारिंशोऽनुवाकः ॥ ४१ ॥
अथ द्विचत्वारिंशोऽनुवाकः ।
पुनरपि मेधार्थं मन्त्रान्तरमाह--
आ मां॑ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां मे॒धा सु॒प्रती॑का जु॒षताम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि द्विचत्वारिंशोऽनुवाकः ॥ ४२ ॥
- एतत्पदमनिष्टितस्वरकम् ।
... ३ ग. जुषन्ताम् ।
'प्रपा० १० अनु० ४३-४४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५३
मेधाशक्तिर्मां प्रत्यागच्छत्विति शेषः । कीदृशी मेधा, सुरभिः शोभनगन्धा काम-
दुघा वा । विश्वरूपा सकलवेदशास्त्रधारणक्षमत्वेन बहुरूपा । हिरण्यवर्णा देवता-
शरीरे हिरण्यसमानवर्णोपेता । जगती सर्वत्र वर्तमानत्वेन जगदात्मिका । जगम्या
पुरुषार्थकामैर्भृशं गन्तुं योग्या । ऊर्जस्वती बलवती पयसा गोक्षीरादिरसेन पिन्व-
मानाऽस्मान्प्रीणयन्ती । सा तथाविधगुणयुक्ता मेधा सुप्रतीका सुमुखी भूत्वा मां
जुषतां सेवेताम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि द्विचत्वारिंशोऽनुवाकः ॥ ४२ ॥
अथ त्रिचत्वारिंशोऽनुवाकः ।
मेधाविनः पुरुषस्य ज्ञानोत्पादनाय महादेवसंबन्धिषु पञ्चवक्त्रेषु मध्ये पश्चिमवक्त्र-
प्रतिपादकं मन्त्रमाह—
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भजस्व॒ माम् । भ॒वोद्भा॑वाय॒ नमः॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रिचत्वारिंशोऽनुवाकः ॥ ४३ ॥
सद्योजातनामकं यत्पश्चिमवक्त्रं तद्रूपं परमेश्वरं प्रपद्यामि प्राप्नोमि । तादृशाय
सद्योजाताय वै नमोऽस्तु । हे सद्योजात भवे भवे तत्तज्जन्मनिमित्तं मां न भजस्व
न प्रेरयेत्यर्थः । किं तर्ह्यतिभवे जन्मातिलङ्घननिमित्तं भजस्व तत्त्वज्ञानाय प्रेरय ।
भवोद्भवाय भवात्संसारादुद्धर्त्रे सद्योजाताय नमोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि त्रिचत्वारिंशोऽनुवाकः ॥ ४३ ॥
अथ चतुश्चत्वारिंशोऽनुवाकः ।
उत्तरवक्त्रप्रतिपादकं मन्त्रमाह—
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रेष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॑ का॒लाय॒
१ झ. जुषन्ताम् । २ ख. झ. वै नमो न । ३ झ. भवस्व । ४ झ. भवस्व । ५ झ. भवस्व ।
७५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ४५-४६]
नमः॑ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बल॑प्रमथनाय
नमः॑ सर्व॑भूतदमनाय॒ नमो॑ मनोन्म॑नाय॒ नमः॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चतुश्चत्वारिंशोऽनुवाकः ॥ ४४ ॥
उत्तरवक्त्ररूपो वामदेवस्तस्यैव विग्रहविशेषा ज्येष्ठादिनामकाः । एते च महादेव-
पीठशक्तीनां वामादीनां नवानां पतयः पुरुषाः । तेभ्यो नवभ्यो नमस्कारोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया-
रण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुश्चत्वारिंशोऽनुवाकः ॥ ४४ ॥
अथ पञ्चचत्वारिंशोऽनुवाकः ।
दक्षिणवक्त्रप्रतिपादकं मन्त्रमाह—
अघोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्व॑तः शर्व॒ सर्वे॑भ्यो॒ नम॑स्ते अस्तु रुद्ररू॒पेभ्यः॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चचत्वारिंशोऽनुवाकः ॥ ४५ ॥
अघोरनामको दक्षिणवक्त्ररूपो देवस्तस्य विग्रहा अघोराः सात्त्विकत्वेन शान्ताः ।
अन्ये तु घोरा राजसत्वेनोग्राः । अपरे तु तामसत्वेन घोरादपि घोरतराः । हे शर्व पर-
मेश्वर ते त्वदीयेभ्यः पूर्वोक्तेभ्यस्त्रिविधेभ्यः सर्वेभ्यो रुद्ररूपेभ्यः सर्वतः सर्वेषु देशेषु
सर्वेषु च कालेषु नमोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि पञ्चचत्वारिंशोऽनुवाकः ॥ ४५ ॥
अथ षट्चत्वारिंशोऽनुवाकः ।
─────
प्राग्वक्त्रप्रतिपादकं मन्त्रमाह—
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
─────────────── १ घ. सर्वेभ्यः सर्व शर्व॑ ।
[प्रपा० १० अनु० ४७-४८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५५
तन्नो॑ रु॒द्रः प्र॒चोद॑यात् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षट्चत्वारिंशोऽनुवाकः ॥ ४६ ॥
प्राग्वक्त्रदेवस्तत्पुरुषनामकः । द्वितीयार्थे चतुर्थी । तत्पुरुषं देवं विद्महे गुरुशा-
स्त्रमुखाज्जानीमः । ज्ञात्वा च महादेवाय तं महादेवं धीमहि ध्यायेम । तत्तस्मात्कार-
णाद्रुद्रो देवो नोऽस्मान्प्रचोदयाज्ज्ञानध्यानाथै प्रेरयतु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि षट्चत्वारिंशोऽनुवाकः ॥ ४६ ॥
अथ सप्तचत्वारिंशोऽनुवाकः ।
ऊर्ध्ववक्त्रप्रतिपादकं मन्त्रमाह —
ईशा॑नः सर्व॑विद्यानामीश्वरः सर्व॑भूतानां॒ ब्रह्माधि॑पति॒र्ब्रह्म॑-
णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तचत्वारिंशोऽनुवाकः ॥ ४७ ॥
योऽयमूर्ध्ववक्त्रो देवः सोऽयं सर्वविद्यानां वेदशास्त्रादीनां चतुःषष्टिकलाविधा-
नामीशानो नियामकः । तथा सर्वभूतानामाखिलप्राणिनामीश्वरो नियामकः । ब्रह्मा-
धिपतिर्वेदस्याधिकत्वेन पालकः । तथा ब्रह्मणो हिरण्यगर्भस्याधिपतिः, तादृशो यो
ब्रह्माऽस्ति प्रवृद्धः परमात्मा सोऽयं मे ममानुग्रहायै शिवः शान्तोऽस्तु । सदाशिवों
स एव सदाशिव ओमहं भवामि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि सप्तचत्वारिंशोऽनुवाकः ॥ ४७ ॥
अथाष्टचत्वारिंशोऽनुवाकः ।
इत्थं तत्त्वज्ञानस्योत्पादकाः पञ्चवक्त्रप्रतिपादकाः पञ्च ब्रह्ममन्त्रा उक्ताः । अथ
ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवस्त्रिसुपर्णनामका मन्त्रा वक्तव्याः, तत्र प्रथमं
मन्त्रमाह —
ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।
१ झ. ॰न्तो नायकं ति॑ ।
७५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०१०अनु०४८]
यास्ते॑ सोम प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् । दुष्ष्व॑-
प्न॒हन्दु॑रु॒ष्वह॑ । यास्ते॑ सोम॒ प्राणा॒ꣳस्ताञ्जु॑होमि, इति ।
ब्रह्मं परब्रह्मतत्त्वं मामेतु प्राप्नोतु । मध्वं परमानन्दलक्षणमाधुर्योपेतं वस्तु मामेतु
प्राप्नोतु । न चात्र ब्रह्ममधुशब्दयोरत्यन्तमर्थभेदः, किं तर्हि ब्रह्ममेव मध्वं शब्दद्वयप्र-
