स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 122, कुल 204 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । १९
तया सह कुपितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता
यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते
राजनि प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृत्तः स ग्रामः।
ततोऽहमपि निर्गतोऽस्मि ।
तापसी — (क) सो खु गुणवन्तो णाम राओ, जो आअ-
न्तुएण वि इमिणा एव्वं पसंसीअदि ।
चेटी — (ख) भट्टिदारिए! किंणुखु अवरा इत्थिआ तस्स
हत्थं गमिस्सदि ।
पद्मावती — (ग) मम हिअएण एव्व सह मन्तिदं ।
ब्रह्मचारी — *आपृच्छामि भवन्तौ । २गच्छामस्तावत् ।
उभौ — गम्यतामर्थसिद्धये ।
ब्रह्मचारी — तथास्तु । (निष्क्रान्तः)
यौगन्धरायणः — अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमि-
३च्छामि ।
काञ्चुकीयः — तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल।
(क) स खलु गुणवान् नाम राजा, य आगन्तुकेनाप्येनेनैवं प्रशस्यते ।
(ख) भर्तृदारिके! किन्नुखलु अपरा स्त्री तस्य हस्तं गमिष्यति ।
(ग) मम हृदयेनैव सह मन्त्रितम् ।
१. 'आ अइएणा (?) त्रि' क. पाठः. २. 'साधयाम' ख. पाठः. ३. 'मि। पद्मा' क. पाठः.
- 'आङि नुप्रुच्छ्योः' इति तङत्र न गणितो महाकविना । ख. संज्ञे त्वादर्शे 'आपृच्छामि
भवन्तौ' इति न पठ्यते ।