सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

।प्र०७ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४५५
गृहीतालोकमध्यवर्तिनं मृगेन्द्रं दृष्ट्वा सिंहोऽयमिति प्रतिपद्यते सोऽयं मुख्यः सिंहः ।
एवं सत्यत्र राजा भद्रसेने स्वस्माद्भेदं पश्यन्नेव धनरक्षणादिरूपं स्वकीयं गुणं
तस्मिन्नवलोक्य ममाऽऽत्मा भद्रसेन इति प्रयुङ्क्तेऽतोऽयं गौणात्मा । नापि द्वितीयः ।
अहं मनुष्य इत्यादिप्रत्ययस्य देहगोचरत्वेन मिथ्यात्मविषयत्वात् । द्विपात्त्वाद्याका-
रात्तादात्म्यान्मनुष्यत्वाख्या महाजातिः । विशिष्टमातापितृजन्यत्वगम्या ब्राह्मणत्वा-
द्याऽवान्तरजातिः । उपनयनादिसंस्कारगम्यो ब्रह्मचारित्वाश्रम इत्येते स्थूलदेह-
धर्माः । स्थूलदेहस्य चानात्मत्वं चार्वाकव्यतिरिक्तानां सर्वेषामपि तैर्थिकानामविवादम् ।
तस्मादात्मदेहयोर्विद्यमानस्यैव भेदस्य प्रतीत्यभावादहं मनुष्य इति प्रत्ययो मिथ्यात्मवि-
षयः ।

४५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०७अनु०१]
श्रुत्यन्तरादस्य हृदयेऽवस्थानं द्रष्टव्यम् । मनुष्याश्चाऽऽविद्वदङ्गनाविगोपालं कदा-
चिदात्मानमहमहमित्येवं हस्तेनाभनीय प्रदर्शयन्तो हृदयदेशमेव स्पृशन्ति न तु
शिरःपृष्ठपादादिप्रदेशम् । अतो हस्तिमशकादिनानाविधदेहसंचारित्वेन संकोचवि-
कासयुक्तस्यापि जीवस्य हृदयपरिम,णमुपचर्याङ्गुष्ठमात्रत्वमुच्यते । स च सूर्यस-
दृशः । यथा सूर्यः स्वमण्डलप्रकाशनाय मण्डलव्यतिरिक्तबाह्यं दीपादिप्रकाशं नापे-
क्षते तथा जीवोऽपि चेतनत्वात्स्वात्मावबोधनाय नान्यत्साधनमपेक्षते । ननु चक्षुराद्य-
पेक्षाराहित्येऽपि मनोपेक्षा विद्यते । अयमहं सुखी दुःखीत्यादिशब्दव्यवहारस्य ध्यान-
पूर्वकत्वात् । “ यद्धि मनसा ध्यायति तद्वाचा वदति ” इतिश्रुतेर्वक्तृविवक्षितपूर्विका
शब्दप्रवृत्तिरितिशास्त्रकृद्भिरुद्घोषणच्च । भवत्वेवं शब्दव्यवहारो ध्यानपूर्वकः । तच्च
ध्यानं पूर्वप्रतीते वाच्ये वस्तुनि योग्यशब्दप्रयोजनायैव प्रवर्तते । पूर्वमप्रतीते वस्तुन्ये-
तादृशः शब्दो योग्य इति निर्णतुमशक्यत्वात् । एवं सति जडेषु घटादिषु प्रवृत्तं मनः
प्रथमं वस्तु स्फोरयति । पश्चाद्योग्यं शब्दं ध्यायति । ततः पुमानभिवदति । चैतन्या-
त्मनि स्वत एव भासमाने शब्दविशेषनियमनायैव ध्यानापेक्षा । न तु स्फोरणाय ।
अन्यथा ध्यानवृत्तिरहितेषु क्षणेषु सुषुप्तिमूर्च्छामरणेभ्यः स्वात्मानुभवकृतं वैलक्षण्यं न
स्यात् । लोकास्तु महदेव वैलक्षण्यं प्रतियन्ति । तस्माज्जीवात्मा लोकव्यवहारे स्वप्र-
काशत्वाद्वितुल्यरूपः । एतदेवाभिप्रेत्य वाजसनेयिनः समामनन्ति-“ विज्ञातारमरे
केन विजानीयात् ” इति । स च जीवः संकल्पाहंकाराभ्यां समन्वितो व्यवहरति ।
प्रयाससाध्यत्वविनश्वरत्वादिदोषैरसमीचीनेऽपि गृहक्षेत्रादौ तात्कालिकोपभोगाभासं दृष्ट्वा
समीचीनमिदं गृहादिकमिति कल्पनं संकल्पः । तस्य च गृहादेरहं स्वामीत्येवमभिमा-
नोऽहंकारः । अन्तःकरणस्येदमाकारा वृत्तिर्बहिर्मुखाऽहमाकारा वृत्तिरन्तर्मुखा ततो द्वे
एव वृत्ती । तथाऽपीदंवृत्तेर्विषयबाहुल्यादहंवृत्तेश्च कालभेदेन पुनः पुनरावृत्तेरविच्छिन्नो
व्यवहारः प्रवर्तते । तस्य च न्यग्धर्तुश्चिदचिदात्मकत्वमुच्यते बुद्धेर्गुणेनाऽऽत्मगुणेन
चैव आराग्रमात्र इति, लयोदयरूपो बुद्धेर्गुणः । अहंकर्ता च सुप्तौ लीयते प्रबोधे च
पुनरुदेति । स्वयंप्रकाशश्चाऽऽत्मनो गुणः । स च सूर्यदृष्टान्तेनोपवर्णितः । एतेन गुण-
द्वयेन युक्तः । आराग्रमात्रः कृषिकाले बलीवर्दप्रतोदाय दण्डाग्रे स्थापितः सूक्ष्मलोह
आरा तस्या अग्रं यथाऽत्यन्तसूक्ष्मं तथाऽयमप्यतिसूक्ष्मोऽन्यथा नाडीष्वप्रतिरुद्धसंचा-
रासंभवात्सोऽयमीदृशो जीवात्मा परमात्मापेक्षयाऽवरो निकृष्टः । सोऽपि प्राणिभिर्दृष्ट-
श्चक्षुषा रूपमिवाहंप्रत्ययेनानुभूतः । स्वप्रकाशस्यापि शब्दव्यवहारयोग्यत्वापादनेनानु-
भूत इत्युच्यते । तदिदं जीवस्य मानसप्रत्यक्षत्वम् । यद्यपि चिज्जडोभयात्मकत्वादिवि-
१ ग. हृदय° । २ क. ख. ग. ॰त्येव ह° । ३ ग. बाह्यदी° । ४ ग. ॰खीत्या° । ५ क.
॰तेर्विव° । ६ घ. ॰र्वक्तृविवि° । ७ क. ॰वत्येवं ।