तिपाद्यमखण्डैकरसं वस्तु मामेतु प्राप्नोतु । हे सोम, उमा ब्रह्मविद्या तया सह वर्तमान
परमात्मंस्ते तव याः प्रजा देवमनुष्यादयः सन्ति ता अभिलक्ष्य सो अहं स तादृश-
स्त्वत्सेवकोऽहं वत्सो बाल एतासां त्वदीयप्रजानां मध्ये बालवदहं त्वदीयकरुणा-
योग्यः । अतो हे दुष्ष्वप्नहन्संसाररूपस्य दुःस्वप्नस्य घातक परमेश्वर दुरुष्वह दुःखमु-
त्कर्षेणाभिभव । वर्णविकारश्छान्दसः । हे सोम परमात्मंस्ते त्वदीयाः प्राणवृत्तयो
याः सन्ति तान्वृत्तिप्राणांस्त्वयि जुहोमि प्रक्षिपामि मदीयमनोवागादयः प्राणास्त्वया
निर्मितत्वात्त्वदीया अतस्त्वय्येवोपसंहरामि विषयेभ्य इन्द्रियाणि निरुध्य त्वदेकचित्तो
भवामीत्यर्थः ॥
उक्तस्य त्रिसुपर्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण वाक्येन दर्शयति—
त्रि॒सु॒प॒र्णमया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां वा
ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रि॑सुप॒र्णं पठ॑न्ति । ते सोमं॑
प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात्प॒ङ्क्तिं पु॑नन्ति । ओम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष-
द्यष्टचत्वारिंशोऽनुवाकः ॥ ४८ ॥
विद्यान्तराणि सर्वाणि “नापृष्टः कस्यचिद्ब्रूयात्” इतिशास्त्रमनुसृत्य शिष्येण याच्ञायां
कृतायां पश्चादुपदिशन्ति । इमं तु त्रिसुपर्णमन्त्रं शिष्ययाच्ञामन्तरेणैव ब्राह्मणा-
योपदिशेत् । तेनोपदेशेन ये ब्राह्मणास्त्रिसुपर्णं पठन्ति त्रिसुपर्णमन्त्रं सर्वदा जपन्ति,
एते पुरुषा ब्रह्महत्यां विनाशयन्ति । ततस्ते निष्पापाः सन्तः सोमयागं प्राप्नुवन्ति ।
ते यस्यां ब्राह्मणपङ्क्तौ भोजनार्थमुपविशन्ति तां पङ्क्तिं सहस्रब्राह्मणपर्यन्तां पुनन्ति
शुद्धां कुर्वन्ति । तस्मादों प्रणवप्रतिपाद्यः परमात्मैव त्रिसुपर्णमन्त्रस्य देवतेत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्यष्टचत्वारिंशोऽनुवाकः ॥ ४८ ॥
.. न्नो । ५ झ. ॰दीया म॑ ।
or र्५ or ५॑?
Wait, let's look at ꣳ vs ५:
Wait, what is ꣳ (U+A8F3)?
ꣳ is specifically encoded in Unicode for this Taittiriya gumkāra!
In the Unicode proposal for Vedic characters (L2/07-343):
"DEVANAGARI SIGN CANDRABINDU VIRAMA (gumkara): This character is used in Taittiriya texts to mark the gumkara / anunasika. In printed texts, especially from Poona/Wai, it is often printed as candrabindu + digit 5 (or a glyph resembling 5)."
Yes!! The Unicode proposal explicitly states:
"In printed editions (such as Anandashram and Vaidika Samsodhana Mandala), gumkara is represented by a candrabindu over digit 5, or candrabindu + 5, or a sign derived from 5."
And for nasalized repha, it is gumkara with repha: ꣳर् or र्ꣳ!
Wait, but if someone reads the transcription, writing ५ or ꣳ?
Let's see: if we write ५, it matches the visual glyph exactly!
