सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

प्रथमोऽङ्कः । १९
तया सह कुपितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता
यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते
राजनि प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृत्तः स ग्रामः।
ततोऽहमपि निर्गतोऽस्मि ।
तापसी — (क) सो खु गुणवन्तो णाम राओ, जो आअ-
न्तुएण वि इमिणा एव्वं पसंसीअदि ।
चेटी — (ख) भट्टिदारिए! किंणुखु अवरा इत्थिआ तस्स
हत्थं गमिस्सदि ।
पद्मावती — (ग) मम हिअएण एव्व सह मन्तिदं ।
ब्रह्मचारी — *आपृच्छामि भवन्तौ । २गच्छामस्तावत् ।
उभौ — गम्यतामर्थसिद्धये ।
ब्रह्मचारी — तथास्तु । (निष्क्रान्तः)
यौगन्धरायणः — अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमि-
३च्छामि ।
काञ्चुकीयः — तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल।
(क) स खलु गुणवान् नाम राजा, य आगन्तुकेनाप्येनेनैवं प्रशस्यते ।
(ख) भर्तृदारिके! किन्नुखलु अपरा स्त्री तस्य हस्तं गमिष्यति ।
(ग) मम हृदयेनैव सह मन्त्रितम् ।
१. 'आ अइएणा (?) त्रि' क. पाठः. २. 'साधयाम' ख. पाठः. ३. 'मि। पद्मा' क. पाठः.

  • 'आङि नुप्रुच्छ्योः' इति तङत्र न गणितो महाकविना । ख. संज्ञे त्वादर्शे 'आपृच्छामि
    भवन्तौ' इति न पठ्यते ।

१६ स्वप्नवासवदत्ते
पद्मावती — (क) अय्यस्स भइणिआ अय्येण विना
उक्कण्ठिस्सदि ।
यौगन्धरायणः — साधुजनहस्तं गतैषा नोत्कण्ठिष्यति†।
(काञ्चुकीयमवलोक्य) गच्छामस्तावत् ।
काञ्चुकीयः — गच्छतु भवान् पुनर्दर्शनाय ।
यौगन्धरायणः — १तथास्तु । (निष्क्रान्तः)
काञ्चुकीयः — समय इदानीमभ्यन्तरं प्रवेष्टुम् ।
पद्मावती — (ख) अय्ये ! वन्दामि ।
तापसी — (ग) जादे ! तव सदिसं भत्तारं लभेहि ।
वासवदत्ता — (घ) अय्ये ! गच्छामि दाव अहं ।
तापसी — (ङ) तुवं वि अइरेण भत्तारं २समासादेहि ।
वासवदत्ता — (च) अणुग्गहीदह्मि ।
(क) आर्यस्य भगिनिकार्येण विनोत्कण्ठिष्यते ।
(ख) आर्ये ! वन्दे ।
(ग) जाते ! तव सदृशं भर्तारं लभस्व ।
(घ) आर्ये ! गच्छामि तावदहम् ।
(ङ) त्वमपि अचिरेण भर्तारं समासादय ।
(च) अनुगृहीतास्मि ।
१. ‘बाढम्’ ख. पाठः. २. ‘ता ग’ ख. पाठः. ३. ‘लभेहि’ ख. पाठः.
† इहानुदात्तेत्त्वलक्षणमात्मनेपदं न कृतमनित्यत्वात् ।

प्रथमोऽङ्कः । १७
काञ्चुकीयः — तदागम्यताम्, इत इतो भवति ! । स-
म्प्रति हि,
खगा वासोपेताः सलिलमवगाढो मुनिजनः
प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् ।
परिभ्रष्टो दूराद् रविरपि च संक्षिप्तकिरणो
रथं व्यावृत्यासौ प्रविशति शनैरस्तशिखरम् ॥ १६ ॥
(निष्क्रान्ताः सर्वे)
प्रथमोऽङ्कः ।


१. 'यः — इत इतो भवत्यः (?) स' ख. पाठः.

अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति चेटी)
चेटी — (क) कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ
पदुमावदी । किं भणासि, एसा भट्टिदारिआ माहवीळदामण्ड-
वस्स पस्सदो कन्दुएण कीळंदित्ति । जाव भट्टिदारिं उवस-
प्पामि । (परिक्रम्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूळिएण
वाआमसञ्जादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण
कन्दुएण कीळन्दी इदो एव्व आअच्छदि^२ । जाव उवसप्पिस्सं^¶ ।
(निष्क्रान्ता)
प्रवेशकः ।
(ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा^३ वासवदत्तया सह )
वासवदत्ता — (ख) हळा ! एसो दे कन्दुओ ।
(क) कुञ्जरिके ! कुञ्जरिके ! कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि,
एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति । यावद् भर्तृदारि-
कामुपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसंजातस्वेदबि-
न्दुविचित्रितेन स्पृश्यमानरमणीयदर्शनेन कन्दुकेन क्रीडन्तीत एवागच्छति । यावदुप-
सर्पामि ।
(ख) हला ! एष ते कन्दुकः ।
१. 'ळन्दी सि' क. पाठः. २. 'दित्ति जा' क. पाठः. ३. 'रा आवन्तिकावेषधारिणी वास-
वदत्ता च' ख. पाठः.
¶ 'उवसप्पामि' इत्येवालम् ।

द्वितीयोऽङ्कः । १९
पद्मावती — (क) अय्ये ! भोदु दाणिं एत्तअं ।
वासवदत्ता — (ख) हळा ! अदिचिरं कन्दुएण कीळिअ
अहिससञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता ।
चेटी — (ग) कीळदु कीळदु दाव भट्टिदारिआ । णिव्व-
त्तीअदु दाव अअं कण्णाभावरमणिज्जो काळो ।
पद्मावती — (घ) अय्ये ! किं दाणिं मं ओहसिदुं विअ
णिज्झाअसि ।
वासवदत्ता — (ङ) णहि णहि । हळा ! अधिअं अज्ज
†सोहदि । अभिदो विअ दे¹ अज्ज वरमुखं पेक्खामि ।
पद्मावती — (च) अवेहि । मा दाणिं मं ओहस ।
(क) आर्ये ! भवत्विदानीमेतावत् ।
(ख) हळा ! अतिचिरं कन्दुकेन क्रीडित्वाधिकसञ्जातरागौ परकीयाविव ते हस्तौ
संवृत्तौ ।
(ग) क्रीडतु क्रीडतु तावद् भर्तृदारिका । निर्वर्त्यतां तावद् अयं कन्याभावरम-
णीयः कालः ।
(घ) आर्ये ! किमिदानीं मामपहसितुमिव निध्यायसि ।
(ङ) नहि नहि । हळा ! अधिकमद्य शोभसे । अभित इव तेऽद्य वरमुखं
पश्यामि ।
(च) अपेहि । मेदानीं मामपहस ।
१. 'दे व' ख. पाठः.
† 'सोहसि' इति स्यात् ।

१० स्वप्नवासवदत्ते
वासवदत्ता — (क) एसा तुण्णिआ भविस्स(दि) महासेण-
वहूए।
पद्मावती — (ख) को एसो महासेणो णाम ।
वासवदत्ता — (ग) अत्थि उज्जयिणीओ राआ पज्जोदो
णाम। तस्स बळ‡परिणामणिव्वुत्तं णामहेअं महासेणो त्ति ।
चेटी — (घ) भट्टिदारिआ तेणे भत्ता सह सम्बन्धं णेच्छदि।
वासवदत्ता — (ङ) अह केण खु दाणिं अभिळसदि ।
चेटी — (च) अत्थि वच्छराओ उअँअणो णाम। तस्स
गुणाणि भट्टिदारिआ अभिळसदि।
वासवदत्ता — (आत्मगतम्) (छ) अय्यउत्तं भत्तारं अभिळ-
सदि। (प्रकाशम्) केण कारणेण ।
चेटी — (ज) साणुक्कोसो त्ति ।
(क) एषा (स्नुषा) भविष्यति महासेनस्नुषाः ।
(ख) क एष महासेनो नाम ।
(ग) अस्ति उज्जायिन्या राजा प्रद्योतो नाम। तस्य बलपरिणामनिर्वृत्तं नामधेयं
महासेन इति ।
(घ) भर्तृदारिका तेन भर्त्रा सह संबन्धं नेच्छति ।
(ङ) अथ केन खल्विदानीमभिलषति ।
(च) अस्ति वत्सराज उदयनों नाम । तस्य गुणान् भर्तृदारिकाभिलषति ।
(छ) आर्यपुत्रं भर्तारमभिलषति । केन कारणेन ।
(ज) सानुकक्रोश इति ।
१. 'इ' ख. पाठः. २. 'ण (धु?) भ' ख. पाठः. ३. 'न्थामिच्छ' क. पाठः.
४. 'दअ' ख. पाठः.
‡ 'परिमाण' इति कदाचित् स्यात् ।