शास्त्रकृतस्तथाऽपि जीवस्वरूपमात्रं सर्वैरप्यहमित्यनुभूयत एव । तस्य च जीवस्य
।द्विजातिर्न स्वाभाविकी । किंतु स्थूलशरीरोपाधिकृता॑ ।
तदपि तत्रैवाऽऽम्नातम्—
‘ नैव स्त्री न पुमानेष नैव चायं नपुंसकः ।
यद्यच्छरीरमादत्ते तेन तेन स युज्यते ” ॥ इति ।
तन्नाम्ना व्यवह्रियत इत्यर्थः । किंचास्य कर्त्रात्मनः स्वरूपं मैत्रेयां अपि स्पष्ट-
न्ति—“अस्ति खल्वन्योऽपरो भूतात्माख्यः । योऽयं सितासितैः कर्मफलैरभिभूय-
सदसद्योनिमापद्यते ” इति । “ अवाचीं वोर्ध्वां वा गतिं द्वंद्वैरभिभूयमानः परिभ्र-
' इति । पूर्वत्र “स वा एष शुद्धः पूतः” इत्यादिनाक्तो यः परमात्मा तस्मादन्योऽ-
निकृष्टोऽस्ति स च भूतात्माख्यः । सूक्ष्माणि पञ्च भूतानि लिङ्गदेहरूपेण विक्रि-
ऽय पिण्डेऽग्निवल्लि

४५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०७अनु०१]
ननु जन्मादिसूत्रे भाष्यकारा अनुमानमङ्गी चक्रुः । सत्सु तु वेदान्तवाक्येषु जगतो
जन्मादिकारणवादिषु तदर्थग्रहणदाढ्र्यायानुमानमपि वेदान्तवाक्याविरोधे प्रमाणं भवन्न
निवार्यते श्रुत्यैव च तर्कस्याभ्युपेतत्वात् । “ श्रोतव्यो मन्तव्यः ” इति श्रुतिरिति । नैष
दोषः । ब्रह्मणि प्रमाणं वेदान्तवाक्यान्येव पुरुषबुद्धिस्वास्थ्याय त्वनुमानमप्यस्त्विति
भाष्याभिप्रायः । तत्रानुमानमारोपितौ हेतुदृष्टान्तावुपजीव्य प्रवर्तते । ब्रह्मसिद्धिरपि
तेनैवास्त्विति चेन्न । तद्विशेषासिद्धेः । क्षित्यादिकं सकर्तृकं कार्यत्वाद्वटवदित्यनुमाने-
नेश्वरमात्रसिद्धावपि सत्यज्ञानानन्ताद्वितीयत्वलक्षणो विशेषो न सिध्यति । तस्मान्नानु-
मानेनापि ब्रह्मलाभः । आगमेऽपि कर्मकाण्डस्य साध्यसाधनभावबोधमात्रपर्यवसायित्वान्न
तत्र ब्रह्मलाभशङ्काऽप्यस्ति ।
ननु ब्रह्मसिद्धिकारैरेवमुक्तम्—
“ सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।
प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ” ॥ इति ।
युक्तं चैतत् । सच्चिदानन्दरूपं हि ब्रह्म तत्र प्रमाणैः प्रमीयमाणेषु सर्वेष्वपि वस्तुषु
सत्त्वं भानमानन्दं (न्दनं) च विस्पष्टमतो ब्रह्म सर्वप्रत्ययवेद्यम् । बाढम् । सप्रपञ्चमेव
ब्रह्म सर्वैः प्रत्ययैर्वेद्यते । न रूपरसगन्धादिविषयान्परित्यज्य चक्षुरादयः शुद्धं तत्त्वं
गृह्णन्ति । अन्यथा गुरुशास्त्रानिरपेक्ष्येणैव सर्वे जना मुच्येरन् । पुरुषार्थस्तु निष्प्रपञ्चब्र-
ह्मवेदनादेव । तद्बोधद्वारत्वेन तु शास्त्रेषु तत्र तत्र सप्रपञ्चं ब्रह्मोपन्यस्यते । तच्च पुरुषा-
र्थभूतनिष्प्रपञ्चब्रह्मवेदनं शास्त्रेणैव जन्यते । तदपि तैरेवोक्तम् ।
“ प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः ।
मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ” ॥ इति ।
तस्मादद्वितीयब्रह्मात्मतत्त्वमनन्यलभ्यत्वादुपनिषदो विषय इति सिद्धम् । एतदेवा-
भिप्रेत्य भगवान्बादरायणः सूत्रयामास—“शास्त्रयोनित्वात्” [ १-१-३ ] इति ।
तस्य च सूत्रस्य द्वितीयवर्णके योनिशब्दस्य ज्ञप्तिकारणत्वमर्थः । ततः शास्त्रप्रमाण-
त्वादित्युक्तम् । तत्रायं न्यायसंग्रहः—
“ अस्त्यन्यमेयताऽप्यस्य किंवा वैदैकमेयता ।
घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥
रूपलिङ्गादिरहित्यान्नास्य मान्तरयोग्यता ।
तं त्वौपनिषदेत्यादौ प्रोक्ता वैदैकमेयता ” इति ॥
१ क. °रे धि प्र° । २ व. °धेन प्र° । ३ क. छ. भवेन्न । ४ ग. तेनास्त्वि° । ५ घ.
°धनद्वा° । ६ ग. णम° ।

