सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 120, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 120

प्रथमोऽङ्कः । ११
चेटी — (क) भट्टिदारिए ! रोदिदि खु इअं अय्या ।
पद्मावती — (ख) साणुक्कोसाए होदव्वं ।
यौगन्धरायणः — अथकिम् । प्रकृत्या सानुक्रोशा मे
भगिनी । ततस्ततः ।
ब्रह्मचारी — ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।
पद्मावती — (ग) दिट्ठिआ धरइ, मोहं१ गदो त्ति सुणिअ
सुण्२(णं) विअ मे हिअअम् ।
यौगन्धरायणः — ततस्ततः ।
ब्रह्मचारी — ततः स राजा महीतलपरिसर्पणपांसुपाटल-
शरीरः सहसोत्थाय 'हा३ वासवदत्ते ! हा अवन्तिराजपुत्रि !
हा प्रिये ! हा प्रियशिष्ये !' इति किमपि किमपि बहु प्रलपि-
तवान् । किं बहुना,
नैवेदानीं (दुःखि) ताश्चक्रवाका
नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः ।
धन्या सा स्त्री यां तथा वेत्ति भर्ता
भर्तृस्नेहात् सा४ हि दग्धाप्यदग्धा ॥ १३ ॥
(क) भर्तृदारिके ! रोदिति खल्वियमार्या ।
(ख) सानुक्रोशया भवितव्यम् ।
(ग) दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शू(न्य)मिव मे हृदयम् ।
१. 'मोहगदो' ख. पाठः. २. 'सुठन्त (?) वि' ख. पाठः. ३. 'हा अवन्तिराजपुत्रि !
हा वासवदत्ते ! हा प्रि' ख. पाठः. ४. 'सामिद' ख. पाठः.