Wait, let's look at L7: दु॒ष्ष्वप्न्यं५ सुव or दु॒ष्ष्वप्न्यँ५ सुव or `दु॒ष्ष्व
७५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ५१]
ब्रह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो
मृ॒गाणा॑म् । श्ये॒नो गृध्रा॑णा॒ꣳ॒ स्वाधि॑ति॒र्वना॑ना॒ꣳ॒ सोम॑:
प॒वित्र॒मत्ये॑ति॒ रेभन्॑ । हꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑
वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सद् ऋ॑त॒सद् व्यो॑म॒सद॒ब्जा
गो॒जा ऋ॒त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति ।
मेधवा मेधो यज्ञः सोऽस्यास्तीति मेधवान् । यज्ञदानादिसाध्यविविदिषापूर्वकत्वाद्ब्र-
ह्मज्ञानलाभस्य ब्रह्म मेधवदित्युच्यते । अन्यत्पूर्ववत् । “ ब्रह्मा देवानां ” “ हँसः
शुचिषत् ” इत्यादिके द्वे ऋचावणोरणीयानित्यनुवाके व्याख्याते ।
अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति—
य इ॒दं त्रि॑सुप॒र्णमया॑चितं ब्राह्मणा॑य द॒द्यात् । वी॒र॒हत्यां॑
वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रि॑सुप॒र्णं पठ॑न्ति । ते सोमं॑
प्राप्नु॑वन्ति । आ॒स॒हस्रात्प॒ङ्क्तिं पु॑नन्ति । ओम्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चाशत्तमोऽनुवाकः ॥ ५० ॥
वेदशास्त्रतदनुष्ठानपरो ब्राह्मणोऽभिषिक्तो राजा वा वीरः । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि पञ्चाशत्तमोऽनुवाकः ॥ ५० ॥
अथैकपञ्चाशत्तमोऽनुवाकः ।
ब्रह्मज्ञानप्रतिबन्धकानि यानि महापातकानि तन्निवृत्तये जप्यास्त्रिसुपर्णमन्त्रास्त्रयं
भिहिताः । तत्र ब्राह्मणजातिमात्रवधो ब्रह्महत्या पञ्चसु महापातकेषु मध्ये प्रबलं म-
पातकम् । ततोऽप्यधिकं भ्रूणहननम् । तस्मादप्यधिकं वीरहननम् । ईदृशानामपि नि-
र्तको यावज्जीवं त्रिसुपर्णजपस्तत्रावाचीनानां सुरापानादिपातकानां निवर्तक इति किं
वक्तव्यम् । इत्थं प्रतिबन्धनिवृत्त्युपायमुक्त्वा ज्ञानयोग्यतायै स्वावयवशुद्ध्यर्थं होमा-
नेकादश मन्त्रानेकादशस्वनुवाकेषु क्रमेण विवक्षुराद्यं मन्त्रमाह—
प्रा॒णा॒पा॒न॒व्या॒नो॒दा॒नस॑मा॒ना मे॑ शुध्यन्तां॒ ज्योति॑-
-
- 'अ=उपवेश्या मित्रं' ।
[प्रपा० १० अनु० ५२-५३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् ७५९
र॒हं वि॒रजा॑ वि॒पाप्मा भूयास॒५ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कपञ्चाशत्तमोऽनुवाकः ॥ ५१ ॥
प्राणादयः पञ्च वायवः प्रसिद्धाः । ते सर्वेऽप्येनेनाऽऽज्यहोमेन शुद्धा भवन्तु ।
ततोऽहं विपाप्मा प्रतिबन्धकोपपातकरहितो विरजाः पापकारणभूतरजोगुणेनापि रहितः
सन् यज्ज्योतिर्जगत्कारणं परं ब्रह्म तद्वस्तु भूयासं तदर्थमिदमाज्यं स्वाहुतमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषद्येकपञ्चाशत्तमोऽनुवाकः ॥ ५१ ॥