[प्रपा०७अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४५९
को विषय इत्यस्योत्तरमुक्तम् ।
अथ किं फलमित्यस्योत्तरमुच्यते—उक्तविषयस्याद्वितीयब्रह्मात्मतत्त्वस्याभिव्यक्तिः
साक्षात्फलम् । तच्च बृहदारण्यके दर्शितम्—“आत्मन्येवाऽऽत्मानं पश्यति सर्वमा-
त्मानं पश्यति ” इति । पूर्वोक्तो यो गौणात्मा पुत्रभृत्यादिर्यौ च मिथ्यात्मानौ स्थूलदे-
हलिङ्गदेहौ तेभ्यो व्यतिरिक्तः सांख्यादिसंमतः पुरुषश्चिद्रूपः साक्षी मुख्यात्मा तस्मिन्ने-
वाऽऽत्मनि जगत्कारणं परमात्मानं वेदान्तमहावाक्येन पश्यति । आत्मन्यात्मानमि-
त्याधाराधेयभेदो राहोः शिर इतिवदेकस्मिन्नेव वस्तुन्यौपचारिकः । जीवात्मानमेव पर-
मात्मत्वेन वेदान्तमहावाक्यैः पश्यतीत्यर्थः । परमात्मा हि सर्वस्य जगत उपादानम् ।
न ह्युपादानव्यतिरेकेण कार्यं किंचिद्वस्त्वस्ति । मृत्सुवर्णादिव्यतिरेकेण घटकुण्डलादिव-
स्तूनामदर्शनात् । अतो जगत्कारणं परमात्मानं स्वात्मत्वेन पश्यञ्जगदपि सर्वं स्वात्म-
त्वेनैव पश्यति । न्यायवैशेषिकादिशास्त्राणि मिथ्यात्मन्येव कर्तृत्वादियुक्त उपक्षीणानि ।
सांख्यशास्त्रं यद्यपि चिदात्मनि मुख्ये प्रवृत्तं तथाऽपि तावत्येव पर्यवसितम् । वेदान्तास्तु
तस्य मुख्यात्मन ईश्वरत्वमशेषजगद्रूपत्वं च प्रतिपादयन्तीति विशेषः । एतादृशाद्वि-
तीयत्वबोधः प्रथमंफलम् । तद्बोधादूर्ध्वमविद्या निवर्तते । एतच्चाऽऽथर्वणिकैरा-
म्नायते—“एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य” इति ।
गुहा बुद्धिस्तस्यां निहितं साक्षित्वेनावस्थितमेतद्ब्रह्मात्मतत्त्वं यो वेद स पुमानिह देहे
वर्तमान एव सन्नविद्याग्रन्थिं विश्लेषयति । हे सोम्येत्यङ्गिरा गुरुः शिष्यं शौनकं संबोध्य
ब्रूते । यथा लोके साकल्येन राहुग्रस्तश्चन्द्रमाः स्वकीयोज्ज्वलत्वस्याऽऽच्छादितत्वेन
स्वयं मलिनेऽम्बरे भासमानो राहुं चावभासयंस्तेन राहुणा तादात्म्यं प्राप्त इवावभासते ।
एवमयमद्वयानन्दैकरसश्चिदात्मा स्वयमनादिरूपाविद्यापटलेनाऽऽवृतः सन्नद्वितीयत्व-
स्याऽऽनन्दैकरसत्वस्य चाऽऽच्छादितत्वेन बहुविधद्वैतरूपेण जगता युक्तो दुःखी स्वचै-
तन्येन स्वात्मानमविद्यां चावभासयन्नविद्यया तादात्म्यं प्राप्त इवाहमज्ञ इत्येकीकृत्य
व्यवहरति । सोऽयमेकीकारोऽविद्याग्रन्थिः । स च बोधेन विकीर्णो भवति । यथा
राहुणा विमुक्तं चन्द्रमण्डलमुज्ज्वलं भासते तथा बोधेनाऽऽच्छादिकायामविद्यायां
निवृत्तायामद्वितीयत्वमानन्दैकरसत्वं चाऽऽविर्भवति । तदिदमविद्याग्रन्थेर्विकीर्णत्वम् ।
अयमेवार्थः पुराणेऽपि स्मर्यते—
“ तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ” ॥ इति ।
एकस्यैव भावरूपाज्ञानस्य स्वाश्रयं प्रत्यावरकत्वाकारेणाविद्यात्वम् । विचित्रका-
र्यजनकत्वाकारेण मायात्वम् । अतोऽविद्याया इव मायाया अपि तत्त्वज्ञानं निवर्त-
१ ग. साख्यं शा° । २ ख. घ. °थमं फ° । ३ ग. 'बद्धं' ।

कम् । तस्मात्तत्त्वविदो नाद्वितीयत्वानन्दैकरसस्वभावः कदाचिदप्याव्रियते । नापि जन्मा-
न्तरादिकं नूतनकार्यमुत्पद्यते । एवमविद्याग्रन्थौ विकीर्णे सति ततो हृदयग्रन्थादयो
निवर्तन्ते ।
तदपि तत्रैवाऽऽम्नातम्—
“ भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ” ॥ इति ।
परमुत्कृष्टं जगत्कारणमज्ञानमप्यवरमधमं यस्मात्परमात्मनः सोऽयं परावरः
यद्वा परश्चासाववरश्चेति परावरः । सर्वात्मक इत्यर्थः । परावरे तस्मिन्परमात्मनि सा-
त्कृते सति हृदयग्रन्थिर्भिद्यते । हृदयमन्तःकरणं लिङ्गशरीरं तच्चैतन्यच्छायाव्याप्तं
चेतनमहं कर्तेति प्रतिभासमानं तर्कशास्त्रे पूर्वमीमांसायां च मुख्यात्मत्वेनाङ्गीकृतं
वेदान्तदृष्ट्या स्थूलदेह