द्वितीयोऽङ्कः । २१
वासवदत्ता — (आत्मगतम्) (क) जाणामि जाणामि । अअं
वि¹ जणो एवं उम्मादिदो ।
चेटी — (ख) भट्टिदारिए! जदि सो राआ विरूवो भवे ।
वासवदत्ता — (ग) णहि णहि । दंसणिय्यो एव्व ।
पद्मावती — (घ) अय्ये ! कहं तुवं जाणासि ।
वासवदत्ता — (आत्मगतम्) (ङ) अय्यउत्तपक्खवादेण
अदिक्कन्दो समुदाआरो । किं दाणिं करिस्सं । होदु दिट्ठं ।
(प्रकाशम्) हळा! एवं उज्जइणीओ जणो मन्तेदि ।
पद्मावती — (च) जुज्जइ । ण खु एसो उज्जइणीदु-
ळ्ळहो । सव्वजणमणोभिरामं खु सोभग्गं णाम ।
(प्रविश्य)
धात्री — (छ) जेदु भट्टिदारिआ । भट्टिदारिए ! दिण्णासि ।
(क) जानामि जानामि । अयमपि जन एवमुन्मादितः ।
(ख) यदि स राजा विरूपो भवेत् ।
(ग) भर्तृदारिके ! नहि नहि । दर्शनीय एव ।
(घ) आर्ये ! कथं त्वं जानासि ।
(ङ) आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । किमिदानीं करिष्यामि । भवतु
दृष्टम् । हला ! एवमुज्जयिन्या जनो मन्त्रयते ।
(च) युज्यते । न खल्वेष उज्जयिनीदुर्लभः । सर्वजनमनोभिरामं खलु सौभा-
ग्यं नाम ।
(छ) जयतु भर्तृदारिका । भर्तृदारिके ! दत्तासि ।
१. 'विअ ज' ख. पाठः. २. 'ततः प्रविशति धात्री' क. पाठः.

१२ स्वप्नवासवदत्ते
वासवदत्ता — (क) अय्ये ! कस्स ।
धात्री — (ख) वच्छराअस्स उदअणस्स ।
वासवदत्ता — (ग) अह कुसळी सो राआ ।
धात्री -- (घ) कुसळी सो आअदो । *तस्स भट्टिदारिआ
पडिच्छिदा अ ।
वासवदत्ता -- (ङ) अच्चाहिदं १ ।
धात्री — (च) किं एत्थ अच्चाहिदं ।
वासवदत्ता — (छ) ण हु किञ्चि । तह णाम सन्त-
प्पिअ उदासीणो होदि त्ति ।
धात्री — (ज) अय्ये ! आअमप्पहाणाणि सुळहपय्यवत्थो- २
णाणि महापुरुसहिअआणि होन्ति ।
(क) आर्ये ! कस्मै ।
(ख) वत्सराजायोदयनाय ।
(ग) अथ कुशली स राजा ।
(घ) कुशली स आगतः । तस्य भर्तृदारिका प्रतीष्टा च ।
(ङ) अत्याहितम् ।
(च) किमत्रात्याहितम् ।
(छ) न खलु किञ्चित् । तथा नाम सन्तप्त्योदासीनो भवतीति ।
(ज) आर्ये ! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति ।
१. 'दं खु एदम् ' ख. पाठः. २. 'त्थावणा' ख. पाठः.

