स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 176, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ३९
धात्री — (क) अरोआ भट्टिणी भट्टारं सव्वगदं कुसळं
पुच्छदि ।
राजा — सर्वगतं कुशलमिति । अम्ब! ईदृशं कुशलम् ।
धात्री — (ख) मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं ।
काञ्चुकीयः — धारयत्वार्यपुत्रः । उपरताप्यनुपरता महा-
सेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । अथवा,
कः कं शक्तो रक्षितुं मृत्युकाले
रज्जुच्छेदे के घटं धारयन्ति ।
एवं लोकस्तुल्यधर्मा वनानां
काले काले छिद्यते रुह्यते च ॥ १० ॥
राजा — आर्य ! मा मैवम् ।
महासेनस्य दुहिता शिष्या देवी च मे प्रिया ।
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥ ११ ॥
धात्री — (ग) आह भट्टिणी — उवरदा वासवदत्ता । मम
वा महासेणस्स वा जादिसो गोवाळअवालओ† तादिसो एव्व
तुमं पुढमं एव्व अभिप्पेदो जामादुआत्ति । एदण्णिमित्तं उज्जइणिं
(क) अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति ।
(ख) मेदानीं भर्तातिमात्रं सन्तप्तुम् ।
(ग) आह भट्टिनी — उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशो
गोपालकपालकस्तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमा-
१. 'प्पिअ । (ही ? ईरि ) सं दाणिं एदं' ख. पाठः. २. 'ना ह्यार्ये' ख. पाठः. ३.
'कु' ख. पाठः.
† गोपालको वासवदत्ताभ्राता ।