पूर्विके इत्यर्थः । नहि भ्रमहेतावाविद्यायां निवृत्तायां निर्हेतुको भ्रमः संभवति । न
स्वप्ने काशीं प्रत्यर्धमार्गं गत्वा प्रबुद्धः पुरुषो निपुणतरोऽपि परेद्युः पुरतो गन्तुं
र्वति । तस्माद्धृदयग्रन्थिभेदो निर्विघ्नः सिद्धः । हृदयग्रन्थौ भिन्ने सति सर्वसंशया-
धन्ते । अयमात्मा स्थूलदेहरूपो वा सूक्ष्मदेहरूपो वा ताभ्यामतिरिक्तो वाऽतिरि-
वेऽप्यणुपरिमाणो वा मध्यमपरिमाणो वा सर्वगतो वा जडो वा द्रव्यबोधात्मको वा
पो वेश्वरादन्यो वेश्वर एव वा प्रपञ्चः सत्यो वा मिथ्या वा मोक्षसाधनं कर्माणि
ज्ञानं वेत्यादिका अनन्ताः संशयाः स्वबुद्धिदोषजन्या बहुविधाशास्त्राभ्यासेनोत्पादि-
। सर्वैर्बहिर्मुखैरनुभूयन्ते । ते सर्वेऽपि हृदयग्रन्थिपूर्वकाः । असति हृदयग्रन्थौ सुषुप्ति-
समाधिष्वदर्शनात् । तथा जागरणेऽप्यद्वितीयचिदानन्दैकरसमात्मानमनुभवतोऽन्त-
गस्य हृदयग्रन्थिहरितस्य शास्त्रसहस्रैरपि न ते संशया उत्पादयितुं शक्यन्ते ।
येषु च्छिन्नेषु ज्ञानस्य फलप्रतिबन्धहेत्वभावादागामिजन्मकारणानि पूर्वानुष्ठितानि
पापरूपाणि सर्वाणि कर्माण्यपि क्षीयन्ते । यथा गृहस्थे प्रवृत्तानि देवर्षिपितृसंब-
ने त्रीण्यृणानि लौकिका गृहक्षेत्रादिविवादाः पारिव्राज्ये सति निवर्तन्ते तद्वत् । युक्तं
र् । कर्मात्मनिष्ठानि हि कर्माणि । स च कर्त्रात्मा यावाच्चिदात्मना सहैकीभूतस्ताव-
णि चिदात्मानं संस्पृशन्तु । विवेकेन त्वापाकृते कर्त्रात्मसंबन्धे कथं नाम तानि
त्मानं संस्पृशेयुः ।
एतच्च भगवता विस्पष्टमुक्तम्—
“ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ” ॥ इति ।
अधिष्ठानं स्थूलदेहः । तथा कर्ता चैतन्यच्छायापेतो लिङ्गदेहः । करणानि लिङ्ग-
यत्रभूतानि चक्षुरादीनि । प्राणवायुकार्यदर्शनश्रवणगमनादिरूपा विविधा चेष्टा ।
म्प्रेरकमादित्यादिदेवतारूपं दैवम् । शरीरादिसाध्यस्य पुण्यस्य पापस्य चाधिष्ठा-
ः पञ्च हेतवः । न तु चिदात्मा । एवं सत्यात्मस्वरूपमज्ञात्वा भ्रान्तैस्तत्र कर्तृत्व-
यते ।
१ ग. ˚णि ज्ञा˚ । २ ग. ˚नं चेत्या˚ । ३ क. ड. ˚विधाः शा˚ । ४ ड. ˚गरेऽप्य˚ ।
˚निष्ठस्य । ६ ख. ˚स्रशतैर˚ । ७ क. ख. ग. ड. कर्ताऽऽत्मा ।

, what is there?
There is 'त्वा' (tvā), and attached to the bottom/right of 'त्वा' or between 'त्वा' and 'नो', is there a 'त्' or 'न्'?
It looks like 'न्' doubled with 'नो' = 'न्नो'!
Or 'त्' + 'नो' = 'त्नो'!
So it is definitely printed as "त्नो" or "न्नो" (with an e/o matra, looks like "त्नो" or "न्नो").
Wait, could it be a typo in the original book?
Yes! 19th/early 20th century Anandashrama Sanskrit Series (ASS) editions sometimes have typographical errors like this where a word was broken or misset.
Wait, let's check the volume:
"श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]"
Page "४६२"
This is Anandashrama Sanskrit Series, No. 12 (Taittiriya Aranyaka, Vol 2), page 462!
Let's see: on page 462, line 29 ends with: "तद्वत्पुण्यराहित्यमप्यसङ्गत्वान्न-" or "त्नो-"?
In ASS editions, sometimes they broke words across lines. If the word is "नित्यसिद्धम्", breaking it as:
line 29: "तद्वत्पुण्यराहित्यमप्यसङ्गत्वान

अत एव वाजसनेयिन आमनन्ति—"एतमु हैवैते न तरत इत्यतः पापमकरवमि-
त्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः" इति । एत-
मेव ब्रह्मविदमेते मानस्यौ चिन्ते न तरतो न प्राप्नुतः । कीदृश्याविति ते अभिधीयेते ।
इतिशब्दः कर्महेतुभूतरागद्वेषप्रदर्शनार्थः । शत्रुं हनिष्यामीत्येतादृशो यो द्वेषोऽस्त्यतो
द्वेषादहमभिचारादिना वधरूपं पापमकार्षम् । स्वर्गं प्राप्स्यामीत्येतादृशो यो रागोऽ-
स्त्यतो रागादहं ज्योतिष्टोमादिरूपं कल्याणमकार्षम् । तत्र पापेन नरको भविष्यतीत्येवं
विषादरूपा चिन्तैका । स्वर्गः कदा भविष्यतीत्येवं विलम्बासाहिष्णुत्वरूपा चिन्ता द्वि-
तीया । उभे अप्येते चिन्ते एष ब्रह्मविदुलङ्घयति । कृताकृते पुण्यपापे नैनं क्लेशयतः ।
अज्ञानिनं तु प्रत्यवायः कृतस्तपति । पुण्यं त्वकृतं संतपति । न त्वसावुभयविधः संतापो
ब्रह्मविदोऽस्ति । तदेवं जन्मान्तरकारणानि कर्माणि क्षीयन्त इति सिद्धम् । इह जन्म-
न्यपि हर्षशोकौ क्षीयेते । तथा च कठा आमनन्ति—"अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति" इति । आत्मानमधिकृत्य वर्तत इत्यध्यात्मं तथाविधो
योगश्चित्तैकाग्र्यं तस्याधिगमः प्राप्तिस्तेन देवं स्वयंप्रकाशं परमात्मानं मत्वा साक्षात्कृत्य
हर्षशोकौ जहाति परित्यजति । न तावदस्य हर्षहेतुरस्ति । द्विधा हि हर्षहेतुः ।
समीचीनधनादिलाभो विस्मयहेतुरणिमादिसिद्धिश्च । समीचीनत्वबुद्धिस्तु न क्वाप्यस्य
विद्यते ।
तदुक्तं वासिष्ठरामायणे—
"न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।
नागरं नागरीकान्तं कुग्रामललना इव" ॥ इति ।
विस्मयोऽप्यस्य न क्वापि संभवति । तदपि तत्रैवोक्तम्—
"अपि शीतरुचावर्क उष्णे पीयूषमण्डले ।
अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ३ ॥
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।
इत्यस्याऽऽश्चर्यजालेऽपि ४ नाभ्युदेति कुतूहलम्" ॥ इति ।
शोकस्य तु पुत्रमित्रमरणादिकं निमित्तम् । तच्च नाद्वितीयमात्मानमनुभवतः संभ-
वति । तदनुभवश्चाऽऽचार्यैरुदाहृतः—
"अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तं न पश्यामि यो मम" ॥ इति ।
सोऽयं हर्षशोकपरित्यागो धीरस्यैव न त्वितरस्येत्यभिप्रेत्य धीर इत्युक्तम् ।
१ ग. ॰द्विष॰ । २ घ. द्विविधो हि । ३ ख. संशयी । ४ घ. ॰लेषु ना॰ ।