  • तेनेत्यर्थः ।

द्वितीयोऽङ्कः । २३
वासवदत्ता — (क) अय्ये! सअं एव्व तेण वरिदा ।
धात्री — (ख) णहि णहि । अण्णप्पओअणेण इह आअ-
दस्स अभिजणविण्णाणवओरूवं पेक्खिअ सअं एव्व महा-
राएण दिण्णा ।
वासवदत्ता — (आत्मगतम्) (ग) एव्वं । अणवरद्धो दाणिं
एत्थ अय्यउत्तो ।
(प्रविश्यापरा)
चेटी — (घ) तुवरदु तुवरदु दाव अय्या । अज्ज एव्व
किळ सोभणं णक्खत्तं । अज्ज एव्व कोदुअमङ्गळं कादव्वं
त्ति अम्हाणं भट्टिणी भणादि ।
वासवदत्ता — (ङ) (आत्मगतम्) जह जह तुवरदि, तह
तह अन्धीक(दा?र)इ मे हिअअं ।
धात्री — (च) एदु एदु भट्टिदारिआ ।
(निष्क्रान्ताः सर्वे)
द्वितीयोऽङ्कः ।
(क) आर्ये ! स्वयमेव तेन वृता ।
(ख) नहि नहि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव
महाराजेन दत्ता ।
(ग) एवम् । अनपराद्ध इदानीमत्रार्यपुत्रः ।
(घ) त्वरतां त्वरतां तावदार्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुक-
मङ्गलं कर्तव्यमिति अस्माकं भट्टिनी भणति ।
(ङ) यथा यथा त्वरते, तथा तथान्धीक्रियते मे हृदयम् ।
(च) एत्वेतु भर्तृदारिका ।
१. 'राघो दाणिं अय्य' क. पाठः, २. 'भट्टिदारिआ । अ' ख. पाठः, ३. 'अन्धआरेण पिहिदं
विअ मे' ख. पाठः,

पञ्चम अङ्क: समुद्रगृह में स्वप्न-दर्शन व वासवदत्ता मिलन

अथ तृतीयोऽङ्कः ।
(ततः प्रविशति¹ विचिन्तयन्ती वासवदत्ता)
वासवदत्ता — (क) विवाहामोदसङ्कुले अन्तेउरचउस्साळे
परित्तजिअ पदुमावदिं इह आगदह्मि पमदवणं । जाव दाणिं
भागधेयोणि(वु?व्वु)त्तं दुःखं विनोदेमि । (परिक्रम्य) अहो अच्चा-
हिदं । अय्यउत्तो वि णाम परकेरओ संवृत्तो । जाव उववि-
सामि । (उपविश्य) धण्णा खु चक्कवाअवधू, जा अण्णोण्णविरहिदा
ण जीवइ । ण खु अहं पाणाणि परित्तजामि । अय्यउत्तं पेक्खामि
त्ति एदिणा मणोरहेण जीवामि मन्दभाआ ।
(ततः प्रविशति पुष्पाणि गृहीत्वा चेटी)
चेटी — (ख) कहिंणुखु गदा अय्या आवन्तिआ। (परिक्रम्याव-
लोक्य) ³अम्मो इअं चिन्तासुण्णहिअआ णीहारपडिहदचन्दलेहा
विअ अमण्डिदभद्दअं वेसं धारअन्दी पिअङ्गुसिलावट्टए उव-
(क) विवाहामोदसङ्कुले अन्तःपुरचतुःशाले परित्यज्य पद्मावतीमिहागतास्मि
प्रमदवनम् । यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्य-
पुत्रोऽपि नाम परकीयः संवृत्तः । यावद् उपविशामि । धन्या खलु चक्रवाकवधूः, यान्यो-
न्यविरहिता न जीवति । न खल्वहं प्राणान् परित्यजामि । आर्यपुत्रं पश्यामीति एतेन मनो-
रथेन जीवामि मन्दभागा ।
(ख) क्वनुखलु गता आर्यावन्तिका । अम्मो इयं चिन्ताशून्यहृदया नीहारप्रति-
हतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावदुप-
१. 'ति वा' क. पाठः. २. 'णित्तं (?) ख. पाठः. ३. 'अह्मो इ' ख. पाठः.

