सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 181, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 181

७४ स्वप्नवासवदत्ते
राजा — तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।
प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता)
(ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च)
पद्मावती — (ख) एदु एदु अय्या । पिअं दे णिवेदेमि ।
आवन्तिका — किं ३ किं ।
पद्मावती — (ग) भादा दे आअदो ।
आवन्तिका — (घ) दिट्ठिआ ४ इदाणिं पि सुमरदि ।
पद्मावती — (ङ) जेदु अय्यउत्तो ५ । एसो णासो ।
राजा — पद्मावति ! साक्षिमान् ६ न्यासो निर्यातयितव्यः ।

  • १ अत्रभवान् रैभ्यः, ७ अत्रभवती चाधिकरणं भविष्यतः ।
    पद्मावती — (च) अम्बँ ! इअं दाणि अय्या ।
    धात्री — (आवन्तिकां निर्वर्ण्य) ८ (छ) अम्मो ९ भट्टिदारिआ वासव-
    दत्ता ।
    (क) यद् भर्त्ताज्ञापयति ।
    (ख) एत्वेत्वार्या । प्रियं ते निवेदयामि ।
    (ग) भ्राता ते आगतः ।
    (घ) दिष्ट्येदानीमपि स्मरति ।
    (ङ) जयत्वार्यपुत्रः । एष न्यासः ।
    (च) अम्ब ! इयमिदानीमार्या ।
    (छ) अम्मो भर्तृदारिका वासवदत्ता ।
    १. 'जा-त्व' ख. पाठः. २. 'ए' क. पाठः. ३. 'किं ।' ख. पाठः. ४. 'ट्टी दाणिं सु'
    ख. पाठः. ५. 'त्तो । रा' क. पाठः. ६. 'म' क. पाठः. ७. 'भ्य' क. पाठः.
    ८. 'त्री नि' ख. पाठः. ९. 'ह्यो' ख. पाठः.