४६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]

त्रिविधो हि ब्रह्मवित् । लोकव्यवहारप्रधानो विवेकप्रधानः समाधिप्रधानश्चेति । आर-
ब्धकर्मवशाद्राज्यादिषु योऽधिकारी स व्यवहारप्रधानः । स च मूढवत्तात्कालिकाभ्यां
हर्षशोकाभ्यामभिभूयत एव । तमेतमभिलक्ष्य भाष्यकारा आहुः - “पश्वादिभिश्चा-
विशेषात्” इति । राज्याधिकारवशादेव कृष्णेन बोधितोऽर्जुनो वसिष्ठेन बोधितो
रामश्च व्यावहारिकं हर्षं शोकं च प्राप्तवन्तौ । विवेकप्रधानस्तु धीरो भूत्वेन्द्रियाणि विजि-
त्य तदा तदा प्रसक्तौ हर्षशोकौ विवेकेन परित्यजति । समाधिप्रधानस्य तु हर्षशोक-
प्रसङ्ग एव नास्ति । ईदृशमेव विषयीकृत्याऽऽम्नातम् - “पर्याप्तकामस्य कृतात्मनश्च
इहैव सर्वे प्रविलीयन्ति कामाः " इति । अन्तर्निष्ठ आत्मानमेव कामयते स चाऽऽत्मा
नित्यप्राप्तत्वात्सर्वदा स्फुरतीति तदा तदा न विशेषेण कामयितव्यो भवति । अतोऽयम-
न्तर्निष्ठः पर्याप्तकामः । स च कृतात्मा नियमितान्तःकरणः । अतो बाह्यं न पश्यति ।
कुतस्तस्य कामः स्यात् । तथा सति कामयितव्यस्य कस्याप्यभावान्निर्बन्धनाग्निवत्सर्वे
कामाः प्रैलीयन्ते । क्रोधलोभादीनां काममूलत्वात्कामलयैनैव तल्लयः । कामितार्थविघाते
हि क्रोध उत्पद्यते । तच्च स्मर्यते-“ कामात्क्रोधोऽभिजायते " इति । सोऽयमीदृशः
कामक्रोधाद्यररिषड्वर्गरहितोऽन्तर्निष्ठो ब्रह्मविदांमुत्तमः । स चैवमाम्नायते-“आत्म-
क्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः " इति । आत्मन्येव क्रीडा यस्यासा-
वात्मक्रीडः । लौकिकः पुरुषो द्यूतादौ स्वस्य जयं परस्य पराजयं चैवान्विच्छन्क्रीडति
तथा ब्रह्मवित्पुमानात्मनः स्वप्रकाशत्वाद्वितीयत्वादिसाधक श्रुतियुक्तीनां प्राबल्यं तद्विरु-
द्धानां दौर्बल्यं चान्विच्छन्क्रीडति । यथा च लौकिकः पुरुषार्थसिद्धये संध्यावन्दनादि-
क्रियावांस्तथा ब्रह्मविद आत्मरतिरेव क्रिया न तु बाह्यक्रिया काचिदस्ति । तथा
चाऽऽरु ण्युपनिषद्युक्तम् --- 'संधिं समाधावात्मन्याचरेत्” इति । परमहंसोपनिषद्यपि-
“ परमात्मानोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा संध्या सर्वान्कामान्परित्यज्याद्वैते
परमे स्थितिः” । एवं सत्यस्य लौकिकवैदिककर्तव्याभावादयं कृतकृत्यः । एतदपि
परमहंसोपनिषद्युक्तम्-“यत्पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति कृतकृत्यो भवति”
इति ।
भगवताऽप्युक्तम्—
“ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ” ॥ इति ।
स्मृत्यन्तरं च—
“ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित्” । इति ।
१ ग. घ. ॰क्लिडं । २ घ. ॰नस्तिवेत् । ३ ग. प्रविली० ।

'द्' with an okara? In Devanagari, 'द्' + 'बो' = 'द्बो'. But there is an 'au' or 'o' matra? No.
It is: 'द्बु' or 'द्बो'? It really looks like 'द्बुद्ध्यानसहस्रतः' or 'द्बुध्या न सहस्रतः'.
Wait, look at:
द् (d)
बु (bu)
ध्या (dhyaa)
न (na)
स (sa)
ह (ha)
स्र (sra)
तः (taḥ)
Yes, it literally has those glyphs: द्, बु, ध्या, न, स, ह, स्र, तः!
Wait, is there a space between ध्या and न?
"शाम्येद्बुद्ध्यानसहस्रतः" - there is no space, it's printed together just like "कर्मक्षये त्वसौ नैव शाम्येद्बुद्ध्यानसहस्रतः ॥"
Wait, could it be "द्बुद्ध्या न सहस्रतः"? The space between ध्या and न is very small, just like between other letters in a word. But whether spaced or not, "शाम्येद्बुद्ध्यानसहस्रतः" or "शाम्येद्बुद्ध्या न सहस्रतः". Looking at other words: "विनाऽप्यमुम्" has a small space "विनाऽप्यमुम् ।", "चिराभ्यस्तवासनातोऽ