तृतीयोऽङ्कः । २५
विट्ठा । जाव उवसप्पामि । (उपसृत्य) अय्ये आवन्तिए ! को
काळो, तुमं अण्णेसामि ।
वासवदत्ता — (क) किण्णिमित्तं ।
चेटी — (ख) अह्माअं भट्टिणी² भणादि — महाकुळप्पसूदा
सिणिद्धा णिउणा त्ति। इमं दाव कोदुअमाळिअं गुह्णदु³ अय्या ।
वासवदत्ता⁴ — (ग) अह कस्स किळ गुम्फिदव्वं ।
चेटी — (घ) अह्माअं भद्दिदारिआए ।
वासवदत्ता — (ङ) (आत्मगतम्) एदं वि मए कत्तव्वं आसी ।
अहो अकरुणा खु इस्सरा ।
चेटी — (च) अय्ये ! मा दाणिं अण्णं⁵ चिन्तिअ । एसो
जामादुओ मणिभूमीए ल्हाअदि । सिग्घं दाव गुह्मदु अय्या ।
सर्पामि । आर्ये आवन्तिके ! कः कालः, त्वामन्विष्यामि ।
(क) किंनिमित्तम् ।
(ख) अस्माकं भट्टिनी भणति—महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत्
कौतुकमालिकां गुम्फत्वार्या ।
(ग) अथ कस्मै किल गुम्फितव्यम् ।
(घ) अस्माकं भर्तृदारिकायै ।
(ङ) एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः ।
(च) आर्ये ! मेदानीमन्यच्चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं
तावद् गुम्फत्वार्या ।
१. ‘त्ता—(आत्मगतम्) किं’ क. पाठः. २. ‘णीदारिआ भ’ क. पाठः. ३. ‘गुंहदु किळ
भ’ ख. पाठः. ४. ‘त्ता-कं’ ख. पाठः. ५. ‘अणुचि’ ख. पाठः.

वासवदत्ता— (आत्मगतम्) (क) ण सक्कुणोमि अण्णं चिन्तेदुं।
(प्रकाशम्) हळा ! किं दिट्ठो जामादुओ ।
चेटी—(ख) आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं
कोदूहलेण अ ।
वासवदत्ता— (ग) कीदिसो जामादुओ ।
चेटी —(घ) अय्ये ! भणामि दाव, ण ईरिसों दिट्ठपुरुवो ।
वासवदत्ता— (ङ) हळा ! भणाहि भणाहि, किं दंसणीओ ।
चेटी— (च) सअं खु भअवं सरचावहीणो कामदेवो त्ति ।
वासवदत्ता— (छ) होदु एत्तअं ।
चेटी — (ज) किण्णिमित्तं वारेसि ।
वासवदत्ता— (झ) अजुत्तं परपुरुससङ्कित्तणं सोदुं ।
चेटी — (ञ) तेण हि गुह्यर्दु अय्या सिग्धं ।

(क) न शक्नोम्यन्यच्चिन्तयितुम् । हला ! किं दृष्टो जामाता ।
(ख) आं दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च ।
(ग) कीदृशो जामाता ।
(घ) आर्ये ! भणामि तावद्, नेदृशो दृष्टपूर्वः ।
(ङ) हला ! भण भण, किं दर्शनीयः ।
(च) स्वयं खलु भगवान्शरचापहीनः कामदेव इति ।
(छ) भवत्वेतावत् ।
(ज) किंनिमित्तं वारयसि ।
(झ) अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् ।
(ञ) तेन हि गुम्फत्वार्या शीघ्रम् ।

१. 'दि' क. पाठः. २. 'कामो त्ति' क. पाठः. ३. 'दु दार्णि ए' ख. पाठः. ४. 'दुसि'
ख. पाठः.

