स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 465, कुल 474 में से
संदर्भ में पढ़ेंउत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः ।
भवेदधश्च करणादधरः श्राद्धकर्मसु ॥
तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्वपेत् ॥
गन्धादि निर्वपेत्तूष्णीं ततश्चाचमयोद्द्विजान् ।
इति । मातामहप्रभृतींस्तु एतेषामेव वामत इत्यस्यायमर्थः—
एतेषां मातृवर्गार्थमवनेजनस्थानानामुत्तरतः कृतपितृवर्गार्थावने-
जनस्थानानामुत्तरतः मातामहप्रभृतीनवनेजयेदित्यर्थः । एतदु-
क्तं भवति—पिण्डस्थाने संस्तीर्णेषु प्रागग्रेषु दर्भेषु मूलमध्या-
ग्रदेशेषु प्रथमं मातृवर्गपिण्डदानार्थमपः क्षिपेत् । तत उत्तरतः
पितृवर्गपिण्डदानार्थं, तत उत्तरतो मातामहवर्गार्थमेवमपः क्षिपे-
दिति । पिण्डान् दत्वेत्यत्र मातृभ्यः पितृभ्यो मातामहेभ्यश्चे-
ति शेषः । ईषत्सक्तान् परस्परमीषत्स्पृष्टान् मात्रादिषु पित्रा-
दिषु च प्रत्येकं द्वौद्वौ पिण्डौ देयौ । तत्र प्रथमः पिण्डः
समन्त्रकनामगोत्रेण देयः । द्वितीयस्तूष्णीमिति । शेषः प्राची-
नप्रकरणोक्तोऽनुसंधेयः । पिण्डार्चनानन्तरं कर्तव्यविशेषस्त-
स्मिन्नेव दर्शितः—
तद्बर्हिर्भूमिमासिञ्चेत् सुष्टुप्रोक्षितमस्त्विति ।
शिवा आपस्संत्विति च युग्मानेवोदकेन हि ॥
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् ।
अक्षतं चारिष्टं चास्त्वित्यक्षतान् प्रतिपादयेत् ॥