स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 175, कुल 204 में से
संदर्भ में पढ़ें१८ स्वप्नवासवदत्ते
काञ्चुकीयः— अथकिम् । कुशली महासेनः । इहापि
सर्वगतं कुशलं पृच्छति ।
राजा— (उत्थाय) किमाज्ञापयति महासेनः ।
काञ्चुकीयः— सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थे-
नैव भवता श्रोतव्यो महासेनस्य सन्देशः ।
राजा— यदाज्ञापयति महासेनः । (उपविशति)
काञ्चुकीयः— दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीत-
मिति । कुतः,
कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते ।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥ ७ ॥
राजा— सर्वमेतन्महासेनस्य प्रभावैः ।
अहमवजितः पूर्वं तावत् सुतैः सह लालितो
दृढमपहृता कन्या भूयो मया न च रक्षिता ।
निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता
ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥
काञ्चुकीयः— एष महासेनस्य सन्देशैः । देव्याः सन्दे-
शमिहात्रभवती कथयिष्यति ।
राजा— हा अम्ब !
षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता ।
मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ ९ ॥
१. 'जा- (आसनादुत्था' ख. पाठः. २. 'वः । कुतः, अ' ख. पाठः. ३. 'शः । तत्रभवत्याः
स' ख. पाठः.