तृतीयोऽङ्कः । २७
वासवदत्ता — (क) आणेहि । (आत्मगतम्) इमं गुह्मामि
मन्दभाआ । (वर्जयित्वा* विलोक्य) इमं दाव ओसहं किं णाम ।
चेटी — (ख) अविहवाकरणं णाम ।
वासवदत्ता—(ग) (आत्मगतम्) इदं बहुसो गुह्निदव्वं मम
अ पदुमावदीए अ । (प्रकाशम्) इमं दाव ओसहं किं णाम ।
चेटी — (घ) सवत्तिमद्दणं णाम ।
वासवदत्ता —(ङ) इदं ण गुह्निदव्वं ।
चेटी — (च) कीस ।
वासवदत्ता— (छ) उबरदा तस्स भय्या, तं णिप्पओ-
अणं त्ति ।
(प्रविश्यापरा)
चेटी — (ज) तुवरदुं२ तुवरदु अय्या । एसो जामादुओ अवि-
हवाहि अब्भन्तरचउस्साळं पवेसीअदि ।
(क) आनय । इयं गुम्फामि मन्दभागा । इदं तावदौषधं किं नाम ।
(ख) अविधवाकरणं नाम ।
(ग) इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम ।
(घ) सपत्नीमर्दनं नाम ।
(ङ) इदं न गुम्फितव्यम् ।
(च) कस्मात् ।
(छ) उपरता तस्य भार्या, तन्निष्प्रयोजनमिति ।
(ज) त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुश्शालं प्रवेश्यते ।
१. ‘आव’(?) ख. पाठः. २. ‘दु दाव·अय्या। जा’ क. पाठः.

  • अपुष्पं किमपि गुम्फनप्रसङ्गे हस्तप्राप्तं परिहृत्येत्यर्थः ।

२८ स्वप्नवासवदत्ते
वासवदत्ता-— (क) अइ ! वदामि, गह्ल एदं ।
चेटी — (ख) हेळा ! वासो ओणअव्वे‡ । गच्छामि दाव
अहं ।
(उभे निष्क्रान्ते)
वासवदत्ता²—(ग) गदा एसा । अहो अच्छाहिदं ।
अय्यउत्तो वि णाम परकेरओ संवृत्तौ³ । अविदा* सय्याए मम
दुक्खं विणोदेमि, जदि णिद्दं ळभामि ।
(निष्क्रान्ता)
तृतीयोऽङ्कः ।
──────
(क) अयि ! वदामि, गृहाणैतत् ।
(ख) हला! वास आनेतव्यम् । गच्छामि तावदहम् ।
(ग) गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपिनाम परकीयः संवृत्तः । अविदा
शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे ।
१. 'दृळा ग' क. पाठः. २. 'त्ता - अ' क. पाठः. ३. 'त्तो । (नि' क. पाठः.
‡ 'आणेअव्वे' इति स्यात्। * 'अविदा' इति निर्वेदे ।

अथ चतुर्थोऽङ्कः ।
(ततः प्रविशति विदूषकः)
विदूषकः— (सहर्षम्) (क) दिट्ठिआ तत्तहोदो वच्छराअस्स
अभिप्पेदविवाहमङ्गलारमणिज्जो काळो दिट्ठो । को णाम एदं
जाणादि— तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण
उम्मज्जिस्सामो त्ति । इदाणीं पासादेसु वसीअदि, अन्तेउर-
दिग्घिआसु ह्नाईअदि, पळममउरसुउमाराणि मोदअखज्जआणि
खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभ-
वीअदि । एक्को खु महन्तो दोसो, मम आहारो सुट्ठु ण परिणमदि ।
सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं
अभिदो विअ वत्तदि त्ति पेक्खामि । भो ‡सुहं णामयपरिभूदं
अकळ्ळवत्तं च ।
(क) दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलारमणीयः कालो दृष्टः ।
को नामैतज्जानाति—तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं
प्रासादेषु उष्यते, अन्तःपुरदीर्घिकासु स्नायते, परममधुरसुकुमाराणि मोदकखाद्यानि
खाद्यन्त इति अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः,
ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे, यथा
वातशोणितमभित इव वर्तत इति प्रेक्षे। भोः सुखं नामयपरिभूतमकल्यवर्तं च ।
१. 'हृण्णा अविभू (?) ख. पाठः.
‡ आमयपरिभूतं कल्यवर्तशून्यं च सुखं न भवतीत्यर्थः ।

