स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 121, कुल 204 में से
संदर्भ में पढ़ें१४ स्वप्नवासवदत्ते
यौगन्धरायणः — अथ भोः ! तं तु पर्यवस्थापयितुं न
कश्चिद् यत्नवानमात्यः ।
ब्रह्मचारी — अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्र-
भवन्तं पर्यवस्थापयितुम् । स हि,
अनाहारे तुल्यः प्रततरुदितक्षामवदनः
शरीरे संस्कारं नृपतिसमदुःखं परिवहन् ।
दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं
नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥१४॥
वासवदत्ता — (क) दिट्ठिआ सुणिक्खित्तो दाणीं अय्यउत्तो ।
यौगन्धरायणः — (आत्मगतम्) अहो *महद्भारमुद्वहति
रुमण्वान् । कुतः,
सविश्रमो ह्ययं ‡भारः प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥ १५ ॥
(प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा ।
ब्रह्मचारी — तदिदानीं न जाने । इह तया सह हसितम्,
इह तया सह कथितम्, इह तया सह पर्युषितम्, इह
(क) दिष्ट्या सुनिश्चित इदानीमार्यपुत्रः ।
१. 'स' ख. पाठः.
- महतो दुरुद्वहभारवहनक्षमस्य भारं महद्भारम् । ‡ अयं नराधिपदाररक्षणरूपो मदीयो
भारः सविश्रमः पद्मावत्यां तन्न्यसनादित्यर्थः । तस्य रुमण्वतः प्रसक्तो भारस्तु नराधिपरक्षणल-
क्षणः श्रमः श्रमहेतुः ।