।Wait, let's look at line 21 in the image:सर्वात्मत्वमेवोत्तरवाक्यैरुद्गाहीयते ।- wait, look at the space betweenरुद्andयते: There are TWO syllables! Let's look: 1: रु2:द्3:गा(it has a vertical lineा) 4: ही(it hasहwithीmatra!) Wait, is thatहwithी? Wait, look at the letter: it has हshape, and aीmatra:ही! Wait, could it be उद्ग्राह्यते? उद्ग्राह्यते? Let's look: उ द् ग्रा ह्य ते? Wait! Look at ह्य: हwithयbelow it? YES! Look atह्य: द्+ग्रा->रुद्ग्राह्यते! Wait, look at the letters: रु द् ग्रा(it hasगwithाand a diagonal slash्रforर!) ह्य (हwithयattached!)ते! Wait, is that रुद्ग्राह्यतेorरुद्गाह्यते

"?
Wait, look at L21: the first letter is "ज" or "वाज"?
Wait, looking closely at L21, the letter before 'स' is 'ज'! But wait, where is 'वा'? It seems completely cut off or missing: "जसनेयिभिराम्नायते—". But wait, is there a faint 'वा'? No, the left margin cuts off about 2-3 mm!
Wait, look at L22:
"साऽनाशकेन ” इति ।" - "तपसा" had "तप" cut off! "साऽनाशकेन ” इति ।"
Look at L24:
" “ जाता विविदिषाऽवश्यं संपादयाखिलसाधनम् ।"
Wait, "संपाद्याखिलसाधनम् ।" or "संपादयाखिलसाधनम् ।"?
In L24: "संपाद्याखिलसाधनम् ।" - notice "द्य" with 'आ' matra: "संपाद्याखिलसाधनम् ।".
L25: "स्वफलं जनयेदाशु बुभुक्षादिर्यथा तथा ॥"

Now let's look at the cut-off characters on the left side:
L11: "। ऊर्ध्वमविद्याग्रन्थेर्विकीर्णत्वं..." (Wait, is it "। ऊर्ध्व..."? Yes, a danda is there.)
L12: "मप्रविलय..."
Wait, what word is in L1

४६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०१]
प्रतिबन्धकपाप्मानं नाशयेच्चित्तसंस्कृतिः ।
साधनानि तु बोधस्य संपादयानि प्रयत्नतः ॥
वर्णाश्रमादिशास्त्रेण प्रेरितोऽकरणे भयम् ।
पश्यन्करोति यत्कर्म तत्संस्कारकमुच्यते ॥
तमेतमिति वाक्येन प्रेरितो बोधवाञ्छया ।
अन्तर्यामिण्यर्पयेद्यत्तत्स्याद्विविदिषाकरम् ॥
कर्मणा पितृलोकः स्यादित्येवं नित्यकर्मणाम् ।
फलमुक्तं तथाऽप्येतैर्वेदनेच्छाऽपि तच्छ्रुते ॥
नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः ।
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः ॥
काम्येष्वपि मुमुक्षुश्चेत्फलं देवे समर्पयेत् ।
एतद्भगवता प्रोक्तं कर्मबन्धनिवृत्तये ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ”॥ इति ।
तस्मादीश्वरार्पितानि कर्माणि नित्यानि काम्यान्यपि वेदनेच्छां जनयन्ति । यद्यपि
श्रुतिवाक्यैर्वेदनासौन्दर्येऽवगते सति तदिच्छोत्पद्यते तथाऽपि वेदने रुचिः कर्मभिर्जन्यते ।
यथा क्षीरप्रियस्य पुरुषस्य पित्तरोगग्रस्तस्य सत्यामपि क्षीरेच्छायां मुखे रुचिर्नास्ति । सा
रुचिः पुनरौषधक्रियया पित्तोपशमने सत्युत्पद्यते । तथा निःशेषदुःखोच्छेदं निरतिशया-
नन्दप्राप्तिहेतुत्वं ब्रह्मवेदनस्य श्रुतवतः सत्यामपि वेदनेच्छायां पापप्रतिबन्धाद्वेदनसाधनेषु
श्रवणादिषु रुचिर्न जायते ।
तथा चाभिहितं पुराणे—
“ महापापवतां नृणां ज्ञानयज्ञे न रोचते ।
प्रत्युत ज्ञानयज्ञस्तु प्रद्वेष्यो भासते स्वतः ” ॥ इति ।
तस्मिंश्च ज्ञानप्रतिबन्धके महापापे परमेश्वरार्पितैः कर्मभिर्नाशिते सति श्रवणादौ रुचि-
रुत्पद्यते । सेयं रुचिरत्र विविदिषाशब्देनोच्यते । अतः परम्परया कर्माणि ज्ञानसाधन-
भावं प्रतिपद्यन्ते ।
१ क. ॰. इ. 'गोऽथ प्र' ।

दि = 8
कर्म-भ्यो नान्य-दिष्-य-ते = 8!

Line 8:
पारम्पर्येण कर्मैवं वेदनायोपयुज्यते ।
पा-रम्-पर्-ये-ण कर्-मै-वं = 8
वे-द-ना-यो-प-युज्-य-ते = 8!