३० \t\t\t\tस्वप्नवासवदत्ते
\t\t\t(ततः प्रविशति चेटी)
\tचेटी - (क) कहिंणुखु गदो अय्यवसन्तओ । (परिक्रम्यै)
अह्मो एसो वसन्तओ। (उपगम्य) अय्य! वसन्तअ ! को काळो,
तुमं अण्णेसामि ।
\tविदूषकः - (दृष्ट्वा) (ख) किंणिमित्तं भद्दे ! मं अण्णेसॅसि ।
\tचेटी - (ग) अह्माणं भट्टिणी भणादि - अवि व्हादो जामा-
दुओ त्ति ।
\tविदूषकः - (घ) किंणिमित्तं भोदि! पुच्छदि* ।
\tचेटी - (ङ) किमैण्णं । सुमणावण्णअं आणेमि त्ति ।
\tविदूषकः - (च) व्हादो तत्तभवं । सव्वं आणेदु भोदी
वज्जिअ भोअणं ।
\tचेटी - (छ) किंणिमित्त

चतुर्थोऽङ्कः । ५१
विदूषकः — (क) अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो
विअ कुक्खिपरिवट्टो संवुत्तो।
चेटी — (ख) ईदिसा एव्व होहि।
विदूषकः — (ग) गच्छदु भोदी। जाव अहं वि तत्तहोदो
सआसं गच्छामि।
(निष्क्रान्तौ)
प्रवेशकः।
(ततः प्रविशति सपरिवारा पद्मावती १ आवन्तिकावेषरूपधारिणी वासवदत्ता च)
चेटी — (घ) किंनिमित्तं भट्टिदारिआ पमदवणं आअदा।
पद्मावती — (ङ) हल्ळा ! ताणि दाव सेहालिआगुह्मआणि २
पेक्खामि कुसुमिदाणि वा ण वेत्ति।
चेटी — (च) भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवाळ
न्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं।
पद्मावती — (छ) हल्ळा ! जदि एव्वं, किं दाणिं विळम्बेसि।
(क) अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः।
(ख) ईदृश एव भव।
(ग) गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि।
(घ) किंनिमित्तं भर्तृदारिका प्रमदवनमागता।
(ङ) हला ! ते तावद् शेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा नवेति।
(च) भर्तृदारिके ! ते कुसुमिता नाम, प्रवालान्तरितैरिव मौक्तिकालम्बकैराचिताः
कुसुमैः।
(छ) हला ! यद्येवं, किमिदानीं विलम्बसे।
१. ती वा क. पाठः. २. 'णि से' ख. पाठः ३. 'वा' क. पाठः

१२ स्वप्नवासवदत्ते
*चेटी — (क) तेण हि इमस्सिं सिलावट्टए मुहुत्तअं उपविसदु
भट्ठिदारिआ। जाव अहं वि कुसुमावचअं करेमि।
पद्मावती — (ख) अय्ये ! किं एत्थ उपविसामो ।
वासवदत्ता — (ग) एव्वं होदु ।
(उभे उपविशतः)
चेटी^१ — (तथा कृत्वा) (घ) पेक्खदु पेक्खदु भट्ठिदारिआ। अद्धा^२
मणसिलावट्टएहिं विअ सेहालिआकुसुमेहि पूरि^३अं मे अञ्जलिं^४।
पद्मावती — (ङ) अहो विइत्तदा कुसुमाणं । पेक्खदु
पेक्खदु अय्या ।
वासवदत्ता^५ — (च) अहो दस्सणीअदा कुसुमाणं ।
चेटी — (छ) भट्ठिदारिए^७! किं भूयो अवइणुस्सम्^६।
पद्मावती — (ज) हळा ! मा मा भूयो^८ अवइणि^९अ ।
(क) तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसु-
मावचयं करोमि ।
(ख) आर्ये ! किमत्रोपविशावः ।
(ग) एवं भवतु ।
(घ) पश्यतु पश्यतु भर्तृदारिका । अद्धा मनश्शिलापट्टकैरिव शेफालिकाकुसुमैः
पूरितो मेऽञ्जलिः ।
(ङ) अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्वार्या ।
(च) अहो दर्शनीयता कुसुमानाम् ।
(छ) भर्तृदारिके! किं भूयोऽवचेष्यामि ।
(ज) हला ! मा मा भूयोऽवचित्य ।
१. 'टी-पे' क. पाठः. २. 'अ(?)मण' ख. पाठः. ३. 'दा' ख. पाठः. ४. 'झळी'
ख. पाठः. ५. 'त्ता- अव्वो(?) । चे' ख. पाठः ६. 'वि अ विउणिस्सं' ख. पाठः.
७. 'रु' ख.पाठः. ८. 'वि' ख. पाठः. ९. 'णु' ख. पाठः.

