स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 180, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ७३
राजा — शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः ।
प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता)
*राजा — पद्मावति ! त्वमपि तामानय ।
पद्मावती — (ख) जं अय्यउत्तो आणवेदि । (निष्क्रान्ता)
(ततः प्रविशति यौगन्धरायणः प्रतीहारी च)
यौगन्धरायणः — (टो?भोः) (आत्मगतम्)
प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं
कामं मया कृतमिदं हितमित्यवेक्ष्य ।
सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ १५ ॥
प्रतीहारी — (ग) एसो भट्टा । उवसप्पदु अय्यो ।
यौगन्धरायणः — जयतु भवान् जयतु ।
राजा — श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः
स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता ।
यौगन्धरायणः — अथकिम् ।
(क) यद् भर्ताज्ञापयति ।
(ख) यद् आर्यपुत्र आज्ञापयति ।
(ग) एष भर्ता । उपसर्पत्वार्यः ।
१. 'णः प्र' क. पाठः.
* 'राजे'त्यादि 'निष्क्रान्ता' इत्यन्तं ख. पुस्तके नास्ति ।