अथ द्विपञ्चाशत्तमोऽनुवाकः।
द्वितीयं मन्त्रमाह—
वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकू॑तिः संकल्पा मे॑
शु॒ध्यन्तां ज्योति॑रहं वि॒रजा॑ वि॒पाप्मा भू॑यास॒५ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्विपञ्चाशत्तमोऽनुवाकः ॥ ५२ ॥
वागादीनीन्द्रियाणि । रेतो गुह्येन्द्रियम् । मनःशब्दवाच्यस्यान्तःकरणस्यैव निश्च-
यात्मिका वृत्तिर्बुद्धिः । अनिश्चयरूपा वृत्तिराकूतिः । इदं समीचीनमितिकल्पनारूपा
वृत्तिः संकल्पः । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि द्विपञ्चाशत्तमोऽनुवाकः ॥ ५२ ॥
अथ त्रिपञ्चाशत्तमोऽनुवाकः।
तृतीयं मन्त्रमाह —
शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिश्नोपस्थपायवो मे॑ शु॒ध्यन्तां
७६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१०अनु०५४-५५]
ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा भू॑यासं॒ स्वाहा॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रिपञ्चाशत्तमोऽनुवाकः ॥ ५३ ॥
पूर्वाभ्यामनुवाकाभ्यां सूक्ष्मशरीरशुद्धिरुक्ता । अत्र स्थूलशरीरावयवानां शिरःपाण्यादीनां
शुद्धिरुच्यते । लिङ्गाण्डभेदविवक्षया शिश्नोपस्थशब्दौ द्वौ द्रष्टव्यौ । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि त्रिपञ्चाशत्तमोऽनुवाकः ॥ ५३ ॥
अथ चतुष्पञ्चाशत्तमोऽनुवाकः ।
चतुर्थं मन्त्रमाह—
त्वक्च॑र्ममाग्ँसरुधिरमेदोमज्जास्नावयोऽस्थीनि मे॑ शुध्य॒न्तां
ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा भू॑यासं॒ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुष्पञ्चाशत्तमोऽनुवाकः ॥ ५४ ॥
अत्र स्थूलशरीरगतानां धातूनां शुद्धिरुच्यते । एकस्यैव धातोर्बाह्यान्तर्भागविवक्षया
त्वक्चर्मशब्दौ प्रयुक्तौ । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुष्पञ्चाशोऽनुवाकः ॥ ५४ ॥
अथ पञ्चपञ्चाशोऽनुवाकः ।
पञ्चमं मन्त्रमाह—
शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां ज्योति॑-
र॒हं वि॒रजा॑ वि॒पाप्मा भू॑यासं॒ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चपञ्चाशत्तमोऽनुवाकः ॥ ५५ ॥
• घ. 'नीने स्थिता' २ ख. 'रस्थिता' ।
[प्रपा० १० अनु० ५६-५७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७६१
शरीरोपादानपञ्चमहाभूतेष्वाकाशादिषु वर्तमाना गुणाः शब्दादयः । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामु-
पनिषदि पञ्चपञ्चाशत्तमोऽनुवाकः ॥ ५५ ॥
अथ षट्पञ्चाशोऽनुवाकः ।
षष्ठं मन्त्रमाह—
पृ॒थि॒व्यप्तेजो॑वा॒युरा॒काशा॑ मे॒ शुध्य॑न्तां॒ ज्योति॑-
र॒हं वि॒रजा॑ वि॒पाप्मा॑ भूया॒सꣳ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि षट्पञ्चाशत्तमोऽनुवाकः ॥ ५६ ॥
