सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 464, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 464

[444] स्मृतिचन्द्रिकायां

त्वा वृषभं वयम्' इत्याद्याः । अप्रतिरथं 'आशुश्शिशानः'
इति सूक्तम् । 'मधु वाताः' इत्यृचस्स्थाने "उपास्मै गायता
नरः' इति पञ्च मधुमतीश्च श्रावयेत् । 'अक्षन्नमी मदन्त इति
षष्ठी" इति गृह्यपरिशिष्टे पाठान्तरम् । तृप्तिप्रश्नादौ विशेषः
कात्यायनेन दर्शितः—
सम्पन्नमिति तृप्ताःस्थप्रश्नस्थाने विधीयते ।
सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥
यस्तत्र विकिरोऽन्नस्य तिलवान् यवमांस्तथा ।
उच्छिष्टसंनिधौ सोऽत्र तृप्तेषु विपरीततः ॥
इति । तत्र पार्वणे तृप्तेषु विप्रेषु उच्छिष्टसन्निधौ योऽन्नादेः
विकिरः तृप्तिप्रश्नत उत्तराभ्यां प्रागनुष्ठेयतया तदीयगृह्यसूत्रे
उक्तः, सोऽत्र वृद्धिश्राद्धे विपरीतकः तृप्तिप्रश्नत उत्तराभ्यां
ऊर्ध्वमनुष्ठेय इत्यर्थः । पिण्डदानेऽपि विशेषस्तेनैव दर्शितः—
प्रागग्रेषु तु दर्भेषु आद्यमामन्त्र्य पूर्ववत् ।
अपः क्षिपेन्मूलदेशेऽवनेनिङ्क्ष्वेति निस्तिलाः ॥
द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस्तु एतेषामेव वामतः ॥
सर्वस्मादन्नमुद्धृत्य व्यञ्जनैस्सूपपायसैः ।
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस्ततः ॥
अवनेजनवत्पिण्डान् दत्वा बिल्वप्रमाणकान् ।
तत्पात्रक्षाळनेनाथ पुनरप्यवनेजयेत् ॥