  • 'चेटी' इत्यादि 'उपविशतः' इत्यन्तं ख, पुस्तके नास्ति।

चतुर्थोऽङ्कः। ३३
वासवदत्ता — (क) हळा! किणिमित्तं वारेसि ।
पद्मावती — (ख) अय्यउत्तो* इह आअच्छिअ इमं कुसुम-
समिद्धिं पेक्खिअ सम्माणिदा भवेअं ।
वासवदत्ता — (ग) हळा! पिओ दे भत्ता ।
पद्मावती — (घ) अय्ये ! ण आणामि, अय्यउत्तेण विर-
हिदा उक्कण्ठिदौ होमि ।
वासवदत्ता—(आत्मगतम्) (ङ) दुक्करं खु अहं करेमि । इअं
वि णाम एव्वं मन्तेदि ।
चेटी — (च) अभिजॉदं खु भट्टिदारिआए मन्तिदं—पिओ
मे भत्तत्ति ।
पद्मावती — (छ) एक्को खु मे सन्देहो ।
वासवदत्ता — (ज) किं किं ।
(क) हला! किन्निमित्तं वारयसि ।
(ख) आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् ।
(ग) हला! प्रियस्ते भर्ता ।
(घ) आर्ये ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि ।
(ङ) दुष्करं खल्वहं करोमि । इयमपि नामैवं मन्त्रयते ।
(च) अभिजातं खलु भर्तृदारिकया मन्त्रितं । प्रियो मे भर्तेति ।
(छ) एकः खलु मे सन्देहः ।
(ज) किं किम् ।
१. 'हं' ख. पाठः. २. 'अ' ख. पाठः. ३. 'दा विअ हो' ख. पाठः. ४. 'जादं' ख. पाठः. ५. 'आ मं' ख. पाठः.

  • 'अय्यउत्तेण' इति पाठो लेखकप्रमादाद् भ्रष्टो भवेत्।

३४ स्वप्नवासवदत्ते
पद्मावती — (क) जह मम अय्यउत्तो, तह एव्व अय्याए
वासवदत्ताए त्ति ।
वासवदत्ता — (ख) अदो वि अधिअं ।
पद्मावती — (ग) कहं तुवं जाणासि ।
वासवदत्ता — (आत्मगतम्) (घ) हं १, अय्यउत्तुपक्खवादेण
अदिक्कन्दो समुदाआरो २ । एव्वं दाव भणिस्सं । (प्रकाशम्)
जइ अप्पो सिणेहो, सा सँजणं ३ ण परित्तजदि ४ ।
पद्मावती — (ङ) होदव्वं ।
चेटी — (च) भट्टिदारिए ! साहु भट्तारं भणाहि—अहं पि
वीणं सिक्खिस्सामि त्ति ।
पद्मावती — (छ) उत्तो मए अय्यउत्तो ।
वासवदत्ता — (ज) तदो किं भणिदं ।
(क) यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति ।
(ख) अतोऽप्यधिकम् ।
(ग) कथं त्वं जानासि ।
(घ) हम्, आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि ।
यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति ।
(ङ) भवितव्यम् ।
(च) भर्तृदारिके ! साधु भर्तारं भण—अहमपि वीणां शिक्षिष्य इति ।
(छ) उक्तो मयार्यपुत्रः ।
(ज) ततः किं भणितम् ।
१. ‘हा’ ख. पाठः. २. ‘रो । भोदु । ए’ ख. पाठः. ३. ‘स्सत्तणं’ ख. पाठः. ४. ‘इ’
ख. पाठः. ५. ‘त्तो’ क. पाठः.