सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 174, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 174

षष्ठोऽङ्कः। ६७
भाग्यैश्चलैर्महँ*दवाप्तगुणोपघातः
पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥ ४ ॥
(ततः प्रविशति काञ्चुकीयः धात्री प्रतीहारी च)
काञ्चुकीयः — भोः!
सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः
स्मृत्वा पुनर्नृपसुतानिधनं विषादः ।
किं नाम दैव ! भवता न कृतं यदि स्याद्
राज्यं परैरपहृतं कुशलं च देव्याः ॥ ५ ॥
प्रतीहारी — (क) एसो भट्टा, उवसप्पदु अय्यो ।
काञ्चुकीयैः — (उपेत्य) जयत्वार्यपुत्रः ।
धात्री — (ख) जेदु भट्टा ।
राजा — (सबहुमानम्) आर्य !
पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः ।
अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ ६ ॥
(क) एष भर्ता, उपसर्पत्वार्यः ।
(ख) जयतु भर्ता ।
१. 'तः ॥ पद्मावती—अय्यउत्त ! कीस किक्खिदु पत्तकाळे । प्रताहारी — असौ कञ्चुकीओ
धत्ती अ पडिहारं उवविट्ठा। राजा—शीघ्रं प्रवेश्यताम्। प्रतीहारी—जं भट्टा आणवेदि (निष्क्रान्ता) (त'
ख. पाठः. २. 'यः—ज' ख. पाठः.

  • महदिति भयक्रियाविशेषणम् ।