तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 465, कुल 914 में से
संदर्भ में पढ़ेंकम् । तस्मात्तत्त्वविदो नाद्वितीयत्वानन्दैकरसस्वभावः कदाचिदप्याव्रियते । नापि जन्मा-
न्तरादिकं नूतनकार्यमुत्पद्यते । एवमविद्याग्रन्थौ विकीर्णे सति ततो हृदयग्रन्थादयो
निवर्तन्ते ।
तदपि तत्रैवाऽऽम्नातम्—
“ भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ” ॥ इति ।
परमुत्कृष्टं जगत्कारणमज्ञानमप्यवरमधमं यस्मात्परमात्मनः सोऽयं परावरः
यद्वा परश्चासाववरश्चेति परावरः । सर्वात्मक इत्यर्थः । परावरे तस्मिन्परमात्मनि सा-
त्कृते सति हृदयग्रन्थिर्भिद्यते । हृदयमन्तःकरणं लिङ्गशरीरं तच्चैतन्यच्छायाव्याप्तं
चेतनमहं कर्तेति प्रतिभासमानं तर्कशास्त्रे पूर्वमीमांसायां च मुख्यात्मत्वेनाङ्गीकृतं
वेदान्तदृष्ट्या स्थूलदेह