स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 463, कुल 474 में से
संदर्भ में पढ़ेंदिदानं किन्तु पार्वणवदेकैकस्य हस्त एव, अर्घ्यवद्विशेषा-
नभिधानात् । एकैकस्य हस्तेऽपि द्विर्द्विगन्धादिदानं कार्यं,
‘गन्धादिदानं द्विर्द्विः’ इति गृह्यपरिशिष्टेऽभिधानात् । अग्नौ-
करणविशेषस्तेनैवोक्तः— “पाणौ होमोऽग्नये कव्यवाहनाय
स्वाहा सोमाय पितृमते स्वाहा” इति । ‘नित्यं चाग्नौकरणं
स्वाहाकारेण होमश्च’ इति गृह्यपरिशिष्टे पाठान्तरम् । पूर्व-
वदिति वक्तव्ये नित्यमिति तत्रतत्र परिशिष्टकारादिभिरुच्यते ।
ततश्चायमर्थः— नित्यं चाग्नौकरणं पूर्ववदेवाग्नौकरणं इति ।
पार्वणवदग्नौ पाणौ वा करणमिति । ‘इदं विष्णुः’ इत्यङ्गुष्ठ-
ग्रहणमन्त्रस्थाने मन्त्रान्तरमुक्तं तत्रैव— ‘अतो देवा अवन्तु
न इत्यङ्गुष्ठग्रहणम्’ इति । आपोशनदानान्तरं जपे विशेषः
कात्यायनेन दर्शितः—
मधु मध्विति यस्तत्र त्रिजपेच्छ्रेय इच्छता ।
गायत्र्याऽन्नं तत्र सोऽत्र मधुमन्त्रविवर्जितः ॥
इति । मधुमन्त्रः ‘मधुवाता’ इत्यादिमन्त्रः । भुञ्जानेषु विप्रेषु
जप्यमन्त्रविशेषस्तेनैवोक्तः—
न चाश्नत्सु जपेदत्र कदाचित्पितृसंहिताम् ।
अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥
इति । गृह्यपरिशिष्टे— ‘पावमानीः शंवतीरैन्द्रीरप्रतिरथं च श्रा-
वयेत्’ इति । पावमानीः स्वादिष्ठ्येत्येवमाद्याः । शंवतीः
‘शं इन्द्राग्नी भवतामवोभिः’ इत्याद्याः । ऐन्द्रीः ‘इन्द्र’