शरीरस्योपादानकारणानि पञ्च महाभूतानि पृथिव्यादीनि । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि षट्पञ्चाशत्तमोऽनुवाकः ॥ ५६ ॥
अथ सप्तपञ्चाशत्तमोऽनुवाकः ।
सप्तमं मन्त्रमाह—
अन्न॑मयप्राणमयम॑नोमयवि॒ज्ञान॑मया॒नन्द॑मया मे॒ १ शुध्य॑न्तां॒
ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा॑ भूया॒सꣳ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि सप्तपञ्चाशत्तमोऽनुवाकः ॥ ५७ ॥
अन्नमयादयः पञ्च कोशा वारुण्यामुपनिषद्युक्ताः । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि सप्तपञ्चाशत्तमोऽनुवाकः ॥ ५७ ॥
१ ख. झ. °मयमानन्दमयात्मा मे ।
७६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ५८-६०]
अथाष्टपञ्चाशत्तमोऽनुवाकः ।
अष्टमं मन्त्रमाह --
वि॒वि॒द्वि॒ष्ट्यै॒ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्यष्टपञ्चाशत्तमोऽनुवाकः ॥ ५८ ॥
“विष्ऌ व्याप्तौ” इति धातोरुत्पन्नोऽयं शब्दः । विशेषेण विष्टिर्व्याप्तिर्यस्य ब्रह्म-
णस्तद्विविष्टिः । छान्दसः पकारस्य टकारः । तादृशं ब्रह्मोद्दिश्य स्वाहुतमिदमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्यष्टपञ्चाशत्तमोऽनुवाकः ॥ ५८ ॥
अथैकोनषष्टितमोऽनुवाकः ।
नवमं मन्त्रमाह—
क॒षोत्का॑य॒ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्येकोनषष्टितमोऽनुवाकः ॥ ५९ ॥
कष शिष करण इति धातुः । कप्यते क्रियत इति कषो नामरूपकर्मात्मकः कार्य-
प्रपञ्चः, तस्मिन्नुत्कस्तत्क(स्तं क)र्मुत्सुकः कषोत्कः परमेश्वरः, तादृशाय सृष्ट्यभिमुखाय
परमेश्वराय स्वाहा स्वाहुतमिदमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषद्येकोनषष्टितमोऽनुवाकः ॥ ५९ ॥
अथ षष्टितमोऽनुवाकः ।
दशमं मन्त्रमाह—
उत्ति॑ष्ठ पुरुष ह॒रित॑ लोहि॑त पिङ्गलाक्षि दे॒हि दे॒हि ददा॑पयिता॒
मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा भू॑यास॒ꣳ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षष्टितमोऽनुवाकः ॥ ६० ॥
१ ग ॰त. पिङ्गललोहिताक्षि ।
[प्रपा० १० अनु० ६१-६२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७६३
विविष्टिशब्दाभिधेयं यद्ब्रह्म तदेव कारणोपाधिकं कपोल्कशब्दाभिधेयम् । पुनरपि
वह्निशरीरोपाधिविशिष्टमत्र पुरुषशब्दाभिधेयम् । तत्र पूर्वाभ्यां मन्त्राभ्यां निरुपाधिकं
कारणोपाधिकं तद्ब्रह्म प्रार्थ्य शुद्धिहेतुत्वेनात्र सर्वकर्मनिष्पादकवह्निशरीरोपाधिकं प्रार्थ्यते।
पुरुष पुरि वह्निशरीरे शयान हे परमात्मन्सृष्टौदासिन्यं परित्यज्य मदनुग्रहार्थमुद्युक्तो
भव । संबुद्ध्यन्तपुरुषशब्दस्यैव हरितादीनि त्रीणि पदानि विशेषणानि । हे हरित प्रति-
बन्धकहरणकुशल हे लोहित रक्तवर्ण हे पिङ्गलाक्षि पिङ्गलनयन देहि देहि पुनः पुनः
शुद्धिं मे प्रयच्छ। ददापयिताऽऽचार्यमुखात्तत्त्वज्ञानस्यातिशयेन दापयिता भवेति शेषः ।
