स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 173, कुल 204 में से
संदर्भ में पढ़ें६६ स्वप्नवासवदत्ते
राजा — अनुरूपमेतद् भवत्याभिहितं — वासवदत्ता-
स्वजनो मे स्वजन इति । पद्मावति ! आस्यताम् । किमिदानीं
नास्यते ।
पद्मावती — (क) अय्यउ(त्त?त्तो) किं मए सह उवविट्ठो
एदं जणं पेक्खिस्सदि ।
राजा — कोऽत्र दोषः ।
पद्मावती — (ख) अय्यउत्तस्स अवरो परिग्गहो त्ति उदा-
सीणं विअ होदि ।
राजा — कलत्रदर्शनाहं जनं कलत्रदर्शनात् परिहरतीति
बहुदोषमुत्पादयति । तस्मादास्यताम् ।
पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविश्ये)
अय्यउत्त ! तादो वा अम्बा वा किंणुखु भणिस्सदि त्ति आवि-
ग्गा विअ संवृत्ता ।
राजा — एवमेतत् ।
किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा ।
(क) आर्यपुत्रः किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यते ।
(ख) आर्यपुत्रस्यापरः परिग्रह इति उदासीनमिव भवति ।
(ग) यदार्यपुत्र आज्ञापयति । आर्यपुत्र ! तातो वाम्बा वा किन्नुखलु भणिष्यती-
त्याविग्ने १ संवृत्ता ।
१. 'काञ्चुकीयः—अ' क. पाठः. २. 'शति)' क. पाठः.