Line 9:
साधनं कर्म तेनैतत्त्वाध्यं ब्रह्मात्मवेदनम् ॥
Wait, look at line 9:
"साधनं कर्म तेनैतत्त्वाध्यं ब्रह्मात्मवेदनम् ॥"
Wait! Is it "तेनैतत्त्वाध्यं" or "तेनैतत्साध्यं"?
Look at the letter: 'त्सा' vs 'त्त्वा'!
In "तेनैतत्", then 'साध्यं'?
Look at the conjunct:
त् + स + ा = त्सा!
Wait, look at 'त्त्वा': in L4 'चोच्छित्तौ', त् + त = त्त.
In L9: it is 'त्साध्यं'! तेनैतत्साध्यं = तेन + एतत् + साध्यम्!
Wait, is there a double त? "तेनैतत् साध्यं" -> "तेनैतत्साध्यं".
Let's look at the letters:
त े न ै त त ् स ा ध ् य ं
Wait, between त and सा, is there a त्?
"तेनैतत्साध्य

[header] ६७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०१]

तथाऽपि काम्यपुण्यानां क्षयो नादुरितत्वतः ॥
उपपातकल्पं चेत्क्षीयेतां नित्यकर्मणा ।
अनन्तदेहहेतूनां हत्यादीनां कुतः क्षयः ॥
नित्यकर्मभिरप्यस्ति स्वर्गः काम्याग्निहोत्रवत् ।
आपस्तम्बेन तन्नोक्तमाम्रवृक्षनिदर्शनात् ॥
फलार्थे निर्मिते त्वाम्रे छायागन्धाववारितौ ॥
तथा वर्णाश्रमाचारादनुगच्छेत्रिविष्टपम् ।
निषिद्धकाम्यनित्यानि पूर्वजन्मसु चात्र च ॥
कृतानि सन्त्यनेकानि स्वास्थ्यं तत्राऽऽत्मनः कुतः ।
ऐकात्म्यबोधतः कर्मक्षयं चेदात्थ तर्हि ते ॥
निर्विघ्ना मुक्तिरस्त्येवं ममेव न हि संशयः ” इति ।
“ अपरे मन्वते मोक्षे ज्ञानकर्मसमुच्चयम् ॥
प्रधानगुणभावेन त्रिविधोऽसौ समुच्चयः ।
ज्ञानं प्रधानं केषांचिदन्येषां कर्ममुख्यतः ॥
समप्राधान्यमुभयोरपरेषां मते स्थितम् ।
एकदेशे चैककाले स्थितयोरविरुद्धयोः ॥
समुच्चयः फलैक्ये स्यान्न त्वसौ ज्ञानकर्मणोः ।
बाध्यबाधकभावेन पञ्चास्योरणयोरिव ॥
एकदेशानवस्थानान्न समुच्चय एतयोः ।
साध्यसाधै²करूपत्त्वादेककालानवस्थितिः ॥
हेतुस्वरूपकार्येषु विरोधस्त्वनयोः स्फुटः ।
अध्यासः कर्मणो हेतुः प्रमाणं बोधकारणम् ॥
न भासकं कर्मरूपं बोधरूपं तु भासकम् ।
कर्मकार्यं भावि जन्म तन्निवृत्तिस्तु बोधजा ॥
समुच्चयो दुर्लभोऽतस्तेन मुक्तिः कथं भवेत् ।
सोपानपङ्क्तिगत्येव हर्म्यपृष्ठा³धिरोहणम् ॥
अशेषकर्मक्रमतोऽधिकारं केचिदूचिरे ।
संध्यावन्दनमारभ्य क्रमानुष्ठितकर्मभिः ॥
सहस्रवर्षसत्रान्तैर्ज्ञाने तामधिरोहति ।
यथैव नगराध्वस्थग्रामगत्युपदेशनम् ॥


१ क. ख. ग. °यते .नि° । २ व. °धारू° । ३ व. ङ. °ष्ठादिरो° ।

नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।
तथैव मोक्षमार्गस्थस्वर्गादेर्गतिभाषणम् ॥
मोक्षमार्गोपदेशस्य शेषत्वं किं न गच्छति ।
यद्वोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये ॥
नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव ।
एवं च सति दृष्टेन द्वारेणैवोपकारिणः ॥
आत्मज्ञानाधिकारार्था विधयः सकला अपि ।
मैवं ग्रामगतेः पुंसामध्वत्वादस्तु शेषता ॥
स्वयमेव पुमर्थत्वात्स्वर्गादेः शेषता कथम् ।
यदुपच्छन्दनार्थत्वं नृवाक्ये तत्समञ्जसम् ॥
वेदेषु वक्तूराहित्यादभिप्रायोद्यसंभवः ।
यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ॥
ततश्च विधितात्पर्यं स्वर्ग एव न मोक्षणे ।
दृष्टद्वारं च रागादिप्रवृत्तिप्रतिषेधनम् ॥
यदि तर्हि निषेधेषु द्वारं भवतु तत्तथा ।
विधयस्तु निरुन्धन्ति न रागं रागहेतवः ॥
वर्धयन्ति प्रत्युतामी रागं भोगप्रदानतः ।
अशेषकर्मानुष्ठानमल्पायुषि न संभवेत् ॥
सोपानपङ्क्तिन्यायोऽतो मन्दबुद्धिप्रकल्पितः ।
अन्ये त्वाहुर्न शक्नोति कामसंदूषिताशयः ॥
द्रष्टुं तत्परमद्वैतं सर्वकामासमासितः ।
कर्मभिर्विविधैर्धीमान् विराडाद्युपासनैः ॥
वैराजान्तं फलं भुक्त्वा तदैकात्म्यं प्रपद्यते ।
सर्वभोगोपभोगेन कृत्स्नकामलयाध्वना ॥
यान्ति मुक्तेरानुगुण्यं कर्माणि निखिलान्यपि ।
ब्रह्मानन्दो मतोऽप्यत्र चिरेणाविषयीकृतः ॥
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम् ।
कामप्रविलयायातो विधयः कर्मकाण्डगाः ॥
प्रलीनकामो विज्ञानकाण्डेऽधिक्रियते पुमान् ।
मैवं न कामसंप्राप्त्या तन्नाशोऽब्दशतैरपि ॥
१ ग. दृष्टद्वाराँ । २ क. घ. ङ. ॰याद्यसं॰ । ३ क. ख. ग. ङ. ॰राजाद्यु॰ ।

४७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७अनु०]