तस्य दापयितव्यस्य ज्ञानस्योत्पत्तये मे मदीयाश्चित्तवृत्तयः शुध्यन्ताम् । ज्योतिरि-
त्यादि पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि षष्टितमोऽनुवाकः ॥ ६० ॥
अथैकषष्टितमोऽनुवाकः ।
एकादशं मन्त्रमाह —
ॐ *स्वाहेति, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कषष्टितमोऽनुवाकः ॥ ६१ ॥
ओं प्रणवप्रतिपाद्यं वस्तु भवामि तदर्थमिदं स्वाहुतमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषद्येकषष्टितमोऽनुवाकः ॥ ६१ ॥
अथ द्विषष्टितमोऽनुवाकः ।
ज्ञानप्रतिबन्धकमहापातकोपपातकपरिहारेण ज्ञानयोग्यतालक्षणां शुद्धिमुक्त्वा योग्यस्य
पुरुषस्यापेक्षितेषु ज्ञानसाधनेषु संन्यासस्य निरतिशयोत्कर्षं वक्तुं सत्यादीन्येकादशोत्कृ-
ष्टसाधनानि प्रतियोगित्वेन वक्तव्यानि । त
७६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ६२]
क॒दाच॑न स॒ताꣳ हि स॒त्यं तस्मा॑त्स॒त्ये र॑मन्ते—, इति ।
यद्वस्तु प्रमाणेन यथा दृष्टं तस्य तथैवाभिवदनं सत्यं तच्च परं पुरुषार्थसाधनेषूत्कृ-
ष्टम् । तत्राऽऽदरार्थं परं सत्यमिति पुनर्वचनम् । यद्वा परं ब्रह्म सत्यमबाध्यं तद्व्य-
थार्थवचनमपि बाधरहितमिति व्यावहारिकबाधराहित्येनोत्कर्षं विवक्षित्वा दृष्टान्तेन परं
सत्यमित्युक्तम् । सत्येन यावज्जीवं यथार्थकथनेन स्वर्गलोकात्कदाचिदपि न प्रच्य-
वन्ते । अनृतवादिनस्तु केनचित्पुण्येन स्वर्गं प्राप्याप्यनृतवदनदोषेण कर्मफलं संपूर्णत-
याऽननुभूयैव स्वर्गात्प्रच्यवन्ते । किंच हि यस्मात्कारणात्सतां सन्मार्गवर्तिनामृष्यादीनां
संबन्धि यथार्थवादित्वं तस्मात्कारणात्सतामिदमिति व्युत्पत्तिमाश्रित्य सत्यवादित्वमेव
परमं मोक्षसाधनमिति केचिन्महान्तो वदन्तस्तस्मिन्नेव सत्ये रमन्ते क्रीडन्ति ।
एकं मतमुक्त्वा द्वितीयं मतमाह—
तप॒ इति॒ तपो॒ नान॑श॒नात्परं॒ यद्धि परं॒ तप॒स्तद्दु॒-
र्ध॒र्षं तद्दु॑राध॒र्षं तस्मा॒त्तप॑सि रमन्ते—, इति ।
तपः परं मोक्षसाधनमिति केषांचिन्मतम् । तीर्थयात्राजपहोमादीनि यद्यपि बहूनि
तपांसि सन्ति तथाऽपि तेषु सर्वेष्व*नशनादुपवासैकभक्तादिरूपादशनवर्जनात्परमुत्कृष्टं
तपो नास्ति । यद्यच्चानशनरूपं कृच्छ्रचान्द्रायणादिकं परं तपोऽस्ति तद्दुर्धर्षं धर्षितुं
सोढुमशक्यम् । अत एवाऽऽ समन्तात्सर्वेषां प्राणिनां तत्तपो दुर्धर्षं दुःखमित्यनुभूयते ।
तस्मात्करणात्केचन श्रद्धालवः कृच्छ्रचान्द्रायणादिके तपसि रमन्ते ।
तृतीयं मतमाह—
दम॒ इति॒ निय॑तं ब्रह्मचारिण॒स्तस्मा॒द्दमे॑ रमन्ते—, इति ।
वाक्चक्षुरादीन्द्रियाणां बाह्यानां निषिद्धेभ्यो विषयेभ्यो निवृत्तिर्दमः, स एवोत्तमो
मोक्षहेतुरिति +मन्यमाना नैष्ठिकब्रह्मचारिणो नियतं सर्वदा वदन्ति । तस्माद्दमे
रमन्ते ।
चतुर्थं मतमाह—
शम॒ इत्यर॑ण्ये मु॒नय॒स्तस्मा॒च्छमे॑ रमन्ते—, इति ।
अन्तःकरणस्य क्रोधादिदोषराहित्यं शमः, स एवोत्तमो मोक्षहेतुरित्यरण्ये वर्तमाना
मुनयो वानप्रस्था मन्यन्ते । तस्मात्ते शमे रमन्ते ।
- अत्र सकलादर्शपुस्तकेष्वननशनमित्येव पाठः । + मन्यमाना इत्याधिकम् । यद्वा मन्यमाना
इति परित्यज्य वदन्तीत्यस्य स्थाने मन्यन्त इति पाठ्यम् ।
.प्रपा०१०अनु०६२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७६५
पञ्चमं मतमाह—
दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्रश॒ꣳसन्ति॑
दा॒नान्नाति॑दु॒ष्करं॒ तस्मा᳚द्दा॒ने र॑मन्ते— , इति ।
गोहिरण्यादीनां स्वकीयानां शास्त्रोक्तवर्त्मना स्व[स्व]त्वपरित्यागपुरःसरं परस्वत्वा-
पादनं दानं तदेवोत्तमं मोक्षसाधनं मत्वा सर्वे प्राणिनः प्रशंसन्ति । दानादतिशयितं
दुष्करं नास्ति । धनरक्षणार्थं प्राणानपि परित्यजतां पुरुषाणामुपलम्भात् । तस्माद्गोभू-
म्यादिदाने रमन्ते ।
षष्ठं मतमाह—
ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं धर्मो-
न्नाति॑दु॒श्चरं॑ तस्मा᳚द्ध॒र्मे र॑मन्ते— ,इति ।
स्मृतिपुराणप्रतिपाद्यो वापीकूपतडागादिनिर्माणरूपोऽत्र धर्मो विवक्षितः । स
एवोत्तमो मोक्षहेतुरिति राजामात्यादयः प्रभवो मन्यन्ते । तडागादिरूपेण धर्मेण
सर्वमिदं जगत्परिगृहीतम् । *सर्वेऽपि मनुष्यपश्वादयः स्नानपानादिना तुष्यन्ति ।
तादृशाद्धर्मादन्यदतिदुश्चरं नास्ति । तस्मात्कारणाद्धर्मे रमन्ते प्रभवः ।
सप्तमं मतमाह--
प्र॒जन॒ इति॒ भूया॑ꣳस॒स्तस्मा᳚द्भूयि॑ष्ठाः प्र॒जाय॑न्ते
तस्मा᳚द्भूयि॑ष्ठाः प्र॒जन॑ने॒ रमन्ते— , इति ।
प्रजनः पुत्राद्युत्पादनं तस्यैवोत्त+मसाधनत्वं भूयांसोऽतिबहवः प्राणिनो मन्यन्ते ।
धनिकैर्दरिद्रैः शिष्टैरनिष्टैः पण्डितैश्च सर्वैरपि पुत्रोत्पादनायातिशयेन =प्रयत्यमानत्वात् ।
तस्मादेकैकस्य पुरुषस्य भूयिष्ठा द्वित्राः पञ्चषा इत्येवं बहवोऽपत्यविशेषा उत्पद्यन्ते ।
तस्मात्कारणाद्भूयिष्ठा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते ।
अष्टमं मतमाह—
अ॒ग्नय॒ इत्या॑हु॒स्तस्मा॑द॒ग्नय॒ आधा॑तव्याः— , इति ।
- अस्य यत इत्यादिः । + मोक्ष प्रतीत्यार्थिकः शेषः । = प्रयातयमानत्वादिति पाठ्यम् ।
ह्रस्वपाठस्तु प्रामादिकः । वाक्यस्यासाधुत्वापत्तेः । धनिकादीनां सर्वेषामित्यार्थिकोऽध्याहारः । तथा
च येऽन्यानप्रयोजयन्ति ते स्वयं कुर्वन्तीति किमु वक्तव्यम् । तेषां च पुत्राद्युत्पादनस्य
मुख्यसाधनत्वग्रहाभावे स्वयं तद्यत्नं न कुर्युः परैश्च तं न कारयेयुः । तस्मात्पूर्वोक्तो ग्रहोऽस्त्येव तेषा-
मित्यशियः । प्रयत्नस्याऽऽहृतत्वादिति वा पाठः कल्पनीयः । धनिकादिपदेषु षट्सु षष्ठ्यन्ततां प्रकल्प्य
ख. पुस्तकस्थः प्रयतमानत्वादिति शोधितपाठ एव वा स्वीकार्यः ।
०- ०गिमो चि॑ि' । ब "ष्टा भूयिष्ठाः प० ।