तत्सेवातो विवृद्धिः स्यान्निवृत्तिर्दोषदर्शनात् ।
न जातु कामः कामानामुपभोगेन शाम्यति ॥
हविषा कृष्णवर्त्मव भूय एव विवर्धते ।
गुणस्यादर्शनाद्दोषदृष्टेर्वा क्षीणकामतः ॥
सर्वक्लेशोपशान्त्यर्थमात्मज्ञानं समाश्रयेत् ।
कामाश्रितो विधिः कामं दोषवन्न विलापयेत् ॥
कामुकः संप्रवर्तेत नाऽऽत्मज्ञाने कदाचन ।
उद्विजेताथ वा ज्ञानात्सर्वपुंभोगघस्मरात् ॥
तथाच रागिणीगीतायां पठ्यते वचनं त्विदम् ।
अपि वृन्दावने शून्ये सृगालत्वं स इच्छति ॥
न तु निर्विषयं मोक्षं कदाचिदपि गौतम ।
वैराजान्तं फलं भुक्त्वा मुच्येतेति यदीरितम् ॥
क्रममुक्तौ तत्तथाऽस्तु न तु सद्योविमोचने ।
द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत् ॥
न ह्युपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते ।
नाऽऽकाशस्य विशेषोऽस्ति कुम्भद्रोण्याद्युपाधिषु ॥
दूरान्तिकादिभिन्नेषु कल्पिताकल्पितेष्वपि ।
अतः प्रजापतौ तत्त्वं क्रिमौ वा न विशिष्यते ॥
तर्कादागमतश्चापि तद्यो य इति हीदृशात् ।
प्रत्यबुध्यत देवानां मध्ये यो यः स एव तत् ॥
अभवन्नान्य इत्याह श्रुतिर्वैषम्यवारिणी ।
एको देवः सर्वभूतेष्विति चाऽऽह्यपरा श्रुतिः ॥
अतश्चोपाधिवैषम्यन्नाऽऽत्मतत्त्वं विशिष्यते ।
सद्योमुक्तिं वाञ्छतोऽतो दोषदृष्ट्या विलीयते ॥
कामोऽतः कर्मकाण्डस्य तात्पर्यं नैव तल्लये ।
अन्ये तु मन्वते केचिद्गम्भीरन्यायवेदिनः ॥
भेदस्य विलयो वेदे गम्यते कस्यचित्क्वचित् ।
देहात्मभावविलयः स्वर्गकामपदे खलु ॥
देहाद्भिन्नोऽधिकार्यत्र स्वर्गभोग्येऽवगम्यते ।
रागाद्युत्थप्रवृत्तीनां निषेधेषु लयोऽञ्जसा ॥


१ क. ङ. विचालयेत् । २ ख. 'न्ये शृगा' ।

[प्रपा०७अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४७३
विधिष्वपि लयस्तासां कार्यान्तरनियोगतः ।
लोकेऽपि चानभिप्रेतातत्पथः साक्षान्निवारणम् ॥
मार्गान्तरोपदेशाद्वा वेदेऽप्येवं प्रतीयताम् ।
एवं रागादिहेतूत्थप्रवृत्तिलयवर्त्मना ॥
आत्मज्ञानाधिकारार्था निःशेषा विधयः स्थिताः १ ।
मैवं किं भेदविलयो विधीनां फलकाङ्क्षया ॥
तात्पर्याद्वाऽऽत्मबोधस्य हेतुत्वाद्वाऽवकल्प्यते ।
नाऽऽद्यस्तावदतोऽशेषा न कर्मविधयः फलात् ॥
स्ववाक्यावगतात्किंचिदपेक्षन्ते फलान्तरम् ।
तात्पर्यं च विधीनां स्यात्कर्मानुष्ठान एव हि ॥
अन्तरेण ह्यनुष्ठानं स्वर्गपश्वाद्यसंभवात् ।
श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत् ॥
फलार्था चेल्ल२यो न स्यान्नोभयं वाक्यभेदतः ।
श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ॥
तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः ।
साक्षाद्धस्तिनि दृष्टे हि नहि हस्तिपदानुमा ॥
अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत् ।
नाऽऽत्मबोधोऽपि देहस्य लयाद्भवति कुत्रचित् ॥
अलयेऽप्युपपन्नत्वाल्ये सुप्ताववीक्षणात् ।
गुरुशास्त्राद्यविलये बोधोऽयमुपपद्यते ॥
लयमात्रेण चेद्बोधः३ सुप्तौ केन निवार्यते ।
सर्पाभासलयोऽपीयं रज्जुस्तमसि नेक्ष्यते ॥
प्रत्युताऽऽभाससर्पोऽयं लीयते रज्ज्ववेक्षणात् ।
अथ प्रपञ्चनाशेन नाश्यते भेदकारणम् ॥
मैवं४ न कार्यनाशेन कारणं नश्यति क्वचित् ।
कारणं किमविद्या स्याद्वस्तु वा तत्त्वबोधतः ॥
अविद्यानाशनात्तत्र प्रपञ्चविलयोऽफलः ।
वास्त्ववोऽयं प्रपञ्चश्चेत्स विलाप्यो न केनचित् ॥
अन्यथा स्वात्मतत्त्वस्य विलयः केन वार्यते ।
किंच कृत्स्नस्य विलयः कर्तुं शक्यो न जन्मभिः ॥
१ ग. स्मृताः । २ क. ख. ग. ॰यमिच्छतः । ३ क. ङ. चोद्बोधः । ४ ग. घ. नैवं ।
६८

४७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]

लेशस्तु लीयते स्वापे स्वत एव न शास्त्रतः ।
किंच भावी न चोच्छेद्यो भूतोऽप्युपरतः स्वतः ॥
प्रपञ्चो वर्तमानस्तु कार्यत्वान्नश्यति स्वतः ।
किंच भेदव्ययेनैव सर्वानर्थप्रहाणतः ॥
पुरुषार्थस्य संसिद्धेर्विद्यानैष्फल्यमापतेत् ।
अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः ॥
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।
इष्टसाधनता बोध्या विधिभिः सकलैरपि ॥
अनिष्टसाधनत्वं तु निषेधैरिति हि स्थितिः ।
तस्मात्कामलये भेदलयै सोपानवर्त्मनि ॥
समुच्चये च संबन्धो न युक्तः काण्डयोर्द्वयोः ।
परिशेषात्पुरा प्रोक्तः साध्यसाधनलक्षणः ॥
संबन्धोऽत्रावगन्तव्यो ज्ञानकर्माख्यकाण्डयोः ”।
को विषयः किं फलं कः संबन्ध इत्येते